Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 65
________________ क-केसरीहस्तो, धातुरक्तवस्रवेषः, साशास्त्रलब्धार्थः, प्राणातिपातविरमणादिपश्चयमशौच-सन्तोष-तप-स्वाध्याय-ईश्वरप्रणिधानरूपपञ्चनियमात्मकं शौचमूलं दशपकारं परिव्राजकधर्म दानधर्म च प्ररूपयन्, सहस्रशिष्यपरिवृत्तो व्यासपुत्रः शुको नाम परिव्राजकस्तत्समयेऽभूत् । तेन प्राक् शौचमूलं स्वधर्म ग्राहितः सुदर्शनाख्यो नगरश्रेष्ठी । थावच्चापुत्राचार्येण विनयमूलं स्वधर्म स्वीकारितः। तत्समक्षं शुकप्रश्ना यथा-"सरिसवया भंते । किं भरका अभरका मुआ! भरका वि अभरका वि। ते दुविहा, मित्तसरिसवया धन्नसरिसवया । पढमा तिविहा, सहजाया सहवट्टिया सहपंसुकीलिआ । एए समणाणं अभरका । धन्नसरिसवया दुविहा, सत्थपरिणया इअरे अ । पढमा दुविहा, फासुगा अन्ने अफासुगा वि जाइआ अजाइआ य । जाइआ वि एसणिज्जा अन्ने अएसणिज्जा विलद्धा अलद्धा य । बिइआ सव्वत्थ अभरका, पढमा भरका । एवं कुलत्था वि मासा वि, नवरं मासा तिविहा, कालअत्यधन्नभेआ।" एवं प्रबोधे सहस्रयुतशुकदीक्षा । थावच्चापुत्रः शत्रुञ्जये सिद्धः सहस्रयुतः। सेलकपुरेशं सेलकं पन्थकादिमन्त्रिपञ्चशतीयुतं दीक्षित्वा शुकोपि तथैव सिद्धः । सेलक एकादशाङ्गी पन्थकादिभिः पञ्चशत्या शिष्यैः सह विहरन् रूक्षाद्याहारैः कण्डूपिचादिरोगाक्रान्तः सेलकपुरे प्राप्तः । पुत्रमंडूकनृपेण स्वयानशालायां स्थापितः । पासुकौषधपथ्यैः पट्टकृतोऽपि स्निग्धाहारगृझ्या बहिर्न विहरति । ततः शिष्याः पन्थकं तद्वैयावृत्त्ये नियोज्य विजहुः । अन्यदा कार्तिकचतुर्मासकदिने सेलको यथेष्टं भुक्त्वा सुप्तः । प्रतिक्रमणवेलायां पन्थकेन क्षामणकार्थ पादयोः शिरसा घट्टितः प्रबुद्धो रुष्टः । पन्थकः प्राह,-" चतुर्मासकापराधक्षामणाय मया पादौ स्पृष्टौ ।" सेलको वैराग्यप्राप्तो व्यचिन्तयत, 'धिग् मां रसगृदं ' ततो विजहार । अन्येऽपि शिष्या मिलिताः शत्रुञ्जये तैः सह सिद्धः । " इति यावच्चापुत्रकथा ।। तस्मात्प्रत्यहंसद्गुरुभ्यः शृणोति धर्मोपदेशं । श्रुत्वा चानुतिष्ठति तदादिष्टमर्थ यथाशक्ति । यतो नौषधभक्ष्यादिज्ञानमात्रेणारोग्यतृप्त्यादि किन्तु क्रियोपयोग एव । आह च "क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥१॥ जाणतोवि अ तरिउं, काइअजोगं न जुंजइ नईए। सो वुझ्झइ सोएणं, एवं नाणी चरणहीणो ॥२॥" दशाचूर्णावपि-"जो अकिरिआवाइ सो भविओ अभविओ वा निमा किण्हपरिकओ। किरिआवादी निअमा भषिओ, निमा सुक्कपरिकओ, अंतो पुग्गलपरिअट्टस्स नियमा सिज्झहिइ, सम्मदिट्ठी मिच्छादिट्ठी वा हुज्जा।":, च ज्ञानरहिता क्रियापि परिणतिहिता। यतः" अन्नाणा कम्मखओ, जायइ मंडुक्कचुण्णतुल्लत्ति । सम्मकिरिआइ सो पुण, नेओ तच्छारसारिच्छो ॥१॥ जं अन्नाणी कम्म, खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासामित्तेणं ॥