Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 72
________________ सितमपि परसक्तं जानन गृह्णीयात् । कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिन्दितो लाभः स एवं ग्राह्य इत्युक्तमाधपञ्चाशकवृत्तौ । तथा कूटतुलामानन्यूनाधिकवाणिज्यरसमेलवस्तुमेलानुचितमूल्यवृद्ध्यनुचितकलान्तरणहणलश्चापदानग्रहणकूटकरकर्षणकूटघृष्टनाणकाद्यर्पणपरकीयक्रयविक्रयभञ्जनपरकीयग्राहकव्युग्राहनवर्णिकान्तरदर्शनसान्धकारस्थानवस्त्रादिवाणिज्यमपीभेदादिभिः सर्वथा परवञ्चनं वय॑म् । यतः-"विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वश्चयन्ति त्रिदिवापवर्गसुखान्महामोइसखाः स्वमेव ॥१॥" न चैवं निःस्वानां निर्वाहस्यैव दौष्कर्य । निर्वाहो हि वकर्मणैव स्यात् , व्यवहारशुद्धौ तु बहुग्राहकागमनादिना विशिष्य । अत्र दृष्टान्तोऽयम् । “एकत्र नगरे हेलाकः श्रेष्ठी पुत्रचतुष्कादियुतत्रिपञ्चसेरादिमितमानकादिना दानादानादौ त्रिपुष्करपश्चपुष्करादिपुत्रगालिदानसङ्केतादिना च कूटं व्यवहरति । अन्यदा तत्स्वरूपं ज्ञात्वा चतुर्थवध्वा विदुष्या श्रेष्ठी भृशमुपालब्धोऽभ्यधात् , किं क्रियते निर्वाहस्य दौष्कर्य ? । “बुभुक्षितः किं न करोति पापं ?" तयोक्तं,-"तात! मैवं वादीर्यतो व्यवहारशुद्धिरेव सर्वार्थसाधनी"। उक्तमपि-"धम्मथिआणदव्वाथ्याण नारण वट्टमाणाणं । धम्मोदव्वं सव्वं संपज्जइ ननहा कहवि ॥१॥" ततः मैवं क्रियतां षण्मासी यावत्परीक्षार्थ, यथा धनवृख्यादि स्यात् । परीक्षामाप्तौ त्वग्रतोऽपि कार्या । तद्विरा श्रेष्ठ्यपि तथा चक्रे । ततो बहुग्राहकागमनादिना सुखनिर्वाहे पलप्रमाणं सुवर्ण ववृधे । ततो न्यायार्जितं गतमप्यायातीति वधुवचसा तत्सुवर्ण लोहवेष्टितं नामाई कट्टलकं कृत्वा षण्मासीं तेन व्यवहृत्य इदमध्ये क्षिप्तं । मत्स्येन भक्ष्यबुद्ध्या गिलितं । मत्स्यो धीवरेण गृहीतस्तदुदरात्स्फुटीभूतं नानोपलक्ष्य श्रेष्ठिनोऽर्पितं । ततः श्रेष्ठी सकुटुम्बः सजातसत्यप्रत्ययः प्रबुद्धः । सम्यग् व्यवहारशुद्ध्या भृशं समृदो राजमान्यः परमः श्राद्धः सर्वजने प्रसिद्धस्तथाभूघया तमाम्नापि परेषां विघ्नादि टलति । श्रूयते अद्यापि महापोतचालनादौ 'हेला हेला' इत्याधुच्चैाषमाणाः । इति व्यवहारशुदौ निदर्शनं ।। स्वामिमित्रविश्वस्तदेवगुरुवृदबालद्रोहन्यासापहारादीनि तु तदत्यामायाणि महापातकानि सर्वथा विशिष्य वर्जनीयानि । यत:-"कूटसाक्षी दीर्घरोषी, विश्वस्तघ्नः कृतघ्नकः । चत्वारः कमचाण्डालो, पञ्चमो जातिसम्भवः ॥१॥" अत्र विसेमिरासंबन्धो यथा--"विशालायां नन्दो राजा । विजयपालः सुतो। बहुश्रुतनामा मन्त्री। भानुमती राजी । राजा तदासक्तः। सभायामपि भानुमती पार्थे स्थापयति। “वैद्यो'गुरुश्च मन्त्री च' यस्य राज्ञः प्रियंवदाः। शरीरधर्मकोशेभ्यः सिमंस परिहीयते ॥१॥" इत्युक्तेमंत्री मोचे, “देव! राझ्याः पार्थे स्थापनमनुचितं । यतः-"अत्यासन्ना विनाशाय दूरस्थान फलप्रदाः। सेन्या मध्यमभावेन राजा वद्विगुरुस्त्रियः ॥