Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
कार्य 'कारयितुं परैः । दृष्टान्तान्योक्तिभिर्वाच्यं तदने 'पूर्वमेव तत् ॥ ८ ॥ यदि चान्येन केनापि । ततुल्यं जल्पितं' भवेत् । प्रमाणमेव तस्कार्य स्वप्रयोजनसिद्धये ॥ ९॥ यस्य 'कार्यमशक्यं स्यात्तस्य मागेव कथ्यते । नैहिरेयाहिरी कार्यो वचोभिर्वितथैः परः ॥ १० ॥ वैभाष्यं नैव कस्यापि । वक्तव्यं द्विषतां तु चेत् । उच्यते तदपि प्राज्ञैरन्योक्तिच्छम्मभङ्गिभिः ॥ ११ ॥ मातृपित्रातुराचार्यातिथिभ्रातृतपोधनैः । वृद्धबालाबलावैापत्यदायादकिङ्करैः ॥ १२ ॥ स्वसृसंश्रितसंबन्धिवयस्यैः सामन्वहम् । वागविग्रहमकुर्वाणो विजयेत् जगत्त्रयीम् ॥१३ ।। युग्मम् ॥ न पश्येत्सर्वदादित्यं ग्रहणं चार्कसोमयोः। नेक्षेताभो महाकूपे'सन्ध्यायां गगनं तथा ॥ १४ ।। मैथुनं मृगया नग्न स्त्रियं प्रकटयौवनाम् । पशुक्रीडां च कन्याया योनिं चालोकयेमहि ॥ १५॥ न तैले न जले नाख्ने न मृत्रे रुधिरे न च । वीक्षेत वदनं विद्वानित्थमीयुस्तुटिर्यतः ।। १६ ।। प्रतिपन्नस्य न त्यागः शोकश्च गतवस्तुनः। निद्राच्छेदश्च कस्यापिन विधेयः कदाचन ॥ १७ ॥ अकुर्वन् बहुभिर्वैरं दद्याद्वहुमते मतम् ।गतास्वादानि कृत्यानि कुर्याच्च बहुभिः समम् ॥ १८ ॥ शुभक्रियासु सर्वासु मुख्यैर्भाव्यं मनीषिभिः । नराणां कपटेनापि निस्पृहत्वं 'फलप्रदम् ॥ १९ ॥ द्रोहमयोजने नैव भाव्यमत्युत्सुफैर्नरैः । कदाचिदपि कर्त्तव्यः 'सुपात्रेषु न 'मत्सरः ॥ २० ॥ स्वजातिकष्टं नोपेक्ष्यं तदैक्यं कार्यमांदरात् । मानिना मानहानिः स्यात्तदोषादयशोऽपि च ॥ २१ ॥ स्वजातिं ये परित्यज्य परजातिषु ये रताः। ते नरा निधनं यान्ति यथा राजा कुकर्दमः ॥ २२॥ नश्यन्ति 'ज्ञातयः मायः' कलहादितरेतरम् । मिलिता एव वर्द्धन्ते कमलिन्य इवांभसि ॥२३॥ दारिद्योपद्रुतं मित्रं नरं साधर्मिकं सुधीः । ज्येष्ठं ज्ञातिगुणैर्जामिर्मनपत्यांच'यापयेत् ॥२४॥ सारथ्यायान्यवस्तूनां विक्रयाय क्रयाय च । कुलानुचितकार्याय नोद्यच्छेद् गौरवप्रियः ॥२५॥" महाभारतादावप्येवमुक्तं
"ब्राह्म मुहूर्ते बुध्येत धर्मार्थों चानुचिन्तयेत् । नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥१॥ उदङ्मुखो दिवा रात्रावुत्सर्ग दक्षिणामुखः । आवाधासु यथाकामं कुर्यान्मूत्रपुरीषयोः ॥२॥ देवार्चनादिकार्याणि' तथा गुभिवादनम् । कुींत च'समाचम्य तद्वदेवभुजिक्रियाम् ।। ३॥ अर्थस्योपार्जने यत्नः कार्य एव विपश्चिता । तत्संसिद्धौ हि सिद्ध्यन्ति धर्मकामादयो नृप ! ॥४॥ पादेन कार्य पारव्यं पादं कुर्याच्च सञ्चये । अर्दैन चात्मभरणं । नित्यनैमितिकान्वितम् ॥ ५॥ केशप्रसाधनादर्शदर्शनं दन्तधावनम् । पूर्वाह्न एव कार्याणि देवतानां च पूजनम् ॥ ६ ॥ दूरादावसथान्मूत्रं दूरात्पादावसेचनम् । उच्छिटोत्सर्जनं दरात्सदा कार्य हितैषिणा ।। ७॥ लोष्ठमर्दी तृणच्छेदी' नखखादी च यो नरः। नित्योच्छिष्टः शकुन्मत्रैर्नेहायुर्विन्दते महत् ॥ ८॥ न चासीतासने भिन्ने भिन्नकाश्यं च वर्जयेत् । न मुक्तकेशर्मोक्तव्यमनग्नः स्नानमाचरेत ॥९॥ स्वप्तव्यं नैव नग्नेन न चोच्छिष्टश्च संवसेत् । उच्छिष्टो न स्पृशेच्छीर्ष सर्वमाणास्तदाश्रयाः ॥ १० ॥ केशग्रहान् प्रहारांश्च शिरस्येतानि वर्जयेत् । नान्यत्र पुत्रशिष्याभ्यां शिक्षार्थ ताडनं स्मृतम् ॥ ११॥ न' पाणिभ्यांमुभाभ्यां तु कण्डूयेज्जातु वै शिरः । न चाभीक्षणं शिरःस्नानं ' कार्य निष्कारणं नरैः ॥ १२ ॥ न प्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् । न भुक्तोत्तरकालं च । न गंभीरजलाशये ॥ १३ ॥ दुष्कृतं न गुरोद्र्यात् क्रुद्ध चैतं प्रसादयेत् । परिवादं न शृणुयादन्येषामपि जल्पताम् ॥ १४ ॥ गुरोः पतिव्रतानां च तथा धर्मतपस्विनाम् । परिवादं न कुर्वीत परिहासेऽपि भारत !॥१५॥ किञ्चित्परस्वं न' हरेनाल्पमप्यप्रियं वदेत् । प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥ १६॥ पतितैश्च का नेच्छेदासनं च विवर्जयेत् । पतिर्तान्नं न रोचेत पतितैर्न' सहाचरेत् ॥ १७॥ विद्विष्टपतितोन्मत्तबहुवैरिशठैः सह । बुधो मैत्रीं न कुर्वीत 'नैकः पन्थानमाश्रयेत् ॥१८॥ न दुष्टयानमारोहेव कूलच्छायां न संश्रयेत् । नविगाहेजलौधस्य वेगमंग्रेसरो नरः ॥१९॥ प्रदीप्तं वेश्म न विशेनारोहच्छिखरं गिरेः। नासंवृतमुखो जम्भेत् 'श्वासकासौ च वर्जयेत् ।।२०।। नोर्व तिर्यग् न दूरं वा निरीक्षेत्पर्यटन् बुधः। युगमात्रं महीपृष्टं नरो गच्छेद्विलोकयन् ।। २१॥ नोच्चैईसेत्सशब्दं च'न'मुञ्चत्पवनं बुधः । नखान ' रदनैश्छिन्द्यात्पादं पादेन नाक्रमेत् ॥ २२ ॥ न श्मश्रु' भक्षयेच्चो(चौ,ष्टान्न' गृह्णीयाद्विचक्षणः । नोच्छिष्टो भक्षयत्किञ्चिन्नाद्वारेण' विशेत्कचित् ॥ २३ ।। ग्रीष्मे वर्षासु च च्छत्री दण्डी रात्रौ वनेषु च । उपानद्वस्त्रमाल्यं च'धृतर्मन्यैर्न धारयेत् ॥ २४ ॥ न चेा स्त्रीषु कर्त्तव्या दारा रक्ष्याः प्रयत्नतः । अनायुष्या' भवेदीया तस्मात्ता परिवर्जयेत् ॥ २५॥ पानीयस्य क्रिया नक्तं तथैव दधिसक्तवः । वर्जनीया 'महाराज! निशीथे भोजनक्रिया ॥२६॥ नोर्ध्वजानुश्चिरं तिष्ठेन्न' भवेदुत्कटासनः । तन्नोपविशेत्माज्ञः पादेनाकृष्य चासनम् ।। २७ । नातिकल्यं नातिसायं न च मध्यंदिने तथा । नाज्ञातैः सह गन्तव्यं नैको न बहुभिः सह ।।२८॥ अवलोक्यो न चादर्शो मलिनो बुद्धिमन्नरैः । न च रात्रौ महाराज! दीर्घमायुरंभीप्सता ॥२९॥ वर्जयित्वा ' तु कमलं तथा कुवलयं नृप। रक्तमाल्यं न धार्य स्यात् शुक्लं धार्य तु पण्डितैः ॥ ३० ।। अन्यदेव भवेद्वांसः शयनीये नरोत्तम!। अन्यदर्चासु देवानामन्यदार्य सभामु च ॥ ३१ ।। वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् । शय्यादीपाधमस्तंभच्छायां ' दूरेण संत्यजेत् ॥ ३२ ॥न नासिकां विकुष्णीयात्स्वयं नोपानहौ हरेत् । शिरसा न हरेद्भारं न प्रधावत्पवर्षति ॥ ३३ ॥ भिन्नभाण्डे करिः प्रायः खवायां वाहनक्षयः । नाश्नन्ति पितरस्तत्र । यत्र ' कुक्कुरकुर्कुटौ ॥३४ ।। सुवासिनीं गुर्विणीच वृद्धं बालातुरौ तथा । भोजयेत्संस्कृर्ताअन प्रथमं चरमं गृही।॥ ३५॥ अघं स केवलं मुझे 'बद्धे गोवहनादिके। यो भुङ्के पाण्डवश्रेष्ठ ! प्रेक्षतामप्रदाय
84
श्रीश्राद्धविधिप्रकरणम

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134