२॥" अत एव तामलिपूरणादीनां बहुतपः क्लेशेऽपीशानन्द्र त्वचमरेन्द्रत्वाधल्पफलं । ज्ञानवतोऽपि श्रद्धानं विनाङ्गारमर्दकादेरिव न सम्यक्रियायां प्रवृत्तिः। पथ्यते च-" अज्ञस्य शक्तिरसमर्थविधेर्निबोधस्तीचारुचेरियममू तुदती न किश्चित् । अन्धाविहीनहतवाञ्छितमानसानां दृष्टा न जातु हितवृत्तिरनन्तराया ॥१॥" ततो ज्ञानदर्शनचारित्रयोगे मोक्ष इति तत्त्रयाराधनाय यतेतेति तात्पर्य । तथा पृच्छति यतिकृत्यनिर्वाहं । यथा निर्वइति युष्माकं संयमयात्रा ? सुखरात्रिर्भवतां ? निराबाधाः शरीरेण यूयं ? न बाधते वः कश्चिद् व्याधिः ? न योग्यं किमपि ? वैद्यादेर्न प्रयोजनं किञ्चिदौषधादिना ? नार्थित्वं किञ्चित्पथ्यादिना ? इत्यादि । एवं प्रश्नश्च महानिर्जराहेतुः । यतः- " अभिगमणवंदणनमंसणेण पडिपुच्छणेण साहणं । चिरसंचिपि कम्म, खणण विरलत्तणमुवेइ ॥१॥" प्राग्वन्दनावसरे सामान्यतः, "सुहराईसुहतपसरीरनिरावाधेत्यादिप्रश्नकरणेऽपि विशेषेणात्र प्रश्नः सम्यक्स्वरूपपरिज्ञानार्थस्तदुपायकरणार्थश्च । अत एवात्र पदोलगित्वा, " इच्छाकारि भगवन् पसाउकरी फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुछणेणं पाडिहारिअपीढफलगसिज्जासंथारेणं ओसहभेसज्जेणं भयवं अणुग्गहो कायव्वो" । इति व्यक्त्या निमन्त्रणं च कार्य । अत्र शय्या सा यत्र प्रसारितपादैः सुप्यते । संस्तारकस्तु किञ्चिल्लघुः। औषधमेकद्रव्याश्रयं । भैषज्यं तु द्रव्यसमुदायरूपं । इदं च निमन्त्रणं संप्रति गुरूणां वृहदवन्दनकपदानानन्तरं श्राद्धाः कुर्वन्ति । येन च प्रतिक्रमणं गुरुभिः सह कृतं भवति, स मुर्योदयादनु यदा स्वगृहादौ याति तदा तत्करोति । यस्य च प्रतिक्रमणवन्दनकयोगो न स्यात्तेनापि वन्दनाद्यवसरे एवं निमंत्रणं क्रियते। मुख्यवृत्त्या तु द्वितीयवारदेवपूजानैवेद्यढौकनानन्तरमुपाश्रये गत्वा साधून्निमन्त्रयेत् । श्राद्ध दिनकृत्यमूत्रादौ तथा दर्शनात् । ततो यथावसरयोगं कारयति चिकित्सा, ददात्योषधादि, विहारयति यथाह पथ्यादि, सारयति सर्वप्रयोजनानि । यतः-“दाणं आहाराई, ओसहवत्थाई जस्स जं जोगं । णाणाईणगुणाणं, उवटुंभणहेउ साहूणं ।। १॥" गृहागतानां च साधूनां यद्यद्योग्यं तत्तत्सर्व विहारयितुं प्रत्यहं नामग्राहं कथयत्यन्यथा प्राकृतनिमन्त्रणस्य वैफल्यापत्तेः । नामग्राहं कथने तु यदि साधवो न विहरन्ति, तदापि कथयितुः पुण्यं स्यादेव । यदवोचाम-" मनसापि भवेत्पुण्यं वचसा च विशेषतः। कर्त्तव्येनापि तद्योगे स्वमोऽभूत्फलेग्रहिः ।।१॥" अकथने तु विलोक्यमानमपि साधवो न विहरन्ति इति महती हानिः । एवं निमन्त्रणेपि जातु साधवो नायान्ति तदापि निमन्त्रयितुः पुण्यं स्योद्भावविशेषे त्वधिकतरमिति । यथा-" वैशाल्यां छाद्मस्थ्ये चतुर्मासीतपसा प्रतिमास्थस्य श्रीवीरस्य प्रत्यहं पारणार्थनिमन्त्री जीर्णश्रेष्ठी चतुर्मासीमान्तेऽद्य पारणं भाव्येवेति दृढं निमन्त्र्य गृहे गतो धन्योऽहं स्वाम्यद्य मद्गृहे पारणं कर्तेत्यादिभावनयैवाच्युतस्वर्गायुर्वबन्ध । पारणं तु स्वामी मिथ्यागभिनवश्रेष्टिना भिक्षाचररीत्या 64 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134