Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
स्वैत्यस्थात्तथैव सः ॥ ५३५ ॥ लाभाल्लोभः श्रयेद्'वृद्धि' कंडूः कंडूयनादिव । इति तौ' लोभसंभ्रांतौ' बंभ्रांतःस्म पुनर्भुवि ॥ ५३६ ॥ अतिलोभो ह्यनयात्रापीत्येकपदेऽन्यदा । लोभाविष्टौ' प्रविष्टौ ' तावंतर्वैतरणीसरित् ।। ५३७ ।। लोभपूरे ' पुरा मग्नौ तस्याः पूरे तदा' पुनः । मृतौ तौ प्राप्य तिर्यक्त्वं भ्रमतुः कतिचिद्भवान् ॥ ५३८ ॥ भ्रांत्वा च नृभवं प्राप्तौ युवा जातो सुहदरौ । तेन पाक् त्वद्वधो ध्यातस्त्वर्याब्धौ सोऽत्र' पातितः।। ५३९ ॥ यद्यथा यादृशं कर्म क्रियते पार तथा पुरः। अनुभूयेत तत्ताहग्' वृद्धियुगलभ्यदेयवत् ॥ ५४० || वियोगेन'त्यक्तरंगे गौरीगंगे' भवत्मिये । जाते मासोपवासिन्यौ ते तापस्यौ। विरक्तितः ॥ ५४१ ॥ कुलस्त्रीणां हि वैधव्ये 'धर्म एवौचितीं श्रयेत् । द्वौ भवौ'नृभवं प्राप्य ' हारयेत्कः कुधीर्मुधा ॥ ५४२॥ उदग्रोदन्यया दैन्यमन्येद्युः प्रतिपादिता । गौरी'नीरं'मुहुः कांचिद्ययाचे परिचारिकाम् ॥ ५४३॥ तदा' मध्यंदिनोन्मुद्रनिद्रातंद्रालुलोचना । सांतर्हितस्थितिः'मादादुर्विनीतेव'नोत्तरम् ॥ ५४४ ॥ तस्यै । ततोऽल्पकोपापि' चुकोपनिल्पमेव सा । तपस्विव्याधितक्षुत्तदक्षीणेषु सुलभाः क्रुधः ॥ ५४५ ।। क्रुधाभ्यधाच्च'सा'किं रे भक्षिात्युग्रभोगिना । तुच्छे ! दत्से मृतेर्वाद्य यन्न' पतिवचोऽपि मे ।। ५४६ ॥ इत्थं तया भर्त्यितया रयादुत्थाय सूक्तिभिः । अनुनीय' समानीय सा पानीयमपाय्यत ॥ ५४७॥ परं दुर्वचसा गौर्या बद्धं दुष्कर्म दुस्सहम् । हास्येनापि हि 'दुष्टं स्यादुर्वाक्यं किं पुनः क्रुधा ॥ ५४८ ॥ गंगार्म्यगादीदादेश्यामादेशावसरात्यये । जातु प्राप्तां स्ववैयग्यात्' शठदासींमिव क्रुधा ।। ५४९ ॥ बंदे ! धृता भूः केनापि किं. रे येनाधुनागमः । गौर्याः स्पर्द्धादिवाऽबध्नात्साप्येवं कर्म धिक् क्रुधम् ॥ ५५० ॥ गंगा च गणिकामेकामनेकैः कामुकैः समम् । विलसंती वि
५ व्याजवृद्धिसहिताथमर्णवत् । २ तीव्र तृपया। 3 आदेश्या सेवाकारिणीम् । लोक्योच्चैः कदाचिदिति दध्युषी ॥ ५५१ ॥ धन्येयं कामुकैः काम्या' फुल्लन्मल्लीव षट्पदैः । निर्भाग्याभ्योऽपि निर्भाग्यां धि
मां भर्चापि वर्जिताम् ।। ५५२ ॥ सा बध्नादिति दुर्ध्यानात्पुनर्दुष्कर्म दुर्मतिः । प्रादकालादिव मलं लोहं ही मौढ्यमंगिनः ॥ ५५३ ॥ क्रमान्मृते ते ज्योतिष्कदेवीभूयमुपेयतुः । ततश्युते पुनः पुत्रीसवित्र्यौ ते बभूवतुः ॥ ५५४ ॥ दुर्भाषितेन' तेनाभूत्पुत्र्यास्ते' व्यालविप्लवः । जनन्या अपि दैन्याप्तिकभिल्लैबंदविद्रवः ५५५ ।। तव मातुश्च वेश्यात्वमासीद्वेश्या प्रशंसया । न संभवेदसंभाव्यमपि किं प्राच्यकर्मणा ॥ ५५६ ॥ वाङ्मात्रेणाय॑ते कर्म मनोमात्रेण वापि यत् । ही तदप्यप्रतिक्रांतं कायेनैवानुभूयते ॥ ५५७ ॥ भवांश्च प्राग्भवाभ्यासात्कामयामास ते उभे । प्रादुर्भवेद्यथाभ्यासं संस्कारो हि भवांतरे ॥ ५५८ ॥ भृशाभ्यासेऽपि संस्कारा धाः । प्रेत्य । न यांत्यपि । मंदा ' अमंदास्त्वितरे' यांत्येवांग्रेसरा इव ॥५५९ ॥ श्रुत्वैवं । भवनिर्वेदखेदमेदुरितोऽवदत् । श्रीदत्तस्तात ! संसार । निस्तारोपायमादिश ॥ ५६० ॥ भवेद्यत्र भवे पुंसामीदृश्यपि विडंबना । अप्रेतस्तत्र' कः प्रेतवनमाये रतिं । व्रजेत् ॥ ५६१ ॥ सोऽप्याहाँपारसंसारकांतारोतरणं भवेत् । चरणैकबलादेव । तद्यतस्वाऽत्र ' सत्वरम् ॥ ५६२ ॥ सोऽवक ' प्रेष्टमिदं' किंतु' कन्या देयास्ति' कस्यचित् । भवांभोधि तितीर्षोर्मे तञ्चिताऽश्मशिलायते ॥ ५६३ ॥ गुरुरूचे 'मुताचिंता' त्वच्चित्ते 'बाधते मुधा । त्वन्मित्रं शंखदत्तो यत्त्वत्पुत्री परिणेष्यति ।। ५६४ ॥ श्रीदत्तः । खेदतोऽवादीत्सगद्गदमुददृक् । मित्रं ' कुत्र। जगन्मित्र ! पापिनो निष्कृपस्य मे ॥ ५६५ ॥ गुरुणाऽभाणि भो भद्र ! मा विषीद च सीद च । समाहूत इवांगंता' संमत्येव सुहत्तव ॥ ५६६ ॥
१ श्मशानसदृशे। यावद्विस्मयविस्मेरीभावमावहतेऽथ सः । तं वयस्यं 'समायांतं ' तावदूरानिरीक्षत ॥ ५६७ ॥ श्रीदत्तं सोऽपि निर्वर्ण्यवैवयं क्रोधतो दधत । दधावे तद्वधायोचैः कृतांत इव कोपनः ॥ ५६८ ॥ नृपत्यादीनुपतदं ( उपपदं) प्रेक्ष्य चक्षुभितः क्षणम् । तस्थौ स्तंभितवद्यावत्तावत्साधुस्तमभ्यधात् ।। ५६९ ।। हे शंखदत्त ! चित्तस्य। मुंच मुंच प्रकोपिताम् । कोपः कृशानुवत्तीत्रः स्वस्थानमपि निदेहेत् ॥ ५७० ।। कोपः स्यात्किल चांडालस्तत्तस्याऽस्पृश्यतोचिता । स्पृष्टा तु चित्रं नो गंगास्नानाद्यैरपि शुध्यति ।। ५७१ ।। श्रुत्वेति। तात्विकी वाचं ' वाचंयमशिरोमणेः। जांगुलीमिव भोगीद्रः प्रशांत इव सोऽभवत् ॥ ५७२ ।। श्रीदत्तस्तं ततः प्रीत्यै बाहौ धृत्वा निजांतिके । न्यवीविशद्वैमनस्य दुरे स्यादेवमेव हि ।। ५७३ ।। ततः केवलिनां वर्यमार्य: पर्यन्वयुक्त'सः । स्वामिन्नेष कथंकारमार वारिनिधेरिह ।। ५७४ ।। सोऽप्यूचेऽसौ 'तदाभोधौ दैवात्फलकमाप्तवान् । क्षुधातः फलवन्नव मृत्युरत्रुटितायुषः ॥ ५७५ ॥ कूलानुकूलपवनप्रेरिताच्च' ततोऽतरत् । सप्ताहेन सुवैद्योक्ताद्वार्द्ध व्याधि मिवौषधात ५७६ ॥ सोऽथ सारस्वतं. नाम नगरं सागरांतिके । सारस्वतं । श्रांत इव प्रवाहं प्राप्य । पिपिये।। ५७७ ॥ तादृश्यं । वीक्ष्य वैलक्ष्याऽसंवरः'संवराहयः । प्रेमातुलस्तमानिन्ये' मातुलः' स्वनिकेतनम् ।। ५७८ ।। सदौषधादिन्यासेन' मासेन 'पुनरेनेकम् । पटूचक्रेऽब्धिदग्धांग मूर्ख शिष्यं ' गुरुर्यथा ॥ ५७९ ॥ शुद्धिं सुवर्णकूलादेर्शातुं मातुलमादृतः । तमसौ ' प्रश्नयामास कथयामास सोऽप्यथ ॥ ५८० ॥ इतो विंशतियोजन्या' तत्पुरं 'हंत तत्र च । मया श्रुतं । महेभानां महदहनमागतम् ॥ ५८१॥ शुयेति तोपरोपाभ्यां 'नटवद्भावसंकरम् । भजन्मातुलमापृच्छय ' पुरेऽत्रागच्छदाशु' सः॥ ५८२ ॥ क्रुत्परीतः परीपृच्छन् त्वां
१ आर, आजगाम । २ एनकं एनम् । 3 कोषानुरः ।
22
श्रीश्राद्धविधिप्रकरणम्

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134