Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
दासीपार्श्वाद् दापितकुल्माषैश्चक्रे । तदा देवदुन्दुभिध्वनिं जीर्णश्रेठी यदि नाष्य तदा केवलमध्वार्जिण्य दिति ज्ञानिनोक्तं । " इति निमन्त्रणे ज्ञातम् । आहारादिदाने श्री शालिभद्रादिरौषधदाने च श्रीवीरौषधदात्री बद्धजिनकर्मा रेवती ज्ञातं । ग्लानस्य प्रतिचरणे च महत्फलम् । यदागमः - " गोअमा जे गिलाणं पडिअरइ से मं दंसणेणं पडिवज्जइ । जे मं दंसणेणं पडिवज्जइ से गिलाणं पडिअरइ । आणाकरणसारं खु अरिहंताणं दंसणं " इत्यादि । अत्र कृमिकुष्ठोपद्रुतयतिप्रतिक्रियाकृत् श्रीऋषभजीवजीवानन्दवैद्यो ज्ञातम् । तथा ददाति सुस्थाने योग्यमुपाश्रयादि । यतः - " वसही सयणासणभत्तपाणभे सज्जवत्थपत्ताई । जइवि न पज्जत्तधणो, थोवा वि हु थोवयं देइ ॥ १ ॥ जो देइ' उवस्सयं जइवराण तवनिअमजोगजुत्ताणं । तेणं दिनावत्थन्नपाणसयणासणविगप्पा ॥ २ ॥ जयन्तीवङ्कचूलाद्याः कोशा चांश्रयदानतः । अवन्तिसुकुमालश्च तीर्णाः संसारसागरम् ।। ३ ।। " तथा निवारयति सर्वशक्त्या ' जिनमव चनप्रत्यनीकान् साधुनिन्दादिपरान् । यतः - " तम्हा सइ सामध्ये, आणाभट्ठमि नो खलु वेहा । अणुकूले हिअरेहि अ, अणुसट्ठी होइ दायव्वा ॥ १ ॥ " यथाऽभयकुमारेण द्रमकमुनिनिन्दाकृज्जनो बुद्ध्या निवारितः । एवं साधुवत्साध्वीनामपि सुखकृत्यनिर्वाहमश्नादि सर्व कार्य । एतच्चाधिकं यत्साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनं । स्वगृहप्रत्यासत्तौ समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानं । स्वस्त्रीभिचतासां परिचर्याविधापनं । स्वपुत्रिकाणां च तत्सन्निधौ धारणं | व्रतोद्यतानां स्वपुत्र्यादीनां च प्रत्यर्पणं । तथा विस्मृतकरणीयानां तत्स्मारणमन्यायप्रवृत्तिसम्भवे तन्निवारणं । सकृदन्यायप्रवृत्तौ शिक्षणं । पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनमुचितेन वस्तुनोपचरणं चेति । तथा गुरुपार्श्वे करोति किञ्चिदपूर्व पठनं । यतः - " अञ्जनस्य क्षयं दृष्ट्वा ' वल्मीकस्य विच) वर्द्धनम् । अवन्ध्यं दिवसं कुर्यादानाध्ययनकर्मसु ॥ १ ॥ सन्तोषस्त्रिषु कर्त्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्त्तव्यो दाने चाध्ययने तपे ॥ २ ॥ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् । अजरामरवत्माज्ञो विद्यामर्थश्च चिन्तयेत् || ३ || जह जह सुहमवगाहइ, अइसयरसपसरसंजु अमपुव्वं । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए ॥ ४ ॥ जो इह पढइ अपुव्वं, स लहइ तिथ्थंकरत्तमन्नभवे । जो पुण पाढेइ परं, सम्मसुअं तस्स किं भणिमो ॥ ५ ॥ " स्वल्पतरमज्ञतायामपि पाठोद्यमे माषतुषादीनामिव तद्भवेऽपि केवलज्ञानलाभादिफलं विभावनीयमिति षष्ठगाभार्थः ।
1
