Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
धात् । न च कश्चिजगौ सम्यग्निदानं तदभाषणे ॥ १९९ ॥ शशी सलक्ष्मा तीक्ष्णोऽर्फः 'खं शून्यमनिलश्चलः । दृषदेवमणिदैवतरुर्दारु धरा रजः ॥२०॥ क्षारोऽब्धियः कृष्णास्योऽनिर्दाही निम्नगं पयः । मेरुः कठोरः'कर्पूरोऽस्थिरः कस्तूरिका शितिः ॥२०१॥ निर्धनः सज्जनः श्रीमान्मूर्खः क्षमापश्च लोलुपः । ईदृक् पुत्रोऽपि मूकश्च रत्नदृषी हहा विधिः ॥२०२॥ शुशोचेत्युच्चकैस्तत्र लोकोऽस्तोकोऽपि सर्वतः । विरूपं महतां कस्य न हि खाद कुरुते हृदि ॥२०३ ॥ चतुर्भिः कलापकम् ॥ अर्थागाजनतानेत्रकौमुदी कौमुदीमहः। यस्मिन्नुज्जागरः पुंसां स्यात्क्रीडारससागरः॥२०४॥ तदा पुनस्तदुधानं प्राप्तः पुत्रपियायुतः । मापस्तमानं प्रेक्ष्याख्यत् खिन्नात्मा प्रेयसी प्रति ॥ २०५॥ देवि! दूरतरं त्याज्यस्तरुरेप विषद्रुवत् । अत्र स्वपुत्ररत्नस्य जज्ञे वैशसमीदृशम् ॥ २०६॥ इत्युक्त्वा' पुरतो यावधाति तावत्ममोदकृत् । तले चूतस्य तस्यैव दिव्योऽभूद दुंदुभिध्वनिः ॥२०७॥ पृष्टश्च कश्चिदाचष्ट श्रीदत्तस्याधुना मुनेः । केवलज्ञानमुत्पेदे तन्महं तन्वतेऽमराः ॥२०८ ॥ सुतस्वरूपं पृच्छामीत्युत्सुकः सपरिच्छदः । तत्र गत्वा मुनि नत्वा ससूनुः स निविष्टवान् ॥ २०९॥ तेनोदेशि सुधादेश्या देशना क्लेशनाशिनी। पार्थिवोऽब्रवीनाथास्थात्कुतोऽस्यांगजस्य गीः ॥२१०॥ऋषिमुख्यो बभाषे भोबालोऽयं भाषयिष्यते। हषितः क्षितिपोऽप्याख्यत् प्रेक्ष्यते किं हि तर्हिनः॥२१॥ मुनिनांवादि वंदस्व विधिना शुकराजानः। तमचंदत सोऽप्युच्चैःसूत्रोच्चार पुरस्सरम् ॥२१२॥ अहो महीयान् महिमा महर्यदयं शिशुः। द्रागेव स्फुटवाग्मंत्रतंत्राद्यपि विनाऽजनि ॥२१३॥ इति चित्तचमत्काराद्वैते जाते सभासदाम् । किमेतदिति भूपेनांनुयुक्तः प्रोक्तवान् प्रभुः ॥२१४ ।। सकर्णाकर्णयात्रार्थे कारणं प्राग्भवोद्भवम् । आसीन्मलयदेशांतः श्रीभरिलपुरं पुरा ॥ २१५॥ तत्र चित्रचरित्रश्च जितारिरिति भूपतिः । अलंकाराधितांश्चक्रेर्थिनः मत्यर्थिनश्चयः॥ २१६ ॥ चातुर्योदायेशोयोदिगुणानां स्थानमन्यदा। आस्थानस्थं तमुशिमेवं वेत्री व्यजिज्ञपट ॥ २१७॥ राझो विजयदेवस्य देव ! देवदिक्षया । दूतः पूतहदाकूतस्तिष्ठति द्वारि वारितः ॥ २१८ ।। प्रवेशयेति राज्ञोक्ते तेन सोऽत: प्रवेशितः। नृपं प्रणम्य सत्योक्तिः कृत्यवित्कृत्यमित्यवक् ॥ २१९ ॥ देव! देवपुरं नाम साक्षादेवपुरं पुरम् । राजा विजयदेवश्चास्मित्रिविक्रमविक्रमः ॥ २२० ॥ पट्टातिष्ठिता तस्य मिया प्रीतिमती सती । सासनीतिरिवोपायान् प्रास्त चतुरः सुतान् ॥ २२१॥ तेषाम्रपरि तस्याश्च पुत्री पात्री श्रियोऽजनि । हंसी हंसीव विशदोभयपक्षा सुलक्षणा ॥ २२ ॥ स्वल्पमुचैः पियमिति पुत्रेभ्योऽपि प्रियाय सा । वर्दमाना' क्रमाचावदजनिष्टाष्टवत्सरा ।। २२३ ।। तावत्तया द्वितीयापि पासूयत सुतोत्तमा । सारसी सारसीवोचैलावण्ये सरसीजले ॥