Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 83
________________ कुणइ'नावनं । रुंभइ अवन्नवार्य, थुइवायं पयडइ सयावि ॥३०॥" अवर्णवादमधार्मिकैर्विधीयमानं यथाशक्ति नियमेन रुणद्धि नोपेक्षते । “ न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभागिति श्रुतेः। " 'पयडइ त्ति' समक्षमसमक्ष वाऽगण्यपुण्यानुबन्धित्वात्तस्य । “ न हवइ छिद्दप्पेही, सुहिव्व 'अणुअत्तए सुहदुहेसु । पडिणीअ पञ्चवायं, सव्वपयत्तेण वारेइ ॥ ३१॥"मुहिव्व त्ति' सुहदिवानुवर्तते, तत्सुखेन सखी तहःखेन दुःखी चेत्यर्थः । ननु कथमप्रमत्तेषु निर्ममत्वेष च गुरुषु छिद्रान्वेषित्वं सुहृदादयो भावाः श्रावकाणां संभवन्ति ? सत्यमीदृशा एव ते परं भिनभिन्नप्रकृतीनामुपासकानामुन्मीलन्त्येव तेष्वपि स्वस्वमकृतिसमुचिता भावाः । यत्स्थानाङ्गसूत्रं-"गोयमा! घरविहा सावया पनत्ता, मायापिअरसमाणे भायसमाणे मित्तसमाणे सवक्किसमाणे" इत्याधुक्तं प्राक् । पडिणीय त्ति' प्रत्यनीकोपप्लवञ्च सर्वशक्त्या वारयति । उक्तं हि"साहूणचेइआण य, पडिणीअं तह अवनवायं च । जिणपवयणस्स अहि, सव्वत्थामेण वारइ ॥१॥" अत्र सगरचक्रिपौत्रभगीरथस्य जीवः, प्रान्तग्रामवासिषष्टिसहस्रमनुष्योत्रार्थिसङ्कोपद्रवे तनिवारकः कुम्भकारो ज्ञातं । " खलिअंमि चोइओ गुरुजगेण मन्नइ तहत्ति सव्वं पि । चोएइ गुरुजणं पिहु, पमायखलिएसु'एगंते ॥३२॥" 'चोएइ त्ति' भगवन् ! किमिदमुचितं सच्चरित्रवतां तत्रभवतां भवतां ? इत्यादिना । " कुणइ विणओवयारं, भत्तीए समयसमुचिअं सव्वं । गाढं गुणाणुरायं, निम्मायं वहइ हिअयमि ॥ ३३ ॥" 'सव्वं ति' संमुखागमनभ्युित्थानासनदानसंवाहनादि शुद्धवस्त्रपात्राहारादिप्रदानादिकं च । " भावोवयारमसि, देसंतरिओ वि'सुमरइ सयावि । अ एवमाइगुरुजणसमुचिअमुचिअं मुणेअव्वं ॥ ३४॥" भावोपकारः सम्यक्त्वदानादि । " जत्थसयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति । ससमाणवत्तिणो ते, नायरयानाम वच्चंति ।।३५॥" स्वसमानवृत्तयो पणिग्वृत्तिजीविनः । “समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहेहिं । वसणसवतुल्लगमागमहिं निच्चं पि होअव्वं ॥३६॥"तुल्ल त्ति' तदव्यसनागमे स्वयमपि व्यसनावलीटैरिव तदत्सवे च सोत्सवैरिव भाव्यं । अन्यथान्योन्योदासीना नृपनियोगिमृगयुनामामिषमेव पौरलोकाः। “कायव्वं कज्जे विहु, न इक्कमिकेण दंसणं पहुणो । कज्जे(ज्जो)न मंतभेओ, पेसुन्न परिहरेअव्वं ।। ३७॥"महत्यपि कार्ये 'पृथक् पृथग महत्त्वेच्छया राज्ञो दर्शनेऽन्यवैमनस्यादयो दोषास्तस्मात्समुदितैरेव तुल्यत्वेऽपि यवनवत्कस्यचिन्मुख्यत्वमदानादिना मिथः सापेक्षन' पुनपादेशात्परीक्षार्थमन्त्र्य॑र्पितैकशय्यांशाय्यवलगकपञ्चशतीवर्दवदैर्नृपदर्शनविज्ञप्त्यादि विधेयं । यतः-" बहूनामप्यसाराणां, समुदायो जयावहः । तृणैरीवेष्टिता रज्जुर्यया नागोऽपि बध्यते ॥