ततो यदि राजादिस्तदा धवलगृहं । यदा त्वमात्यादिस्तदा करणं । अथ वणिगादिस्तदानीमापणादिकं । एवं स्वस्वोचितस्थानं गत्वा धर्माविरोधेनार्थचिन्तां कुर्यात् । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमाधमयोश्च माध्यस्थ्येन न्यायदर्शनाद् बोद्धव्यः । अत्र ज्ञातं यथा – “ कल्याणकटकपुरे यशोवर्मा नृपो न्यायैकनिष्ठस्तेन निजधवलगृहद्वारि न्यायघण्टा बन्धिता । एकदा राज्याधिष्ठात्री देवी नृपतिन्यायव्रतपरीक्षार्थं धेनुरूपं तत्कालजातवत्सरूपं च कृत्वा राजमार्गे स्थिता । अत्रान्तरे नृपपुत्रो वेगवत्तरवाहिनीमारूढस्तत्र प्राप्तो, वेगवशाच्च वाहिनी वत्सचरणयोरुपरि गता । वत्सो मृतः धेनुः कोकूयतेऽश्रूणि च मोमुच्यते । केनाप्युक्तं, " राजद्वारे गत्वा न्यायं याचस्व । " सा गता । तया शृङ्गाग्रेण घण्टा चालिता । नृपस्तदानीं भोक्तुमुपविष्टः शद्धं श्रुत्वा बभाषे – “ रे ! कोऽयं घण्टां चालयति ? ” सेवकैर्विलो - क्योक्तं, – “ देव ! कोऽपि न, भुज्यतां । " नृपः माह, “ निर्णयं विना कथं भुञ्जे १ " । नृपः स्थालं त्यक्त्वा प्रतोल्यामागत्यान्यं कमप्यदृष्ट्वा धेनुं प्राह, -" किं केनापि पराभूतासि १ दर्शय मम तं । साग्रे भूता । नृपः पृष्ठे लग्नस्तया वत्सो दर्शितः । नृपेणोक्तं, – “ येनेयं वाहिनी वाहिता स पुरो भवतु । ” कोऽपि किमपि न वक्ति । राज्ञोक्तं, – “ तदा भोक्ष्ये यदा स स्फुटीभविष्यति । ” राज्ञो लङ्घने जाते कुमारेण प्रातरुक्तं, – “ देवाहमपराधी मम दण्डं कुरु यथा । " राज्ञा स्मृतिज्ञाः पृष्टाः, कोऽस्य दण्डः १ तैरुक्तं, " देव ! राज्याई एक एव पुत्रस्तस्य को दण्डः १ नृपः प्राहः – “ कस्य राज्यं ? कस्य वा सुतो ? मम न्याय एव गरीयान् । " यतः - " दुष्टस्य दण्डः स्वजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् || १ ||" सोमनीतावप्युक्तं, - " अपराधानुरूपो हि दण्डः पुत्रेऽपि प्रणेतव्यः । " इति । ततो यदस्य योग्यं स्यात्तत्कथयतेत्युक्तेऽपि तेष्ववदत्सु, “ योऽन्यस्य यद्यथा कुरुते तत्तस्य तथा विधीयते । ” “ कृते प्रतिकृतं कुर्यादित्यादिवचनात् " । इति स्वयं नृपेण वाहिनीमानाय्य पुत्रस्योक्तं - " इह स्वपिहि " । सोऽपि विनीतः सुप्तः । राज्ञोक्तं, “अस्योपरि वेगेन वाहिनीं वाहयत । " कोऽपि न वाहयति । ततो नृपः सर्वैर्निवार्यमाणोऽपि यावत् स्वयमुपविश्य तां पुत्रचरणयोरुपरि वाहयति, तावद्देवी प्रकटीभूय पुष्पदृष्टि चक्रे । न गौर्न वत्सः । देव्योक्तं, " राजन् ! मया तव परीक्षा कृता, प्राणप्रियैकपुत्रादपि तव नान्यः प्रियतम इति राज्यं चिरं निर्विघ्नं कुरु । " इनि न्याये दृष्टान्तः । नियोगिनां तु धर्माविराधो राजार्थप्रजार्थयोः साधनेनाभय कुमारचाणक्यादिवत् । यतः - “ नरपतिहितकर्त्ता द्वेष्यतामेति लोके जनपदहितकर्ता मुच्यते पार्थिवेन । इति महति विरोधे वर्त्तमानेऽसमाने नृपतिजनपदानां दुर्लभः कार्यक र्त्ता ॥ १ ॥ " वणिगादीनां च धर्माविरोधो व्यवहारशुद्धयादिना । तथैव चाह - "ववहारमुद्धिदेसाइविरुद्ध चायउचिअचरणेहिं | तो कुणइ अत्थचितं, निव्वाहिंतो निअं धम्मं ॥ ७ ॥ " ततः प्रागुक्तकृत्यानन्तरं व्यवहारस्य धनार्जनाद्युपायस्य शुद्धि
श्रीश्राद्धविधिप्रकरणम
65

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134