Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
अनंतकालमेकाक्षास्तिष्ठत्यविरतेः खलु ॥३॥ तिरिया कसंकुसारा, निवायबंधमारणसयाई। नेव इहं पावंता, परत्य जइ मिअमिआ इंता ॥ ४॥" अविरतिकर्मोदये हि देवानामिव 'गुरूपदेशादियोगेऽपि विरतिप्रतिपत्तिः कापि न स्यादत एव श्रेणिकनृपः क्षायिकसम्यग्दृष्टिरपि श्रीवीरवचःश्रवणादियोगेऽपि काकादिमांसमात्रनियममपि न स्वीचके। अविरतिश्च विरत्या जीयते, विरतिश्चाभ्याससाध्या, अभ्यासादेव हि सर्वक्रियासु कौशलमुन्मीलति । अनुभवसिदं चेदं लिखनपठनसंख्यानगाननृत्यादिसर्वकलाविज्ञानेषु सर्वेषां । उक्तमपि-" अभ्यासेन क्रियाः सर्वा'अभ्यासात्सकलाः कलाः । अभ्यासाद ध्यानमानादि फिर्मभ्यासस्य दुष्करम् ॥ १ ॥" निरंतरं विरतिपरिणामाभ्यासे च 'प्रत्यापि तदनुवृत्तिः स्यात् । यदुक्तं-"जं अन्भसेइ जीवो, मुणं च'दोसं च एत्थ जम्मंमि । तं पावइ परलोए, तेण य अन्भासजोएण ॥१॥" तस्माद्यथेच्छमपि द्वादशव्रतपतिबद्धनियमा विवेकिना स्वीकार्याः । अत्र च श्राद्धश्राविकायोग्यमिच्छापरिमाणं सविस्तरं व्याख्येयं, यथा तन्नियमानां सम्यक परिज्ञानपूर्व प्रतिपत्तौ भंगादिदोषो न स्यात नियमाश्च विमर्शपूर्वकं तथैव ग्राह्या यथा निर्वोढुं शक्यते । सर्वेष्वपि नियमेषु च सहसानाभोगाद्यांकारचतुष्कं चिंत्यं, तेनानाभोगादिना नियमितबहुवस्तुग्रहणेऽपि नियमभंगो 'न' स्यात्, किंत्वैतिचारमात्रं । ज्ञात्वा त्वंशमात्रग्रहणेपि नियमभंग एव । जातु दुष्कर्मपारवश्येन ज्ञात्वापि भंगे तो नियमः पाल्य एव धर्माधिना । प्रतिपन्नपंचमीचतुर्दश्यादितपोदिनेऽपि तिथ्यंतरभ्रांत्यादिना सचित्तजलपानतांबूलभक्षणकियभोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखांतःस्थमपि न गिलति, किंतु तत्यक्त्वा पासुकवारिणा 'मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति, तद्दिने च 'यदि भ्रांत्या पूर्ण भुक्तस्तदा द्वितीयदिने दंडनिमित्तं तत्तपः कार्य, समाप्तौ च तत्तपो वर्दमानं कार्य, एवं चौतिचार एव स्यानतु भंगः। तपोदिनज्ञानार्दनु सिक्थादिमात्रगिलने तुभंग एव नरकादिहेतुः,दिनसंशये कल्यांकरप्यसंशये वा कल्पग्रहणेऽपि भंगादिदोषः, गाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाधसमाधौ च यदि तत्तपः कर्तुं न शक्रोति, तदापि चतुर्थाकारोच्चारान्न भंगः । एवं सर्वेषु नियमेष्वपि भाव्यं । उक्तंच-" वयभंगे गुरुदोसो, थोवस्सवि पालणा गुणकरी अ । गुरू लाघवं च ने, धम्ममि अओ अ'आगारा ॥१॥" नियमश्च महाफलः, " यदि ह्यासन्नकुंभकृतखलतिं दृष्टां विना न भोक्ष्ये" इति कौतुकमात्रगृहीतोऽपि नियमः श्रेष्ठिकमलस्य निधाना प्राप्त्या सफलीभूतः तदा 'पुण्यार्थ नियमफलं कियदुच्यते ? तथाह-" योऽपि 'सोऽपि' ध्रुवं ग्राह्यो नियमः पुण्यकांक्षिणा । सोऽल्पोऽप्य॑नल्पलाभाय कमलश्रेष्ठिनो यथा ॥