Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 56
________________ नृपान् ददृशतुरदृश्यौ ॥ १३७ ॥ अथ किं भावीत्यखिलेष्वाकुलचित्तेषु धर्मदत्तं द्राग् । सो (सा) रुणमिव तरुणरविं स्वयुतं प्राचीकटत्खगराद् ॥ १३८ ॥ तं प्रेक्ष्यैव प्रीता सा वत्रे रोहिणीव वसुदेवम् । प्राप्रेमाप्रेमाणौ प्रेरयतः स्वयमुचितकृत्ये ।। १३९ ।। दिक्यदेशेशनृपास्तत्राप्ताः स्वस्वपुत्रिकां खचरात् । आनाययन्विमानैर्मुदिताश्च ददुस्तदैवास्मै ॥ १४० ॥ तत्खचररचितदिव्योत्सवैश्वतस्रोऽपि ताः स परिणिन्ये । निन्ये च खचरपतिना वैताढ्ये सकलराजकयुक् ॥ १४१ ॥ स्वसुतां राज्यं च ददे स धर्मदत्ताय तत्र चित्रमहैः । विद्यासहस्रमस्य च तदादिखचरार्पितं सिद्धम् ॥ १४२ ॥ तत्प्रभुखख चरदत्ताः सनी पाणौ चकार पंचशतीम् । क्रमतः स्वपुरं प्राप्तस्त्ववनीशकनीश्च पंचशतीम् ॥ १४३ ॥ प्राज्यनिजराज्यसंपत्पित्रा चित्रास्तदनु । पुत्रे सुगुणक्षेत्रे न्ययोजि वल्लीव वृद्धिकृते ॥ १४४ ॥ जगृहे चाग्रमहिष्या सह दीक्षा तस्य चित्रगतिसुगुरोः । पार्श्वे स्वहितं को वा कवचहरे सुतवरे न चरेत् ॥ १४५ ॥ आपृच्छय धर्मदत्तं विचित्रगतिनाप्यभाजि यतिधर्मः । चित्रगतिविचित्रगती पितरौ चामुष्य मोक्षमगुः ।। १४६ ॥ अथ धर्मदत्तनृपतिर्लिलासाधितसहस्रदेशनृपः । दशदशसहस्रगजरथदशगुणहयकोटिपत्तिपतिः ।। १४७ || बहुविधविद्यामाद्यत्सहस्रविद्याधराधिपनिषेव्यः । त्रिदशेंद्र इव प्राज्यं साम्राज्यं स बुभुजे सुचिरम् || १४८ ॥ युग्मम् ॥ स्मृतिमात्रागच्छत्प्राक्प्रसन्न देवेन देवकुरुभूवत् । तद्भूर्विदधे मारीत्यवमव्याध्यादि वारणतः ।। १४९ ।। माग्दशशतदलकमलाईदर्चयेदृक्समृद्धिसुखितोऽपि । त्रिर्विधिपूजादिविधौ दधौ स धौरेयतामधिकम् ।।१५०|| पोष्यः स्वकोपकारीत्येष विशेषात्पुपोष जिनभक्तिम् । नवनवचैत्यप्रतिमायात्रास्नात्रादिभिः कृत्यैः ॥ १५१ ॥ राजा यथा तथा स्यात् प्रजेति जिनधर्ममाश्रयन् प्रायः । अष्टादशवर्णा अपि भवद्वयेऽभ्युदयितां च ततः ॥ १५२ ॥ समये सुताय राज्यं प्रदाय देव्यादिभिः सहादाय । व्रतमाईतभक्त्यैकाग्र्यादईत्कर्म सोऽर्जितवान् ।। १५३ || स्वायुर्द्विलक्षपूर्वी भुक्त्वा सोऽभूत्सुरः सहस्रारे | अर्जितगणभृत्कर्मा मुख्या राज्ञ्योऽपि च चतस्रः ।। १५४ ॥ च्युत्वा च विदेहांतः स तीर्थकृद्भूय शिवसुखं लेभे । गणभृद्भावमिताभिस्ताभिः सममहह ! सहयोगः ।। १२५ ।। इत्यवेत्य जिनभक्तिसंभवं वैभवं नृपतिधर्मदत्तवत् । तद्विधौ शुभविधौ सचेतसः संतु संततनिबद्धचेतसः ।। १५६ ।। इति विधिदेवपूजायां धर्मदत्तनृपकथा || सूत्रगाथायां “ उचिअचिंतरओ " इत्युक्तं, तत्र उचितचिता चैत्यममार्जनं विनश्यचैत्यप्रदेश पूजेोपकरणसमारचनं, प्रतिमापरिकरादिनैर्मल्यापादनं, विशिष्टपूजाप्रदीपादिशोभाविर्भावनं, वक्ष्यमाणाशातनानिवारणमक्षतनैवेद्यादिचिंता, चंदनकेशरधूपदीपतैलसंग्रहो वक्ष्यमाणदृष्टांतविनश्यच्चैत्यद्रव्यरक्षा, त्रिचतुराद्यास्तिकसाक्षिकं तदुद्ग्राहणिका, तत्सुस्थानसुयत्नस्थापनं, तदायव्ययादौ सुव्यक्तं लेख्यकं, स्वयं परैश्च द्रव्यार्पणदेवदाय प्रवर्त्तनादिविधिना तदुत्सर्पणं, कर्मस्थायकारणं, कर्मकरचिंता चैत्यादिरनेकविधा । तत्राढ्यस्य द्रव्यपरिजनादिबलसाध्या चिंता सुकरा, अनाढ्यस्य तु स्ववपुः कुटुंबादिसाध्या । यस्य च यत्र यथासामर्थ्यं स तत्र तथा विशेषतः प्रयतते । या च चिंता स्वल्पसमय साध्या, तां द्वितीयनैषेधिक्या अर्वाग् विधत्ते, शेषां तु पश्चादपि यथायोगं । एवं धर्मशालागुरुज्ञानादेरपि यथोचितचिंतायां सर्वशक्त्या यतनीयं, नहि देवगुर्यादीनां श्रावकं विनान्यः कचिञ्चिताकर्तास्ति, ततो ब्राह्मणसाधारणधेनोरिव नैव तेषां यथाईचिंताविधावुपेक्षा शिथिलादरता वा कार्या, तथा सति सम्यक्त्वस्यापि संशयापत्तेः । सा हि का नामाईदादेर्भक्तिर्यस्यामाशातनादावपि नात्यंतं दूयते । श्रूयते हि लोकेऽपीश्वरस्योत्पाटितां दृष्टिं दृष्ट्वा दूनः पुलिंदः स्वाक्षि ददौ । तस्मात्स्वस्वजनादिकृत्येभ्योऽप्यत्यंतादृत्या चैत्यादिकृत्ये नित्यं प्रवर्तितव्यं । अवोचाम च" देहे द्रव्ये कुटुंबे च सर्वसंसारिणां रतिः । जिने जिनमते संघे पुनर्मोक्षाभिलाषिणाम् ।। १ ।। " आशातनाश्च ज्ञानदेवगुर्वादीनां जघन्यादिभेदात् त्रिविधा, तत्र जवन्या ज्ञानाशातना पुस्तकपट्टिकाटिप्पनिक जपमालादेर्वदनोत्थनिष्ठीवनल व स्पर्शः हीनाधिकाक्षरोच्चार:, ज्ञानोपकरणे समीपस्थे सत्यधोवातनिसर्ग इत्यादि १ । मध्यमा अकाले पठनादिः, उपधानतपो बिना सूत्राध्ययनं भ्रांत्यार्थस्यान्यथा कल्पनं, पुस्तकादेः प्रमादात् पादादिस्पर्शः, भूमिपातनं, ज्ञानोपकरणे पार्श्वस्थ सत्याहारग्रहणं, निरोधकरणमित्यादि २ । उत्कृष्टा तु नियुतेन पट्टिकादेरक्षरमार्जनम् उपर्युपवेशनशयनादिः, ज्ञानोपकरणेंsतिकस्थे उच्चारादिकरणं, ज्ञानस्य ज्ञानिनां वा निंदाप्रत्यनीक तोपघातकरणमुत्सूत्रभाषणं चेत्यादि ३ । जघन्या देवाशातना, वासकुंपिकाद्यास्फालन श्वास वस्त्रांचळा दिस्पर्शाया १ । मध्यमा अधौतपोतिकया पूजनभूमिपातनाद्य । २ । उत्कृष्टा चरणघट्टन श्लेष्मनिष्ठ्युतादिलवस्पर्शन प्रतिमाभंग निर्गमन जिनावहीलनाद्या ३ । अथवा देवाशातना जघन्या दश, मध्यमाचत्वारिंशत्, उत्कृष्टाश्चतुरशीतिस्ताच क्रमेणैवमाहुः " तंबोल- पोण- भो अणु - वाण - थी भोग- सुर्वण्ण-निवणं । तुच्चारं -अं, वज्जे जिणमंदिरस्संतो ॥ १ ॥ " इति जघन्यतो दशाशातनाः । - “ मुंत-पुरीसं-पौणह, पौणा- सण-सैंयण- इत्थि - तंबीलं । निट्टीवणं च जूंअं, जुआदिपैलोअणं विगेहा ।। १ ।। पल्हेत्थीकरणं पिहू पायपैसारणपपरैचिवाओ । परिहसा मच्छरिआ, सीहासणनाईपरिभोगो ॥ २ ॥ केसर्सरीरविभूषण, छेत्तासि" - किरीडें- चमेरेधरणं च । धेरैणज्जुवईहिं सर्विऔरहास खिप्प संगाय ॥ ३ ॥ अकय मुँहकोस-मलिणंगवत्थ- जिणपूअण पवित्तीए । मणसो अणेगयचं, सचित्तदविआणअविमुअणं ॥ ४ ॥ अच्चित्तदविअवस्सैजणं च तह असाडिअत्तमवि । जिणदंसणे श्रीश्राद्धविधिप्रकरणम् " 55

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134