शा" अतो राज्ञीरूपं चित्रस्थं कारय ।" तथा कृतं स्वगुरोः शारदानन्दस्य दर्शितं च । तेन स्वविज्ञताज्ञापनायोक्तं,–“वामोरुपदेशे तिलकोऽस्ति स न कृतः" राजा सविकल्पेन मन्त्रिण उक्तमयं मार्य एव । मन्त्रिणा तु,-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरंभसकृताना कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ।। १॥ सहसा विदधीत नक्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ॥२॥” इति नीतिशास्त्रोक्तं स्मृत्वा स रहः स्वगृहे स्थापितः । अन्यदा राजसुतः पापर्चे शूकरमनुव्रजन् दूरं गतः । सायं सरसि जळं पीत्वा व्याघ्रभिया वृक्षे व्यन्तराधिष्ठितवानरेण स्वोत्सङ्के पूर्व शा. यितः। पश्चाचदुत्सङ्गे कपिः मुप्तः । क्षुधार्चव्याघ्रवचसा तेन मुक्तो व्याघ्रमुखे पतितो, हसिते व्याघ्र मुखानिर्गतो रुदन् व्याघपृष्टः माहः-"निजजातिं परित्यज्य, परजातिषु ये रताः । तानहं रोदिमि व्याघ्र!, कथं ते भाविनो जहाः॥१॥" कुमारो लज्जितस्तेन ग्रहिलीकृतः । सर्वत्र विसेमिरा' इत्येव वदन् अश्वागमनाज्ज्ञात्वा राज्ञा संशोध्य गृहे आनीतः। कथमपि गुणो न तदा शारदानन्दनः स्मृतः । ततो राज्यादानपटहे मन्त्रिणोक्तं, मत्पुत्री किश्चिद्वेत्ति । राजा सपुत्रो मन्त्रिगृहे प्राप्तस्ततो जवनिकान्तरितेन शारदानन्दनेनोक्तं,-"विश्वासप्रतिपन्नानां, वश्चने का विदग्धता । अङ्कमारुह्य सुप्तानां, हन्तुं किनाम पौरुपम् ॥ १॥” इति श्रुत्वाद्याक्षरं मुक्तं-"सेतुं गत्वा समुद्रस्य, गङ्गासागरसङ्गमे । ब्रह्महा मुच्यते पापैर्मित्रद्रोही न मुच्यते ॥ २॥" द्वितीयं मुक्तं । " मित्रद्रोही कृतघ्नश्च, स्तेयी विश्वासघातकः । चत्वारो नरकं यान्ति, यावश्चन्द्रदिवाकरौ ॥ ३॥" तृतीयं मुक्तं । “राजस्त्वं राजपुत्रस्य, कल्याणं यदि वाञ्छसि । देहि दानं 'सुपात्रेषु, गृही दानेन शुद्ध्यति ॥४॥" तुर्य मुक्तं। कुमारः सुस्थो जातो व्याघ्रादिवृत्तान्तमूने । राजा-"ग्रामे वससि हे बाले!, वनस्थं चरितं खलु । कपिव्याघ्रमनुष्याणां, कथं जानासि? पुत्रिके! ॥१॥" स पाह-" देवगुर्वोः प्रसादेन, जिहाग्रे मे सरस्वती । तेनाहं नृप! जानामि, भानुमतीतिलकं यथा ॥१॥" ततो गुरुराजानौ मिलितौ हृष्टौ । इति विश्वस्तवचने दृष्टान्तः ॥ इह पापं द्विधा, गोप्यं स्फुटं च । गोप्यमपि द्विधा, लघु महच्च । लघु कूटतुलामानादि,महद्विश्वासघातादि । स्फुटमपि द्विधा, कुलाचारेण निर्लज्जत्वादिना च । कुलाचारेण गृहिणामोरम्भादि म्लेच्छाना 'हिंसादि च। निर्लज्जत्वादिना तु यतिवेषस्य हिंसादि । तत्र निर्लज्जत्वादिना स्फुटेऽनन्तसंसारित्वाद्यपि प्रवचनोड्डाहादिहेतुत्वात् । कुलाचारेण पुनः स्फुटे स्तोकः कर्मबन्धो गोप्ये तु तीव्रतरोऽसत्यमयत्वात् । असत्यं च मनोवाक्कायस्त्रिविधमपि महत्तमं पातकं, तद्वद्भिरेव गोप्यपापकरणात् । नासत्यत्यागी गोप्यपापे कापि प्रवर्तते । असत्यप्रवृत्तेश्च निःशूकता स्यात् । निःशूकतायां च स्वामिमित्रविश्वस्तद्रोहादीन्यपि महापातकानि कुर्यात्तत एवोक्तं योगशास्त्रान्तर श्लोकेषु-" एकत्रासत्यजं पापं, श्रीश्राद्धविधिप्रकरणम 71

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134