Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
इति । तथा-" भरकेइ जो उविरकेइ जिणदव्वं तु सावओ। पनाहीणो भवे जो अलिप्पए पावकम्मुणा ॥३॥" पन्ना हीणत्ति'-प्रज्ञाहीनत्वमंगोद्धारदानादिना देवद्रव्यविनाशः , यद्वा प्रज्ञाहीनः स्वल्पेन बहुना वार्थेन कार्यसिद्धिमजनानो मंदमतितया यथाकथंचिद् द्रव्यव्ययकारी कूटलेख्यश्च यत्तदोर्नित्यसंबंधात् स लिप्यते । “ आयाणं जो भंजइ, पडिवन्नधणं न देइ देवस्स । नस्संतं समुविरकइ, सो विहु परिभमइ संसारे ॥ ४॥" जिणपवयणवुविकर, पभावगं नाणदंसणगुणाणं । भवंतो जिणदव्वं, अणंतसंसारिओ होइ ॥ ५ ॥” “जिणपवयणत्ति"-सति हि देवद्रव्ये प्रत्यहं चैत्यसमारचनमहापूजासत्कारसंभवः, तत्र च पायो यतिजनसंपातः , तद् व्याख्यानश्रवणादेश्च जिनप्रवचनवृद्धिः, एवं ज्ञानादिगुणानां प्रभावना चेत्यर्थः । “जिणपवयणबुढिकर, पभावगं नाणदंसणगुणाणं । रकतो जिणदव्वं, परित्तसंसारिओ होइ ।।६॥ "परित्तत्ति"-परिमितभवस्थितिः । “जिणपवयणवुद्धिकरं, पभावगं नाणदंसणगुणाणं । वुद्भूतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ।। ७ ।। "वुदूंतोत्ति" वृद्धिरत्र सम्यग्रक्षणापूर्वापूर्वार्थप्रक्षेपादिना अवसेया। " तित्थयत्ति " तीर्थकरत्वलाभो देवद्रव्यदृद्धिकर्तुरहत्पवचनभत्त्यतिशयात्सुप्रसिद्ध इति तद्वत्तौ। पंचदशकर्मादानकुव्यापारवर्ज, सद्व्यवहारादिविधिनैव च तद्बुद्धिः कार्या । यतः-"जिणवरआणारहियं, बद्धारंता वि कवि जिणदव्वं । बुड्डंति भवसमुद्दे, मूढा मोहेण अन्नाणी ॥" केचित्तु श्राद्धव्यतिरिक्तेभ्यः समधिकग्रहणकं गृहीत्वा कलांतरेणापि तद्वदिरुचितैवेत्याहुः । सम्यक्त्ववृत्त्यादौ संकाशकथायां तथोक्तेः । चैत्यद्रव्यभक्षणरक्षणादौ सागरशेष्ठिदृष्टांतः। स चैवम्-साकेतपुरे सागरश्रेष्ठी परमाईतः। तस्मै 'सुश्रावक ' इति कृत्वा शेषश्रावकचैत्यद्रव्यं दत्तं प्रोक्तं च, चैत्यकर्मस्थायकृतां सूत्रधारादीनां त्वया दातव्यमिति । सोऽपि लोभाभिभूतः सूत्रधारादीनां न रोक्यं द्रव्यं दत्ते, किंतु समर्याणि धान्यगुडतलघृतवस्त्रादीनि चैत्यद्रव्येण संगृह्य तेभ्यो दत्ते, लाभं च स्वयं स्थापयति । एवं रूप्यकाशीतिभागरूपाणां काकणीनामेकः सहस्रो लाभेन संगृहीतः । अर्जितं च तेनैवं कुर्वता घोरतरं दुष्कर्म । तच्चानालोच्य मृतो जलमानुषीभूयाध्यंतर्जलचरोपद्रवनिवारकांडगोलिकाग्रहणार्थ जात्यरत्नग्राहकप्रयुक्तवज्रघरट्टपीडनमहाव्यथया मृत्वा तृतीयनरके नारकोऽजनि । यदुक्तं वेदांतेऽपि-" देवद्रव्येण या वृद्धिर्गुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय मृतोऽपि नरकं व्रजेत् ॥१॥ नरकादुध्धृतश्च महामत्स्यः पंचधनुः शतमानो म्लेच्छकृतसागच्छेदादिमहाकदर्थनया मृतश्चतुर्थपृथिव्यां । एवमेकद्व्यादिभवांतरीतो नरकसप्तकेऽपि द्विरुत्पेदे । ततः स एकसहस्रकाकणीप्रमाणदेवद्रव्योपजीवनात्सांतरनिरंतरोत्पत्त्या सहस्रं वारान् श्वा जातः । एवं सहस्रं वारान् गोशूकरः, सहस्रं भवान् मेषः , सहस्रं भवानेडकः , सहस्रं भवान् मृगः, सहस्रं भवान् शशः, सहस्रं भवान् शंबरः, सहस्रं भवान् शृगालः, सहस्रं भवान् माजोरः, सहस्रं भवान् मृषकः, सहस्रं भवान् नकुलः, सहस्रं भवान् गृहकोलः , सहस्रं भवान् गृहगोधा, सहस्रं भवान् सर्पः, सहस्रं भवान् वृश्चिकः, सहस्रं भवान् विष्टासु कृमिः । एवं सहस्रं सहस्रं भवान् पृथिवीजलानलानिलवनस्पतिशंखशुक्तिकाजलौकाकीटिकाकीटपतंगमक्षिकाभ्रमरमत्स्यकच्छपखरमहिषवृषभकरभवेसरतुरगगजादिषु समुत्पत्त्या लक्षसंख्यभवान् भ्रांतः । प्रायः सर्वभवेषु शस्त्रघातादि( ना )महाव्ययाः सहमान एव मृतः। ततः क्षीणबहुदुष्कर्मा वसंतपुरे कोटीश्वरवसुदत्तवसुमत्योः पुत्रो जातः । गर्भस्थे एव प्रनष्टं सर्व द्रव्यं जन्मदिने जनकोऽपि विपन्नः । पंचमे वर्षे मातापि मृता । लोकैर्निष्पुण्यक इति दत्तनामा द्रमकरवृत्या वृद्धि प्राप । अन्यदा दृष्टः स्नेहलेन मातुलेन नीतश्च स्वगृहे, रात्रौ च मुषितं मातुलगृहं चौरैः । एवं यस्य वेश्मन्येकमपि दिनं वसति, तत्र चौरधाट्याग्रिगृहधनिकविपच्याद्युपद्रवः स्यात् । ततः 'कपोतपोतोऽयं ''ज्वलंती गडरिका वा' 'मृर्तिमानुत्पातो वा' इत्यादिलोकनिन्दयोद्विग्नमना गतो देशान्तरं । प्राप्तश्च ताम्रलिप्ती पुरीं । स्थितश्च विनयंधर महेभ्यगृहे भृत्यदृच्या । ज्वलितं च तद्दिने एव तद्गृहं । निष्कासितश्चालर्कशुन इव तेन स्वगृहात् ततः किंकृत्यमूढः प्राक्कृतं स्वकर्म निंदति स्म । यतः-"कम्म कुणंति सवसा, तस्सुदयंमि अ परवसा हुंति । रुकं दुरुहइ सवसो, निवडेइ परव्यसो तत्तो ॥१॥" ततः 'स्थानांतरितानि भाग्यानि ' इति विमृश्य गतः समुद्रतीरे । तद्दिन एव चटितश्च प्रवहणं । भृत्यभावेन धनावहसांयात्रिकेण साकं प्राप्तः क्षेमात्परद्वीपं । दध्यौ चैवं, " अहो उद्घटितं मम भाग्यं यन्मय्यारूढेऽपि न भग्नं यानपात्रं, यद्वा विस्मृतमिदं दुर्दैवस्य कृत्यं, संप्रति मा वलनावसरे स्मृतिविषयं यासीत् । तचिंतानुसारिणैव देवेन वलमानस्य तस्य प्रचंडदण्डमहतभाण्डमिव शतखण्डीकतः पोतः। दैवान्निःपुण्यकः फलके लग्नः । कथंचित् अब्धितीरग्रामं प्राप्तः । तद्ग्रामठक्कुरमवलगति स्म । अन्यदा धाट्या निःपातितष्ठक्कुरः। निष्पुण्यकश्च ठक्कुरसुतबुद्ध्या बाध्ध्वानीतः पल्लयां। तद्दिवस एव चान्यपल्लीपतिना विनाशिता सा पल्ली। ततस्तैरपि 'निर्भाग्य' इति निष्काशितः। यतः-"खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके, वाञ्छन् स्थानमनातपं विधिवशाद् बिल्वस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशद्धं शिरः , पायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः ॥१॥" एवमेकोनसहस्रान्यान्यस्थानेषु तस्करजलानलस्वचक्रपरचक्रमरकाद्यनकोपद्रवसंभवानिष्काशनादिना महादुःखं वहन्महाटव्यां सप्रत्ययसेलकयक्षमासादं प्राप्त एकाग्रतया तमाराधयामास । स्वदुःखनिवेदनपूर्व एकविंशत्योपवासैश्च तुष्टो यक्षः पाह,-" भद्र ! संध्यायां मम पुरः सुवर्णचंद्रकसहस्राङ्कितो महान् मयूरो नृत्यं करिष्यति, प्रतिदिनं पतितानि तत्क
58
श्रीश्राद्धविधिप्रकरणम्

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134