Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 95
________________ नूनं क्षिप्रं मूर्ख ! मुमूर्षसि ॥ ३७५ ॥ युग्मम् । शुके पश्यति साशवं कलापिनि सकौतुकम् । सत्रासं पद्मनेत्रायां हंस्यामपि ससंशयं(य:) ॥ ३७६ ।। हसनाह कुमारोऽपि किं रे भापयसे ? मुधा । विभीषिकोन्मिषेदेषा बालं प्रति परं न तु ॥ ३७७॥ त्रस्यन्ति तालिकाघाताद् द्रुतमन्ये पतत्त्रिणः । न पुनः पटहध्वानधृष्टा मठकपोतकाः ।। ३७८ ॥ नैव मुश्चामि कल्पान्तेऽप्यता रे शरणागताम् । जिघृक्षसे तथाप्येनां धिक् फणीशमणीमिव ॥ ३७९ ॥ स्पृहामस्या विहायांशु रेऽपसर रेन चेत् । करिप्ये दशशीर्ध्या ते दशदिस्वामिना बलिम् ॥ ३८० ।। अत्रान्तरे' कुमारेन्द्रसहायकचिकीः स्वयम् । रूपं कलापिनस्त्यक्त्वा कृत्वा रूपं सुपर्वणः ।। ३८१ ।। चन्द्रचूडसुरः सजविविधायुधधोरणिः । कुमारान्तिकमाहूत इवांगात्सुकृतान्यहो ! ।। ३८२ ॥ अवादीच कमारेन्द्र ! युद्धं कुरु यथारुचि । शस्त्राणि पूरयिष्यामि चूरयिष्यामि ते द्विषम् ॥ ३८३ ॥ ततो द्विगुणमुत्साहमुवा१ स सुदुःसहम् । प्राप्तप्रक्षरहर्यक्षपक्षयुक्तक्षकादिवत् ॥३८४ ॥ ततस्तिलकमञ्जर्या हंसी न्यस्य 'करांबुजे । सजीभूयारुरोहावं स सुपर्णमुपे द्रवत् ॥ ३८५ ॥ चन्द्रचूडश्च कोदण्डं गाण्डीवश्रीविडंबिनम् । तस्मै तूणे सतूणीरं नियुक्त इव दत्तवान् ।। ३८६ ।। स तदोपण्डदोर्दण्डे चण्डकोदण्डमण्डलम् । उच्चैरास्फालयमाप स्फालकाल इवांमुना ॥ ३८७॥ धनुगुणटणत्कारमुखरीकृतादिग्मुखम् । योधधुर्यो शरैयुद्ध पारेभाते उभावथ ।। ३८८ ॥ बाणकर्षणसन्धानमोचनादिक्रियाक्रमः । तदा नालक्षि दक्षरप्युभयोलघुहस्तयोः ॥ ३८९ ॥ किन्तु वर्षणमेवैक्षि विशिखानां शुकादिभिः । सद्यस्कांबुधरासारे' क्रमस्याधिगमः' कवा? ॥ ३९० ॥ अविहस्तयोस्तयोश्च प्रकृत्या कृतहस्तयोः। शरव्यतां शरा एव शराणामैयमिथः ।। ३९१ ।। एवं च सेल्लवावल्लतीरीतोमरतलैः । अर्द्धचन्द्रार्द्धनाराचनाराचभमुखैरपि ॥३९२॥ विशेषविशिखैस्तीक्ष्णशिखः सङ्ख्यमसङ्ख्यशः । महाक्रोधौ महायोधौ विदधाते चिरेण तौ ॥३९शायुग्मम्॥अदीनयोस्तदानीमप्युभयोः सांयुगीनयोः । तयोर्महाकिंतवयोरिवाभूज्जयसंशयः ॥३९४॥ क्रमाद्विद्याबलाद दिव्यबलात्मदलयोस्तयोः । वालिपौलस्त्यवत क्षिप्रं कथं वा जयनिर्णयः ॥ ३९५ ॥ न्यायधर्मबलाधिक्यात् क्रमादथ कुमारराट् । चटत्मकर्षतां भेजे सन्न्यायोपात्तवित्तवत् ॥ ३९६ ॥ विलक्षः खेचरेन्द्रोऽय वहन हारितमानिताम् । समयुद्धस्थितिं त्यक्त्वा डुढोके सर्वशक्तितः ।। ३९७॥ विंशत्यापि हि बाहाभिर्विविधैरायुधैश्च सः । प्रहरन् सहस्रबाहुरिवांभूदतिदुस्सहः ।। ३९८ ॥ नूनमैन्याययुद्धेन न कश्चिद्विजयी' कचित् । इत्युच्चकैस्तदोत्सेहे कुमारः सुविचारधीः ॥ ३९९ ॥ प्रहारान् खेचरेन्द्रस्य तुरगेन्द्रप्रयोगतः । वश्चयंश्चाखिलान् । शिमं ' क्षुरमं बाणमाददे ॥ ४०॥ क्षुरप्रेण क्षुरेणेव तस्य प्रहरणानि सः । चिच्छेद च्छेदमर्मज्ञोऽखिलान्यकललीलया ॥४०१॥ अथैकेनार्द्धचन्द्रेण निस्तन्द्रेण रणेऽमुना। तस्य कोदण्डदण्डोऽपि द्राग द्विखण्डो व्यधीयत ॥४०२॥ अपरेण च दुर्वेधोऽप्यविध्यत स वक्षसि । अहो वणिक्कुमारस्याप्यसमः कोऽपि विक्रमः ॥४०॥ निरस्तः खेचरेन्द्रोऽभून्निष्पत्र इव पिष्पलः। विद्धोरस्कोऽद्रवर्दसृग् द्रवल्लाक्षाद्रवः किल ।। ४०४॥ तादृग्विधोऽपि क्रोधान्धः स दुर्द्धरतया रयात् । विद्यया । बहुरूपिण्या रूपाणि बहुधा व्यधात् ॥ ४०५॥ लक्षसङ्घयानि रूपाणि तथारूपाणि तस्य खे । जगतोऽपीतिरूपाणीवात्याहितकृतेऽभवन् ॥४०६॥ कल्पान्तनिल्पभीष्मांभ्रपटलैरिव तैस्तदा । अयन्तरीक्षं दुर्लक्षं विष्वग् व्याप्ततयाभवत् ॥ ४०७ ॥ व्यापारयन् कुमारश्च स्वनेत्राणि यतो यतः । एक दोर्जालदुर्दर्श तं ददर्श ततस्ततः ॥ ४०८ ।। च्यसेप्मयीत्तथाप्येष नाभैषीदीषदप्यहो!। किं वा कल्पान्तपातेऽपि धीराः स्युः कातराः कचित ॥ ४०९॥ पाहापद्विष्वगायंप लक्ष्यकक्षा विना ततः । विशिष्य व्यवसायो हि विधुरे धीरचेतसाम् ॥ ४१० ॥ दृष्ट्वा कुमारं विकटस्फुटसण्टसिंकटम । गरिटमुदगरकरः सुरस्तं हन्तुमुत्थितः ॥ ४११ ॥ तं । भीमरूपमायान्तं गदापाणिमिवोचितम् । दुःशासनः खेचरेन्द्रवक्षोभ रभसेन सः ॥ ४१२ ॥ धृतधैर्यप्रकर्षश्च तं सुरं माहरत्तराम् । रूपैः सर्वैर्भुजैः सर्वैः सर्वशक्त्या स सर्वतः ॥ ४१३ ।। तस्मिनचिन्त्यशक्तित्वात्कुमारांदभुतभाग्यतः। आसन् वन्ध्या द्विसहारा उपकाराः खले यथा ॥४१४॥ रूपं मुख्यमामुष्य मूर्धि क्रोधोद्धरः सुरः। शैलं वज्रेण वर्जाव मुद्रेण निजनिवान् ॥ ४१५॥ सुपवर्णा सर्वशक्त्या प्रदत्ताद् घाततस्ततः । निर्यातः कातरमाणापहारी कोऽप्यभून्महान् ॥ ४१६ ॥ विद्योन्मदिष्णोत्रैलोक्यजिष्णोर्विष्णोरिवस्यि च । तेन मूर्द्धा दृढो व प्रचन्न यद्यप्यभिद्यत ॥ ४१७ ॥ तदप्यस्य महाविद्या भीतेव बहुरूपिणी । काकनाशं ननाश द्राक् सुरस्याहो ! सहायता ।। ४१८ ॥ प्रकृत्यापि कुमारोऽयं रक्षोवद् भीषणो द्विषाम् । दुनिरास्यः सखा चांस्य सुपर्वाग्नेरिवानिलः ॥ ४१९ ॥ इत्थं निर्धार्य निधैर्यधुर्यवत् खेचराधिपः । पलायते स्म प्रोक्तं च यः प्रयाति स जीवति ॥ ४२० ॥ इष्टां प्रनष्टा स्वां विद्या द्रष्टुं पाटिति पृष्टतः । स सावेगं दधावे च द्विधापि पदिकाग्रणीः ॥ ४२१ ॥ एकापाये परापायः सन्नियोगैकशिष्टयोः । इतीव विधालुग्भाव सोऽपि लुगरूपतां गतः॥४२२॥सह तेनैव नेशुश्व खेचरास्तस्य किङ्कराः। यद्वा प्रदीपे विध्याते तिष्ठन्ति किमु तत्विषः। ॥ ४२३ ।। सुकुमारः कुमारः क ? क कठोरश्च खेचरः। तमजैषीत्तदप्येष यतो धर्मस्ततो जयः॥ ४२४ ॥ दुर्जेयारिजयात्मासोत्कर्षेणानिमिपेण सः। नृदेवः सेवकेनेव सह प्रासादमीसदम् ॥ ४२५॥ कुमारस्येति चरितं चमत्कृतिकरं परम्। व्यालोक्योप्लासिपुलकाध्यासीत्तिल्लकमञ्जरी ॥ ४२६ ॥ त्रैलोक्यैकशिरोरत्नं नृरत्नं कोऽप्ययं युवा । भर्तेहग लभ्यते भाग्यैर्भगिन्याः सअतियेदि ॥ ४२७॥ इत्यौत्सुक्यत्रपाचिन्ताभृतस्तस्याः सकाशतः । मरालिका बालिकावत् कुमारेण समाददे ॥ ४२८ ।। 94 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134