Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 55
________________ देधा धर्मश्चिरार्जितोऽप्याद्यः । प्रमितानियतफलोऽन्यस्त्वप्यल्पोऽनंतनियतफलः ॥ ९३ ॥ उक्तं विना न वृद्धिर्विते दत्तेऽपि बहुतरेऽपि चिराव । प्रोक्ते तु प्रत्यहमप्येवं धर्मेऽपि नियमोक्ता॥ ९४ ।। श्रेणिकवत्तत्वविदोऽप्यविरत्युदये हि न नियमप्राप्तिः। तत्माप्तावपि विधुरे दृढता वासनतरसिद्धेः॥ ९५ ।। पाक् प्रेम्णा बहुमानानियमोपगमोऽस्य मासिकस्यापि । ह्यस्तु तदा जिनदर्शननतिकृतितः स्तन्यमापपिवान् ।। ९६ ॥ अद्यः पुनस्तदयोगात् सीदनपि न दृढहत पपौ स्तन्यम् ।। अस्माद्विरा त्वभिग्रहपूर्तेः पातुं प्रवकृतेऽपि ॥ ९७॥ यत्पाग् जन्मनि विहितं विधित्सितं वा शुभाशुभं सर्वम् । तज्जन्यतेऽन्यजन्मान जन्मयुजामग्रजन्मेव ।। ९८ ॥ अप्यव्यक्तमाक्तनजिनभक्तमहिमतोऽस्य महिमवतः । सर्वांगीणसमृद्धिश्चित्रसवित्री किल भवित्री ।। ९९ ।। कन्याजीवाश्च दिवश्युताः पृथक् प्रौढनृपकुलायाताः । राश्योऽस्यैव भविन्यः सहसुकृतकृतां हि सह योगः ॥१०० ॥ इति यतिगिरा तथा शिशुतनियमसमीक्षया क्षितीशाद्याः । सनियमधर्मधुरायां दधिरे धौरेयतां नितराम ॥ १०१ ॥ पुत्रप्रतिबोधकृते विहराम्यहमित्युीर्य गुरुवीर्यः । यतिरुत्पपात वैताढ्यं प्रति विनतातनूज इव ॥ १०२ ।। जातिस्मरनिजगदाश्चर्यसृजातिस्मरः स्वरूपा । मुनिवनियमं निर्वाहयनिमं स क्रमावधे॥१०३॥ पावर्द्धत प्रतिदिनप्रवर्द्धमानप्रधानतनुयष्टेः। स्पर्धादिव लोकोत्तररूपादिगुणोत्करस्तस्य ॥१०४ ॥धर्मस्त्वस्य गुणानपि गुणीकरोति स्म सुप्रसारितया । न्ययमयददनं यदयं विना जिनार्चा त्रिवर्षोऽपि ॥१०५॥लिखितपठितादिनकलाद्वासप्ततिमप्यसौ सलीलमपि । लिखितपठिता इव द्रतम कृत कृती सुकृतमहिमाहो!॥१०६॥ पुण्यानुबंधिपुण्यात्पुण्याप्तिः परभवे भवेत्सुलभा।इति सम्यग् गृहिधर्म स्वीचक्रेस स्वयं सगरोः - विनतातनजः' गरुडः। ॥१०७॥ विधिना विनान पूर्ग फलमिति विधिनैव देवपूजादि । सतास्त्रिसंध्यमाधात् सामाचारी ह्यसौ गृहिगाम् ॥१०८॥सततममध्यमभावोऽप्यवाप्तवान् मध्यमं क्रमेण वयः। पुंड्रेक्षुदंडवदसावहार्यमाधुर्यधुर्योऽभूत् ॥ १०९ ॥ अपरेऽति नरेशायोपददे वैदेशिकेन केनचन । उच्चैःश्रवा इवाश्वः सुलक्षणो धर्मदत्तकृते ॥ ११० ॥ तं विष्टपेऽप्यसदृशं स्वमिव व्यालोक्य सदृशयोगचिकीः। सोऽध्यारुरोह सहसा पितुर्निदेशादहो! मोहः ॥ १११ ।। आरोहणसमसमयं सातिशयं खेऽपि दर्शयन्तु रयम् । हय उत्पपात सुरपतिहयमिव संगतुमत्युत्कः ॥ ११२॥ दृश्यः क्षणात्वदृश्यः खे यान् योजनसहस्रपरतस्तम् । योजनसहस्रविकटाटव्यां मुक्त्वागमत् कापि ॥ ११३ ।। फणिफुत्कृतिकपिबत्कृतिकिरिधर्वतिचित्रकायचीत्कृतिभिः । चमरीभांकृतिगवयत्राट्कृतिदुष्फेरुफेत्कृतिभिः ॥ ११४ ।। न भयं भयंकरत्वेऽप्यभयप्रकृतिळभावयत्सोऽस्याम् । विपदि हि सत्वोद्रेकः संपदि च सतामनुत्सेकः ।। ११५ ।। युग्मम् ॥ शून्येऽप्यशून्यहृदयोऽरण्येऽप्युपवन इव स्वभवनस्य । अस्थात्सुस्थात्मासौ स्वैरविहारी करींद्र इव ।। ११६ ।। दूनः परं जिना योगवियोगात्फलाद्यपि स नादत् । तदहनि पापक्षपणं ससर्ज किल निर्जलं क्षपणम् ॥ ११७ ॥ शीतलजलविविधफलमाचुर्येऽप्यस्य सीदतोऽप्युचैः । क्षपणत्रयमित्यासीत्स्वनियमधर्मकदृढताहो ! ॥ ११८ ॥ म्लानतमेऽप्यथ लूकाविलुप्ततममाल्यवत्तदीयेंगे । चित्ते त्वम्लानतमे प्रादुर्भूयावदत् त्रिदशः ॥ ११९ ।। अयि ! साधु साधु साधो! दुःसाधमसाधयः सुधैर्यमदः । निजजीवितानपेक्षा नियमापेक्षा तवैवैवम् ।। १२० ॥ युक्तं व्यक्तं चक्रे शक्रः श्लाघां तवासहिष्णुस्ताम् । पर्येक्षे ते कक्षा कक्षांतरिहापहृत्यैवम् ॥ १२१ ॥ तव दृढ़तयास्मि तुष्टः शिष्टमते ! स्वेष्टमेकवाक्येन । याच प्रतिश। स्व विचार्येषोऽप्यूचे कुर्याः स्मृतः कार्यम् ।। १२२ ॥ अद्भुतभाग्यनिधिर्धवमयमेवं यद् वर्णाकृतोऽस्म्यमुना । इति चिंतयस्तदुदितं प्रतिपद्य सपद्यागात् त्रिदशः । १२३ ॥ स्वपदमाप्त्याचं मे कयमय भवितेति चिंतयेद्यावत् । तावन्नृपसूः प्रेक्षामास स्वावासमध्ये स्वम् ॥ १२४ ।। अप्यस्मृतेन संमति नियतममयेन तेन निजशक्त्या । मुक्तोऽस्मिन्नास्मि पदे तुष्टस्य सुरस्य कियदेतत् ॥ १२५ ॥ राजतनूजः स्वजनान् निजसंगमतो निजं परिजनं च । पीतान् सांप्रतमतनोद्राजानमपिपिणाञ्चित्रम ॥ १२६ ॥ तस्मिन् दिनेऽप्यनुत्सुकतयैव विधिवद विधाय जिनपूजाम् । कृतवान्नृपसूः पारणमहो! विधिर्धर्मनिष्णानाम् ॥ १७ ॥ अथच-पूर्वा दिदिक्षु देशाधिपनृपतीनामतीव बहुमान्याः । बहुपुत्रोपरि पुत्र्योऽभवन् क्रमात्ताः कनीजीवाः ॥ १२८ ।। धर्मरतिर्धर्ममतिधर्मश्रीर्धर्मिणी च सत्याहाः । पञव चतूरूपा तास्तारुण्योद्गमेऽथ बभुः॥१२९॥ ताः कुतुकाज्जिनसदनेऽन्यादिने सदनेकसुकृतमहसदने । प्राप्तास्त्वहत्पतिमा प्रेक्ष्यास्माषुर्निजां जातिम् ॥ १३० ॥ अथ ता विना जिनाची भुक्तिं नित्यं नियम्य जिनभक्तिम् । कुर्वाणाः प्राक्परिचितवरार्थमभिजगृहुरेकहृदः ॥ १३१ ॥ तद् ज्ञात्वा प्रागदेशाधिपः स्वपुत्र्याः स्वयंवरं प्रवरम् । कारयति स्माकारयति स्माखिलराजकं तस्मिन् ।। १३२ ॥ राजधरस्य सपुत्रस्याहानेऽपि हि न धर्मदत्तोऽगात् । ईदृशि कः संदिग्धे मेधावी धावतीति धिया ॥ १३३ ।। अथच–निजजनकसद्गुरुगिरा व्रतार्थी विचित्रगतिखगराद् । एकसुताभृद्राज्याहे प्रज्ञप्तीमपरिपृच्छत् ।। १३४ ॥ सा प्राह देहि राज्यं सुतां च योग्याय धर्मदत्ताय । मुदित स ततस्तस्याहानार्थमवाप राजपुरम् ॥ १३५ ।। सम्यक् स्वयंवरस्य व्यतिकरमवबुध्य धर्मदत्तमुखात् । तं नीत्वागात्कुतुकात्स्वयंवरे स सुरवददृश्यः ।। १३६ ॥ तत्र च चित्रकरे तो स्वयंवरे राजकन्यया मुक्तान् । श्याममुखान् मुषितानिव निखिल 54 श्रीश्राद्धविधिप्रकरणम्

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134