१॥" परिग्रहपरिमाणनियमदृढतायां रत्नसारकुमारकांग्रे वक्ष्यते । नियमाश्चैवं ग्राह्याः, तत्र पूर्व तावन्मिथ्यात्वं त्याज्यं, ततो नित्यं यथाशक्ति त्रिह्निः सकृदा जिनपूजा, जिनदर्शनं, संपूर्णदेववंदनं, चैत्यवंदना वा कार्येति नियम्यं । एवं सामय्यां गुरोहल्लघु वा वंदनं, सामर्यभावे नामग्रहणेन वंदनं, नित्यं वर्षाचतुर्मास्यां पंचपादौ वाऽष्टप्रकारा पूजा, यावज्जीवं नव्यान्नपकानफलादेर्देवस्य ढोकनं विना अग्रहणं, नित्यं नैवेद्यपुगादेौकन, नित्यं चतुर्मासी त्रयवार्षिकदीपोत्सवादौ वा अष्टमंगलीढौकनं, नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यस्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्व भोजनं, प्रतिमासं प्रतिवर्ष वा महाध्वजप्रदानादिविस्तरेण स्नात्रमहमहापूजाः रात्रिजागरणादि, नित्यं वर्षासु कियद्वारं वा चैत्यशालाप्रमार्जनसमारचनादि, प्रतिवर्ष प्रतिमासं वा चैत्येडगरूक्षणदीपार्थपूणी कियद्दीपतैलचंदनखंडादेः, शालायां मुस्कवस्त्रजपमालामाछनकचरवलकाद्यर्थ कियद्वस्त्रसूत्रकंबलोर्णादेश्वमोचनं, वर्षासु श्रादादीनामुपवेशनार्थ कियत्पट्टिकादेः कारणं, प्रतिवर्ष सूत्रादिनापि संघपूजाकियत्साधर्मिकवात्सल्यादि च, प्रत्यहं कियान् कायोत्सर्गः, स्वाध्यायत्रिशत्यादिगुणनं, नित्यं दिवा नमस्कारसहितादे रात्रौ दिवसचरमस्य च प्रत्याख्यानस्य कारणं, द्विः पतिक्रमणादि चादौ नियमनीयानि । ततो यथाशक्ति द्वादशव्रतस्वीकारः, तत्र च सप्तमव्रते सचिव॑चित्तमिश्रव्यक्तिः सम्यग् । ज्ञेया । यथा प्रायः सर्वाणि धान्यानि धान्यकजीरकाजमकविरिहालीसोआराईखसखसमभृतिसर्वकणाः, सर्वाणि फलपत्राणि, लवणखारीक्षारकरक्तसैंधव चलादिरकृत्रिमः क्षारो मृत् खटीवर्णिकादिः आर्द्रदंतकाष्ठादि च व्यवहारतः सच्चित्तानि । जलेन लेदिताचणकगोधमादिकणाश्चणकमुदगादिदालयश्च क्लिना अपि कचिनखिकासंभवान्मिश्राः, तथा पूर्व लवणादिपदानं 'बापादिप्रदानं वालुकाक्षेपं वा विना सेकिताचणका गोधूमयुगंधर्यादिधानाः, क्षारादिप्रदानं विना लोलिततिला, ओलकांबिकाप्रथुकसेकितफलिफापर्पटिकादयो मरिचराजिकावधारादिमात्रसंस्कृतचिर्भटिकादीनि सञ्चित्तांत/जानि'सर्वपक्कफलानि च मिश्राणि । यदिने तिलकुट्टिः कृता तद्दिने मिश्रा। मध्येऽन्नरोट्टिकादिक्षेपे तु मुहूर्तादनु पासुका, दक्षिणमालवादी प्रभूततरगुडक्षेपेण तदिनेऽपि तस्याः मासुकत्वव्यवहारः । वृक्षात्तत्कालगृहीतं गुंदलाक्षाछल्यादि, तात्कालिको नालिकेरनिंबक निंबानेश्वार्दानां रसः, तात्कालिकं तिलादितैलं, तत्कालभग्नं निर्बीजीकृतं नालिकेरभंगाटकपूगीफलादि, निर्बीजीकृतानि पकफलानि, गाढमर्दितं निष्कणं जीरकाजमकादि च मुहूर्त यावन्मिश्राणि, मुहू दुवं तु मासुकानीति व्यवहृतिः । अन्यदपि प्रबलाग्नियोगं विना यत्मासुकीकृतं स्यात्तन्मुहूर्तावधि मिश्रं तदनु प्रासुकं व्यवहियते, यथा मासुकनीरादि तथा कच्चफलानि कञ्चधान्यानि गाढं मर्दितमपि लवणादि च प्रायोऽग्न्यादिप्रबलशस्त्रं विना न प्रामुकानि । यदुक्तं श्री पंचमांगेऽयमर्थ एकोनविशे शते तृतीयादेशके-" वज्रमय्यां शिलायां स्वल्पपृथ्वीकायस्य वज्रलोष्ठकेनैकविंशतिवारान् पेषणे । संत्येके केचन जीवा'ये
34
श्रीश्राद्धविधिप्रकरणम्

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134