Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
प
मैन्यत्किञ्चिद्विचार्यताम् ।। १६७ ।। तैस्तैर्विकारैराकारैः प्रकारैश्च सदुक्तिनैः । प्रेक्षणैर्लक्षणैश्चैनं जाने काञ्चन कन्यकाम् ।। १६८ ।। कुतोऽन्यथा तदा पृष्टः सोऽभूद् बाप्पांबुपूर्णदृग् । अबलानामिदं चिह्नं नोत्तमे पुंसि संभवेत् ।। १६९ ।। न घोरः समि ( मी )रः सोऽपि किन्तु दिव्यं किमप्यदः । नोचेन्महर्षिमेवैषोऽपाहार्षीन्नतु नौ कुतः १ ॥ १७० ॥ धन्या कापि दैवतादिदुर्प्रहात् । विडम्ब्यते ध्रुवमेवं दुदैवं प्रति कः प्रभुः १ ॥ १७१ ।। दुष्टग्रहाद्विमुक्ता च सा त्वामेव वरिष्यति । दृष्टपूर्वी सुपर्वद्धुं कोऽन्यत्र कुरुते रतिम् ।। १७२ ॥ दुष्टग्रहाद्विमोक्षोऽपि तस्याः संभाव्यते द्रुतम् । रात्रिग्रहादिवब्जिन्यास्तव शूर ! शुभोदयात् ॥ १७३ ।। सङ्घस्यते च ते सद्यः सापि दैववशात्कचित् । आवश्यकी हाभीष्टार्थसिद्धिः सद्भाग्यशालिनाम् ॥ १७४ ॥ संभाव्यापि प्रोच्यमानं माननीयमिदं त्वया । ज्ञास्यते चॉल्पकालेन सत्यासत्यत्वनिर्णयः ।। १७५ ।। दुरालापान् कुमार ! सुविचारवित् । किमङ्ग कुरुषे धीर ! पुरुषेष्विति नौचिती ।। १७६ ।। इति कीरगिरं युक्तियुक्तां मनसिकृत्य सः । कृत्यवित्यक्तशोकोऽभूद् विज्ञेोक्तिः किं न साधयेत् १ ॥ १७७॥ तमिष्टदैवतमिव स्मरन्तौ तौ यतीश्वरम् । वाजि - राजमथांरुह्य पथि प्राग्वत् प्रचेलतुः ॥ १७८ ॥ काननानि नगान्नैकानांकरांन्नगराणि च । सरांसि सरितोऽप्युच्चैः समुल्लङ्घ्य सहस्रशः ।। १७९ ।। निरन्तरमयाणेन प्रयान्तौ तौ क्रमात्पुरः । प्रकाममभिरामदुर्माराममलुलोकताम् ॥ १८० ॥ युग्मम् ॥ निस्सीमद्रुमसुमभ्रमद्भ्रमरझङ्कृतैः । स्वागतं निजगादेव कुमारेन्द्राय सादरम् ? ॥ १८९ ॥ प्रविशन्तौ च तौ तत्र मीतौ प्रेक्षांबभूवतुः । प्रासादमादिदेवस्य दीव्यन्नव्यमणमियम् ।। १८२ ॥ भो भवद्वयलाभस्ते भाव्यंत्रेति कुमारराट् !। दूरादीकारयांचक्रे कंप्रया' यत्पताकया ।। १८३ || तिलकडुममूलेऽवं नियम्य कुसुमाद्यथ । प्रगुणीकृत्य चैत्यान्तः कुमारः कीरयुग ययौ ॥ १८४ ॥ विधिविद्विधिवत्पूजां विधाय विविधैः सुमैः । विनिद्रधीर्जिनेन्द्रं संस्तोतुमित्युपचक्रमे ।। १८५ ॥ श्रीमयुगादिदेवाय सेवाहेबाकिनाकिने । नमो देवाधिदेवाय' विश्वविश्वैकदृश्वने ।। १८६ ।। परमानन्दकन्दाय परमार्थैकदेशिने । परमब्रह्मरूपाय नमः परमयोगिने ॥ १८७ ।। परमात्मस्वरूपाय परमानन्ददायिने । नमस्त्रिजगदीशाय युगादीशाय तायिने ।। १८८ ॥ योगिनामप्यगम्याय प्रणम्याय महात्मनाम् । नमः श्रीशंभवे विश्वमभवेऽस्तु नमो नमः ॥ १८९ ॥ इत्युल्लासेन पनसफलवत्स्फुटकंटकः । जिनं स्तुत्वांप्ततत्त्वार्थः' प्रवासं सोऽकृतार्थयत् ॥ १९० ॥ सतृष्ण इव तचैत्यमभितः सुषमामृतम् । पायं पायं व्यपायं स सौहित्यसुखमन्वभूत् ॥ १९१ ॥ निविष्टश्च विशिष्टश्रीकारणे मत्तवारणे । शुशुभे स्वर्विश्वरिवैरावणे मत्तवारणे । १९२ ।। कुमारः कीरमूचे च किमद्यापि न लभ्यते । तचापसकुमारस्य शुद्धिः कापि ममोदकृत् ॥ १९३ ।। शुकोऽप्यख्यत्सखे ! खेदं माकार्षीईर्षमांवह । आसन्नशकुनांन्नूनमद्य स्याचस्य सङ्गमः ।। १९४ ।। अथ च - शिखामणीयितशिखाजुषं प्रेक्षकमुत्पुषम् । कमनी - यकळापश्रीसकळ 'कळभाषिणम् ॥ १९५ ।। शिखण्डिनः परान् स्वश्रीविशेषेण शिखण्डिनः । कुर्बाणं' वज्रिणोऽर्वाणं न्यत्कुर्वाणं' स्ववेगतः ।। १९६ ।। शिखण्डिवरमारूढा दिव्यं दिव्यतनुद्युतिः । श्रीधर्माराधनमाझा प्रज्ञप्तीव सुरीश्वरी ॥ १९७ ॥ पद्मिनीव समग्राङ्गपद्मसौरभ्यवर्षिणी । प्रस्फुरच्चारुतारुण्या लावण्यामृतसारणी ।। १९८ ।। सर्वाङ्गदिव्याभरणैर्दिशस्तेजोमयीरिव । तवाना का सुमुखी समुपेयुषी ॥ १९९ ॥ पञ्चभिः कुलकम् ॥ श्रीनाभेयविभुं भक्त्याभिवन्द्य स्वककेकियुक् ।
नर्त्तितुमारेभे रंभेव भुवमीयुषी ॥ २०० ॥ प्रशस्तैर्हस्तकैर्नैकाङ्गहारैः करणैरपि । भावैश्च विविधैर्हृद्यं' नर्सकीव' ननर्च ' सा' ॥ २०१ ॥ कुमारकीरयोश्चिचे तथा तत्र चमत्कृते । सर्व विस्मृत्य संप्राप्ते यथा तन्मयतामिव ॥ २०२ ॥ रूपसारं कुमारं तं ' सापि प्रेक्ष्य मृगेक्षणा | सोल्लासा सविलासीसीच्चमत्कृतिमयी चिरम् ॥ २०३ ॥ भणिता च कुमारेण करभोरु ! भवेन्न चेत् । मनागपि मनः खेदस्तदा पृच्छामि किञ्चन ।। २०४ || ओमित्युक्तवती सापि तेन पृष्टा' विशिष्टवाक् । आमूलचूलमूचे स्वं' - त्तान्तमिति तान्तिहृत् ।। २०५ ॥ कनकश्रीभिः कनकपुर्यामहर्यसंपदि । कनकध्वजरूपोऽभूत्स्वकुळे कनकध्वजः || २०६ ॥ तृणान्यंयमृती चक्रे यः प्रसत्तिस्पृशा दृशा । यद्वैरिणो रणेऽजीवंस्तान्यास्वाद्यान्यथा कथम् १ ।। २०७ ।। सारमन्तः पुरे तस्य प्रशस्यगुणभूषणा | सुरेन्द्रसुन्दरी मूर्त्त्या कान्ता कुसुमसुन्दरी ॥ २०८ ॥ सन्यिदा प्रमदारत्नं प्रमदाप्तिकरं परम् । स्वप्नं सुखस्वप्नेऽप्यस्वप्नेव स्फुटं यथा ॥ २०९ ॥ मैनांकङ्कमुत्सृज्य रतिप्रीतिप्रदायि मे । रतिप्रीतिद्वयं प्रीतिरङ्गादुत्सङ्गमागमत् ॥ २१० ॥ द्राग् विबुद्धा विबुद्धांब्जलोचना' वचनातिगम् । पूर्यते स्म प्रीतिपूरैर्वारिपूरैरिवापगा ॥ २१९ ॥ सापि स्वप्नं यथादृष्टं गत्वाभाषिष्ट 'भूभुजे । सोऽप्येवमूचिवान् स्वप्नफलं स्वप्नविचारवित् ॥ २१२ ॥ सारं साराङ्गशावाक्षि ! कन्या युग्मं जगत्यपि । भावि भविता येन स्रष्टुः सृष्टेः प्रकृष्टता || २१३ ॥ सा श्रुत्वेति कनीलाभेऽभूद्भूरिप्रमोदभाग् । द्वावपीष्टौ प्रकृष्टौ चेत्पुत्रो वा पुत्रिकापि वा ।। २१४ ॥ सा ततः प्राप्ततद्गर्भा क्रमाद्गर्भानुभावतः । वपुः पाण्डिमैदभेन लेभे निर्मळतां किल ।। २१५ ।। मालिन्यं' जलगर्भायाः कादम्बिन्या भवेद्यदि । तस्या' अजडगर्भायास्तर्हि युक्तैव शुभ्रता ।। २१६ ।। युगपद्युगलं पुत्रयोः सुषुवे ।
सुखेन सा । सम्यग् नीतिरिव द्वैतमद्वैतं कीर्त्तिपद्मयोः || २१७ || अशोकमञ्जरीत्याख्यां प्रथमायाः क्षमापतिः । द्वितीयस्यास्तुतिलकमञ्जरीति व्यरीरचत् ।। २१८ ।। पञ्चभिः पञ्चभिस्तत्र धात्रीभिः परिलालिते । मेराविव कल्पलते ववृधाते क्रमेण ते ।। २१९ ।। कलाकलापं सकलं कलयामासतुश्च ते । स्वल्पैर्दिनैर्विलम्बः स्याद्धी साध्ये धीमतां हि कः ? ।। २२० ।। रूपसंपत्त
1
90
श्रीश्राद्धविधिप्रकरणम्

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134