२१४। रोदस्योः सारमादाय धात्रा ते निर्मिते ध्वम् । तयोरेव मिथो यस्मादुपमानोपमेयता ॥ १५॥ द्वयोरपि तयोः कापि प्रीतिः स्फीतिमगात्तथा । यथा ताभ्यां वपुर्भेदोऽप्युटेगकदमन्यत ॥ २६॥ प्राप्तापि यौवनं क्रीडावनं । मदनदंतिनः । हंसी। विवाहं नामस्त तद्वियोगभियातुरा || २२७ ॥ क्रमाच सारसी सापि कन्याभूधौवनोन्मुखी । साभ्यां प्रीत्या प्रतिज्ञातमेक एव वरोऽस्तु नौ ॥२८॥ ततस्तयोः स्वयं पित्रा' स्वयंवरणमंडपः । अमंब्यत मनोऽभीष्टवरमाप्त्यै। यथाविधि ॥ २२९ ॥ तत्रासीन्मंचरचना वचनातिगवैभवा । तृणधान्यसमूहास्तु क्ष्माभृदन्यूहा इवावभुः॥ २३०॥ अंगवंगकलिंगांधा' जालंधरमरुस्थले । लाटभोटमहाभोटमेदपाटविराटकाः
अर्थिनः याचकान भूषणामितान् प्रत्यर्थिनः शत्रन भई परिपूर्णतया कारामितान् कारागृहपतितान् चके । २ लावण्यसा सीबले इत्यपि पाठः। ॥ २३१ ॥ गौडचौरमहाराष्ट्रसराप्दाकुरुगुर्जराः । आभीरकीरकाश्मीरगौलपंचालमालवाः ॥ २३२ ॥ हुणचीणमहाचीणकच्छकर्णाटकुंफणाः । सपादलक्षनेपालकन्यकुन्जककुंतलाः २३३ ॥ मगधा निषधाः सिंधुर्विदर्भद्रविडोदकाः । इत्याधनेकदेशानामाहयंत नृपा इस ॥ २३४ ॥ चतुर्भिः कलापकम् ।। स्वामिन् ! मलयदेशेशः तवावानाय नः प्रभुः। मां प्रेषीत्तेन तत्रैत्यालंकुरुष्व स्वयंवरम् ।। २३५ ।। तेनेत्युदिते तत्र' यातुं स्थातुं च तन्मनः। तत्माप्त्याशासंशयाभ्यां दोलांदोलितां दधौ ।। २३६ ॥ पंचभिः सह गंतव्यमिति ध्यायंश्च' सोऽचलत् । पौत्साहितश्च विहगैाक् ' तत्रागात्परेऽपि च ।। २३७ ।। उच्चैरावर्जिताः सर्वे भूपा भूपेन तत्र ते । मंचानुचानलंचक्रुर्विमानानिव नाकिनः ॥२३८ ॥ अथ स्नातानुलिप्ते ते शुचिवनविभूषणे । तस्मिन्सुखासनासीने ब्राझीलक्ष्म्याविवेयतुः ॥ २३९ ॥ अहंपूर्विफयार्पि' मानायकैः क्रायकैरिव । तयोवत्तीप्सयोमूल्यमतुल्यं स्वस्वहङ्मनः ॥ २४० ॥ ततस्ते विवशाः सर्वेऽप्युर्वीशा विविधोत्माभिः। चेष्टाभिः पर्यचेष्टंत स्पृष्टयंत इवांशयम् ॥ २४१ ॥ एष निःशेषराजाना' राजा 'राजगृहेश्वरः । एष देषिसुखध्वंसिकौशलः' कौशलेश्वरः ॥२४२ ।। अयं । स्वयंवरश्रीभिः स्फूर्जन् । गुर्जरराजभूः। अयं जयंतजैत्रर्दिबंधुरः सिंधुराजसूः ।। २४३ ।। असौ स शौयौदार्यश्रीरंगभूरंगभूपतिः । असौ सुसौम्यः काम्यर्दिकतालिंगः कलिंगराद् ॥ २४४ ।। रूपेणायं द्विनिंगगर्वकदंगपार्थिवः । निस्सीममालयोऽप्येष मालवेश इति श्रतः ॥२४५॥ संष नेपालभूपालः प्रजापालः कपालयः । सोऽयं तत्तद्गणोद्गीर्णगौरवः कौरवमभुः ॥२४६॥ भूषानिषेधी निषधाधीशोऽयं वषियोषिताम् । यशःसौरभ्यमलयाचलोऽयं मल
१ कयकारकरिव । २ पत्तिप्राप्तीचम्या । । निस्सीमलक्ष्म्याख्यः ।
श्रीश्राद्धविधिप्रकरणम
15

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134