Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
विध्वस्तसमस्तरागद्वेषादिदोषमल ! जय प्रास्तापारसंसारपारावारनिमज्जज्जंतुसमुत्तारमहायानपात्रप्रवर ! श्रीसिद्धवधूवर ! अजर ! अमर ! अचर ! अदर ! अपर ! अपरंपर ! परमेश्वर ! परमयोगीश्वर ! श्रीयुगादिजिनेश्वर ! नमस्ते । स्तुत्वेति । हारिहारीतगधरीत्या' मुदा' जिनम् । राजानं प्रति । नियाजं, व्याजहार ऋषीश्वरः ॥ ५४॥ राजन्। मृगध्वजऋतु-ध्वजराजकुलध्वज । वत्सांगच्छाश्रमे ' दिष्ट्याऽस्माकमाकस्मिकोतिथिः ॥ ५५ ॥ स्वोचितामांतिथेयीं ते 'प्रथयामो यथा ' मुदा । भाग्यैरेवोपलभ्यतेऽतिथयो हि भवादृशाः ॥ ५६ ॥ कोऽयं महर्षिः कं हेतुं मामाहयति साग्रहम् । मामकीनाभिधानादि जानाति ' कथमेष वा ॥ ५७ ॥ इत्युच्चैर्विस्मितमतिः क्षमापतिर्यतिना समम् । जगामांश्रममार्या हि मार्थनाभंगभीरवः ।।५८॥ महखिनस्तस्य पुनः प्रतिपत्तिं तपस्विनः । महातपस्विनस्तेनु'सर्वा शश्वद्यशस्विनः ॥ ५९॥ भूपतिं प्रति स' प्रीततमः प्राह महाऋषिः । अत्रांगतेन' भवता कृतास्माकं कृतार्थता ॥६०॥ अस्मत्कुलालंकरण कार्मणं विश्वचक्षुषाम् । अस्माकं जीवितस्यापि जीवितं जंगमं किल ॥६१।। कन्या कमलमालेयं पुष्पमालेव दैवती । अहों तवैव तत्पाणौ कुरुष्व स्वीकुरुष्व नः ।। ६२ ।। युग्मम् ॥ इष्टं वैद्योपदिष्टं च 'तन्मन्वानोऽपि भूपतिः। प्रापद्यतांग्रहेणैव सतां हि स्थितिरीहशी ॥६३!। ततश्च स 'मुदा'मादात्तस्मै विस्मरयौवनाम् । कन्यां स्वामचिरात्को वा चिरयेदिष्टकर्मणि ॥ ६४ ॥ वल्कलाकल्पयाप्युच्चैरनया पिप्रिये'नृपः । युक्ता वा राजहंसस्य प्रीतिः कमलमालया ॥६५॥ सानंदतापसी,दस्फूर्जवलमंगलम् । स्वयं विधाप्यमानार्हनिःशेषविधिबंधुरम् ॥६६॥ नृपेण परिणाय्यैनां स तस्मै करमोचने । पुत्रार्थ प्रददे मंत्र देयं वान्यन्मुनेः किमु ॥ ६७ ॥ युग्मम् ॥ जाते विवाहे स्माहेम'महर्षि स महीशिता । राज्यं शून्यं विमुच्याहमिहायातोऽस्मि 'सत्वरम् ॥ ६८॥ सज्जिकां कारयध्वं तच्चलितुं तापसोऽप्यवक् । दिक्पटानामिास्माकं भवेत्का नाम सज्जिका ॥६९॥ किंतु दिव्यं भवद्वेषं शौचवेषं च'वाल्कलम् । दर्श दर्श दधात्येषा खेदमेदस्वलात्मताम् ।। ७० ।। किंच सेचनमेवैषा वृक्षाणां कृतपूर्विणी । रीति तपस्विनामेव 'सर्वदा दृष्टपूर्विणी ॥७१ ।। अस्या आजन्ममुग्धायाः स्निग्धायास्त्वयि निर्भरम् । माभूत्कापि सपत्नीभ्यः पराभूतिस्ततः कचित् ।। ७२॥ नृपोऽप्याह परा भूतिरेवैतस्या विधास्यते । सर्वांगीणापि यौष्माकी न चोक्तिः खंडयिष्यते ॥७३॥ छेकच्छेकोक्तितः प्रीति 'तापसाय विधाय सः । तापसीप्रभृतिप्रीत्यै स्फुटोक्त्येत्युक्तवान् पुनः॥७४॥ सर्वान् स्वस्थानमाप्तोऽस्याः पूरयिष्ये'मनोरथान् । कौतस्कृतमिदानीं तु वेषमात्राद्यपीह भोः ।।७५।। ऋषिर्विषीदंस्त्ववदत्पुच्या वेषोपि धिङ् मया । निष्किंचनेन नो कर्तुं शक्यते 'नित्यनिःस्ववत् ॥७६ ॥ तस्यैवं वदतः पेतुनेत्रतोऽश्रुणि दुःखतः । यावता 'तावता प्रत्यासन्नतः सहकारतः ॥