Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
नकपिच्छानि त्वया ग्राह्याणि " । हृष्टन तनापि कियन्त्यपि गलितानि सायं गृहीतानि एवं प्रत्यहं ग्रहणान्नवशती पिच्छानां प्राप्ता, शतमेकं शेषं तिष्ठति । अथ दुष्कर्मप्रेरितेन तेन चिन्तितं - " एतद्ग्रहणायाद्यापि कियच्चिरमत्रारण्ये स्थातव्यं, तद्वरमेकमुष्टयैव सर्वाण्यपि गृह्णामि " इति तद्दिने नृत्यन्मयूरस्य तान्येकमुष्ट्यैव गृहीतुं यावत्मवृत्तः तावत्केकी काकरूपः सन्नुड्डीय गतः । पूर्वगृहीतपिच्छान्यपि नष्टानि । यतः -“दैवमुल्लंघ्य यत्कार्यं क्रियते फलवन्न तत् । सर्वेऽभश्चातकेनात्तं गलरन्ध्रेण गच्छति १ ॥ " ततो धिग् मया मुधैवौत्सुक्यं कृतमिति विषण्ण इतस्ततो भ्रमन् ज्ञानिनं मुनिमेकं दृष्ट्वा नत्वा च स्वमाक् कर्मस्वरूपं पप्रच्छ । तेनाप्युक्तं यथानुभूतं प्राग्भवस्वरूपं वक्त्या । ततस्तद्देवद्रव्योपजीवनप्रायश्चित्तं ययाचे । मुनिनाप्युक्तं समधिकतावद्देवद्रव्यप्रदानतद्द्रव्यरक्षावृद्ध्यादिना तद्दुष्कर्मप्रतीकारः, सर्वाङ्गीणभोगार्द्धसुखलाभश्च स्यात् । ततस्तेन सहस्रगुणदेवद्रव्यप्रदानविधिवस्त्रहारादिनिर्वाहमात्रादधिकं स्वल्पमपि द्रव्यं न संग्राह्यमिति मुनिसमक्षं नियमो जगृहे, विशुद्धश्राद्धधर्मश्च । ततो यद्यद् व्यवहरति तत्र तत्र बहु द्रव्यमर्जयति ददाति च देवस्य । एवं स्वल्पैरेव दिवसैः प्रागुपजीवितसहस्रका कणीस्थाने काकणी लक्षदशकं प्रादायि । ततो देवस्यानृणीभूतः क्रमादर्जितप्रभूततरद्रव्यः स्वपुरे प्राप्तो महेभ्यमुख्यतया राज्ञापि मान्यः । स्वयं कारितेष्वन्येषु च सर्वजैनप्रासादेषु सर्वशक्त्या सर्वाङ्गीणचिन्ताकरणपूर्वकं प्रत्यहं महापूजाप्रभावनादिविधापनसम्यग्देवद्रव्यरक्षणयथायुक्तिदृद्धिप्रापणाद्युद्भूतपुण्येन चिरसमयं सञ्चितेन जिननामकर्म बद्धवान् । अवसरे च दीक्षामाददे । तत्रापि गीतार्थी - भूतः प्रभूतयथार्हधर्मदेशनादिना देवभक्त्यतिशयेन जिनभक्तिरूपं प्रथमं स्थानकमाराध्यार्हन्नामकर्म निकाचितवान् । ततः सर्वासिद्धे देवभूयमनुभूय महाविदेहेऽद्विभूतिं भुक्त्वा सिद्धयति” ॥ इति देवद्रव्ये सागरश्रेष्ठिकथा || अथ ज्ञानसाधारणद्रव्ययोदृष्टान्तः ॥ “ भोगपुरे पुरे चतुर्विंशतिकनककोटिस्वामी धनावहश्रेष्ठी । भार्या धनवती । तयोर्यमलजातौ सुतौ कर्मसारपुण्यसारौ सौभाग्यसारौ । पित्रान्यदा ' कीदृशावेतौ भाविनौ ” १ इति नैमित्तिकः पृष्टः प्राह कर्मसारो जडप्रकृतिरतिनिष्प्रज्ञो विपरीतबुद्धितया बहुपक्रमेऽपि प्राक्तनसर्वद्रव्यनिर्गमननव्यद्रव्योपार्जनाभावादिना बहुकालं भृशं दारिद्र्यदास्यादिदुःखवान् भावी । पुण्यसारोऽपि प्राच्यसर्वद्रव्यस्य नव्योपार्जितद्रव्यस्यापि पुनः पुनर्हान्या तथैव दुःखी भावी, परं वाणिज्यादिकलाकुशलो भविता । द्वयोश्च वार्द्धके धनसौख्यसन्तत्यादिवृद्धिर्भवित्रीति । क्रमादुभावपि विज्ञोपाध्यायस्य पाठनायार्पितौ । पुण्यसारः सुखेन सर्वविद्या अधीतवान् । कर्मसारस्य तु बहूपक्रमेणाप्यक्षरमात्रमपि नायाति किं बहुना वाचनलिखनाद्यपि कर्तुं न शक्नोति, सर्वथा पशुरेवेति पाठकेनापि पाठनं मुक्तं । द्वावपि यौवनस्थौ पितृभ्यां समृद्धतया सुलभे महेभ्यकन्ये परिणायितौ सोत्सवं । ' मा मिथः कलहायिषातां ' इति द्वावपि द्वादश द्वादश कनककोटीर्दत्वा पृथक् कृतौ । पितरौ तु प्रव्रज्य स्वर्गतौ । अथ कर्मसारः स्वजनादिभिर्वार्यमाणोऽपि स्वकुबुद्ध्या तत्तद्वाणिज्यं कुरुते, यत्र यत्र अर्थहानिरेव । एवं स्वल्पैरेव दिनैनार्पिता द्वादश कोटयो निर्गमिताः । पुण्यसारस्य तु द्वादश कोटयः खात्रं दत्त्वा तस्करैर्गृहीताः । उभावपि जातौ दरिद्रौ त्यक्तौ स्वजनादिभिः । भार्ये अपि क्षुधार्दिते गते पितृगृहे । यतः - “ अलिअंपि जणो धणवंतयस्स सयणत्तणं पयासेइ । आसण्णबंधवेणवि, लज्जिज्जइ झीणविहवेण || १ || गुणवंपि निग्गुणच्चि गणिज्जए परिअणेण गयविहवो । दरकत्ताइगुणेहिं अलिएहिं विगिज्जए सधणो ॥ २ ॥” ततो निर्बुद्धिनिर्भाग्याविति लोकैर्दतापमानौ लज्जमानौ तौ गतौ देशान्तरं । स्थित पृथक् पृथक् कापि महेभ्यगृहे । अन्योपायाभावाद्भृत्यवृत्त्या यस्य च गृहे कर्मसारः स्थितः सोऽलीकव्यवहारी कृपणचेति । प्रोक्तवेतनमपि न दत्ते | अमुकदिने दास्यामीति मुहुर्मुहुस्तं वञ्चयते । इति बहुभिर्दिनैराद्येन किमपि धनं नार्जितं । द्विती तु कियदर्जितं परं तत् प्रयत्नगोपितमपि धूर्तेनापहृतं । एवमन्यान्यस्थानेषु भृत्यवृत्या धातुवादखनिवादसिद्धरसायनरोहणाद्रिगमनमंत्रसाधनरुदन्त्याद्यौषधीग्रहणादिना चैकादशवारान्महोपक्रमकरणेऽपि कुबुद्ध्यान्यान्यवैपरीत्यविधानादाद्येन कापि धनं नार्जितं, किन्तु तत्तद्दुःखान्येव सोढानि । अपरेण पुनरर्जितमपि प्रमादादिनैकादशवारान्निर्गमितं । ततोऽत्युद्विग्नौ तौ पोतमारुह्य रत्नद्वीपं गत्वा सप्रत्ययरत्नद्वीपदेव्यग्रे मृत्युमप्यङ्गीकृत्य निविष्टौ । अष्टमे उपवासे ' नास्ति युवयोर्भाग्यं ' इत्युक्तो देव्या | ततः कर्मसार उत्थितः । पुण्यसारस्य त्वेकविंशत्योपवासैर्दत्तं तया चिन्तारत्नं । कर्मसारः पश्चात्तापं कुर्वन् पुण्यसारेणोक्तः - " मा विषीद एतच्चिन्तारत्ने तवापि चिन्तितं सेत्स्यति इति । ' अथ द्वावपि प्रीतौ निवर्त्तमानौ पोतमाख्दौ । रात्रौ च राकाशशाङ्कोदये वृद्धेनोक्तं, “ भ्रातः ! स्फुटीकुरु चिन्तारत्नं विलोक्यते तस्य चन्द्रस्य वाधिकं तेज इति ? " । लघुनापि पोततटस्थेन दुर्दैवप्रेरितेन रत्नं हस्ते नीत्वा, क्षणं रत्ने क्षणं चन्द्रे च दृष्टिं निदधता पातितं रत्नं रत्नाकरान्तर्मनोरथैः सह । ततो द्वावपि समदुःखौ स्वपुरं माप्तौ । ज्ञानिपार्श्वे स्वप्राग्भवममाष्टाम् । ज्ञानी माह – “ चन्द्रपुरे जिनदत्तजिनदासश्रेष्ठिनौ, परमाईती । अन्यदा तत्र श्रावकैर्मीलितं प्रभूतं ज्ञानद्रव्यं साधारणद्रव्यं च तयोः क्रमादर्पितं रक्षायै । तौ सम्यग् रक्षां कुरुतः । अन्येद्युराद्येन स्वपुस्तिकायां किञ्चिद् गाढविलोक्यमानं लेखकपार्श्वाल्लेखितं पार्श्वे चापरद्रव्याभावादिदमपि ज्ञानस्थानमेवेति, विचिन्त्य ज्ञानद्रव्याद् द्वादशद्रम्मा लेखकस्यार्पिताः । द्वितीयेन तु, साधारणद्रव्यं सप्तक्षेत्र योग्यत्वेन श्राद्धानामपि योग्यं, अहमपि श्रावक " इति विमृश्य साधारणद्रव्याद् द्वादश द्रम्मा स्वगृहगाढप्रयोजने पार्श्वेऽन्यद्रव्याभावाद् व्ययिताः ।
,
श्रीश्राद्धविधिप्रकरणम
59

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134