१॥" मन्त्रभेदे च कार्यविपत्तिनृपप्रकोपादयो दोषास्तस्मात्संवृतमन्त्रैर्भाव्यं । राजादीनां पुरः परस्परदूषणोद्घोषणे च 'लब्धमध्यत्वान्नृपापमानदण्डादयो दोषाः । एकवृत्तीनामसंहतत्वस्य विनाशहेतुत्वात् । पठ्यतेऽपि-" एकोदराः पृथग्ग्रीवा, अन्यान्यफलकाङ्गिणः । असंहता विनश्यन्ति, भारुण्डा इव पक्षिणः ॥ १॥ परस्परस्य मर्माणि, ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति, वल्मीकोदरसर्पवत् ॥२॥""समुवढिए विवाए, तुलासमाणेहिं चेव ठायव्वं । कारणसाविकेहिं, विहुणेअन्वो 'न'नयमग्गो ॥ ३८॥" 'कारण त्ति' स्वजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षैनयमार्गो न विधनयितव्यः । " बलिएहिं 'दुबलजणो, सुंककराईहिं' नाभिभविभब्वो । थेवावराहदोसे वि दंडभूमिन नेअव्वो ॥ ३९ ॥" शुल्ककराधिक्यनृपदण्डादिभिरपि इन्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति । संहतिविनाकृताश्च बलवत्तरा अपि वनसंइतिविरहिताः सिंहा इवांभिभूयन्ते एव । तस्मात्परस्परसंहतिरेव श्रेयस्करी । उक्तं च "संहतिः श्रेयसी पुंसां, स्वपक्षे तु विशेपतः। तुषरपि परिभ्रष्टा, न प्ररोहन्ति तंदुलाः॥१॥ गिरयो येन भिद्यन्ते, धरा येन विदायते । संहतेः पश्य माहात्म्य, तृणैस्तद्वारि वार्यते ॥२॥"" कारणिएहिं पि सम, कायव्वो ता न अत्यसंबंधो । किं पुण पहुणा सद्धि, अप्पहिअं अहिलसंतेहिं ॥ ४०॥" कारणिकैः श्रीव्ययराजदेवधर्मोपपदकरणादिनियुक्तैस्तदुपजीविभिरन्यैरपि सह द्रव्यव्यवहारः कदापि न कार्यः । ते हि धनदानावसर एव प्रायः प्रसन्नमुखरागाः प्रकटितकृत्रिमालापसंभाषणासनतांबूलमदानादिबाह्याडम्बराः सौमनस्यमाविर्भावयन्तः, प्रस्तावेच स्वदत्तमपि वित्तं याचितास्तिलतुषमात्रमपि स्वोपकारं प्रकटमुघट्टयन्तस्तदैव दाक्षिण्यमुन्मुवन्ति । स च स्वभाव एव तेषां । यतः-" द्विजन्मनः क्षमा मातुर्दुषः प्रेम पणस्त्रियाः । नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् ॥ १॥" पूर्वोपात्तवित्तनि मनाशाय च' कृत्रिमानपि दोषानुत्पाद्य प्रत्युतैतान् नृपतिग्राह्यान् विदधति । यतः-“उत्पाद्य कृत्रिमान् दोषान् , धनी सर्वत्र बाध्यते । निर्धनः कृतदोषोऽपि, सर्वत्र निरुपद्रवः॥१॥". किंपुण त्ति' यतः सामान्योऽपि क्षत्रियो वित्तार्थमभियुक्तः खड्गं दर्शयति किं पुनः प्रकृत्यमर्षणाः क्षोणिभुनः? । एवं समानवृत्तिनागरवदैसमानवृत्तिनागरेप्वपि यथाईमौचित्यं चिन्त्यं । " एयं परुप्परं 'नायराण पाएण समुचिआचरणं । परतिथिआण समुचिअमह किंपि भणामि सेणं ॥४१॥ एएसिं तिथिआणं, भिकट्टमुवटिआण निअगेहे । कायव्वमुचिअकिच्चं, विसेसओ रायमहिआणं ॥ ४२॥" उचितकृत्यं यथाईदानादि । “ जइवि न मणमि भत्ती, न परकवाओ 'अ तग्गयगुणेसु । उचिअं गिहागरसुत्ति तह वि धम्मो गिहीणइमो ॥ ४३ ॥"पक्षपातोऽनुमोदना । 'धम्मो त्ति' आचारः। “गेहागयाणमुचि, वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो, सव्वसि सम्मओ धम्मो ॥४४॥" पुरुषमपेक्ष्य मधुरालपासननिमन्त्रणकार्यानुयोगतन्निर्माणादिक 82 श्रीश्राद्धविधिप्रकरणम्

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134