७७॥ अदृष्यदृष्याभरणश्रेणयस्तत्र तत्क्षणात् । स्पर्धयेवापतन् वारिधारा धाराधरादिव ॥ ७८॥ युग्मम् ॥ सर्वेऽपि तद्वीक्ष्य 'चमचेक्रीयांचक्रिरेतराम् । निश्चिक्यिरे च ' कन्याया' भाग्यवत्तामनुत्तराम् ॥७९॥ पतेत्फलादि फलदाज्जलादि जलदादिव । न तु दृष्याद्यहो' पुण्यप्रागल्भ्ये किमुवाद्भुतम् ॥८॥ यतः-" पुण्यैः संभाव्यते पुंसामसंभाव्यमपि क्षितौ । तेरुर्मेरुसमाः शैलाः किं'न रामस्य वारिधौ ॥८॥" ततः प्रहर्षिणा क्षोणिपालः सह महर्षिणा । दत्तचित्तप्रसादं तं प्रासादं सप्रियोऽप्यंगात् ॥८२॥ पुनः क्षिप्रं प्रभो ! भूयाद्दर्शनं तव पावनम् । स्थिरीभूयाश्च मच्चित्ते समुत्कीर्ण इवाश्मनि ।।८३॥ उक्त्वेत्यांद्यजिनं तत्र स प्रणंनम्य सप्रियः । प्राप्तो बहिर्जिनगृहान्मार्ग प
र उत्कृष्टा समृद्धः । २ निर्मलाः ।। मच्छ तापसम् ।।८४ तापसोऽप्याह 'नैवाहं वेबि मार्गाद्यथो नृपः। पाह'तर्हि कथं नाम मन्नामादि विवेदिथ ॥८५॥ ऋषिरेष 'बभाषेऽथ शृणु भो भूपतेऽन्यदा । मुदैनां चारुतारुण्यां कन्यां वीक्ष्येत्यचिंतयम् ।।८६।। अनुरूपो वरः कोऽस्या 'भविता तावता शुकः । सहकारस्थितोऽवोचचिंता मा भोः कृथा वृथा ॥८७॥ ऋतुध्वजमहाराजांगजं नाम्ना मृगध्वजम् । राजानमानयन्त्रस्य॑द्यैवास्मिन् देववेश्मनि ॥८८॥ तमेव विश्वप्रवरं वरं कन्येयमर्हति । कल्पवल्लीव कल्पद्रु'मार्थेऽस्मिन् संशयं कृथाः॥८९॥ इत्युक्त्वा'स'गतस्त्वं चांगतस्तत इमां मुदा । तुभ्यं देयमिव पादांनान्यजानामि किंचन ॥९०॥ इत्युदित्वा मुनौ मौनं नृपे चिंतां च चकृषि । समयज्ञ इवोपेत्य स एवाशु शुको जगौ ॥९१।। आगच्छागच्छ भो भूप! पंथानं दर्शयामि ते । अहं विहंगमात्रोऽपि नोपेक्षे ' स्वाश्रितं जनम् ॥ ९२ ॥ क्षुद्रोऽपि किल'नोपेक्ष्यः वाश्रितः किं पुनर्महान् । शशांकः । स्वांकतः कापि मुंचत्यपि ' शशं शिशुम् ॥ ९३ ॥ व्यस्मार्षीमिकस्मात्त्वमार्यधुर्योऽर्यनार्यवत् । विस्मेरेयमहं ' तु ' त्वां' क्षुद्रोऽप्यक्षुद्रवत्कथम् ॥ ९४ ॥ ततश्चमत्कृतः ' पृथ्वीपतियतिपतिं । द्रुतम् । आपृच्छयारुह्य वाजींद्रं । समियः। शुकमन्वगात् ॥ ९५ ॥ एवंमागच्छतस्तस्योत्सुकस्य शुकपृष्टतः। क्षितिमतिष्ठितपुरं किंचिदग्गोचरेऽचरत् ॥ ९६ ॥ तावत्कार । स्थिरस्तस्थावारुखैकं 'महीरुहम् । भूकांतः 'शंकितस्वांतः सोपरोधं तमभ्यधात् ।।९७। पुरः पुरस्य प्रासादवप्राधं यद्यपीक्ष्यते । तथापि हि पुरं दूरे किमस्थाः 'कीर रुष्टवत् ॥९८।। हुंकृत्य विहगः माह महदत्रास्ति ' कारणम् । मेक्षावतां प्रवृत्तिहि नैव निर्हेतुका कचित् ।। ९९।। किंतदित्युदिते 'तेन 'संभ्रांतेन'महीभुजा । व्याजहार कीरराजः शृणु राजन् ! यथा वे ॥ १०० ॥ चंद्रपुर्या अधीशस्य'चंद्रशेखरभूभुजः । स्वसा चंद्रवतीत्यस्ति वल्लभा वल्लभा तव ॥ १०१॥ सांतर्दुष्टा मुखे मिष्टा गोमुखव्याघ्ररूपिणी।
श्रीश्राद्धविधिप्रकरणम

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 134