Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 19
________________ 1 ॥ ३४५ ॥ अंते हि ' या मतिः सैव गतिरित्युच्यते बुधैः । मुधैवेयं श्रुतिर्माभूदितीव स शुकोऽभवत् ॥ ३४६ ॥ युक्तं शुकादिकक्रीडानर्थहेतुः स्मृता जिनैः । तस्य सम्यग्दृशोऽप्यासीद्यत्तया तादृशी गतिः ॥ ३४७ ॥ तादृग् धर्म्येकयोगेऽपि यदभूत्तस्य सा गतिः । तज्जीवगतिवैचित्र्यं स्याद्वादो वा स्फुटीकृतः ॥ ३४८ ॥ दुर्गतिद्वयदुष्कर्म प्राणी तीर्थेऽत्र यात्रया । क्षिपेत्परं पुनर्बंधे तस्य भोगोऽपि संभवेत् ।। ३४९ ।। नचैवं तीर्थमाहात्म्यहानिर्यद् वैद्यसज्जितः । भुक्त्वा' कृ॒पथ्यं' चेन्मंदी स्यात्तत्किं भिषजोऽयशः ।। ३५० ।। प्राग् दुर्दैवोत्थदुर्ध्याना॑द्यद्यप्येषोऽभवत्तथा । तथाप्यप्ता दुतं सम्यक्' सम्यक्त्वैकफलं महत् ।। ३५१ ॥ प्रेत्यकृत्ये कृते राज्ञः प्रव्रज्य प्रथमेद्यवि । क्रमेण हंसीसारस्यौ देव्यौ देव्यौ बभूवतुः ॥ ३५२ ।। ताभ्यामवधिना प्रेक्षि प्रियजीवोऽस्ति कुत्र नौ । अदर्शि च शुकः' खेदादागत्य प्रत्यबोधि च ॥ ३५३ ॥ तत्रैव तीर्थेऽनशनं 'ग्राहितश्च मृतस्ततः । सोऽभूद्देवस्तयोर्भर्त्ता युक्तं तस्येदृशं द्रुतम् ॥ ३५४ ॥ कालक्रमेण ते देव्यौ च्युते पूर्व ततोऽन्यदा । देवेन केवल पृष्टोऽस्मि किं सुलभबोधिकः || ३५५ ॥ प्रभो ! दुर्लभबोधिर्वा भवान् सुलभबोधिकः । इत्युक्ते ज्ञानना' तेनायूचे' कथमिदं पुनः || ३५६ ।। जजल्प केवली यत्ते च्युते देव्यावुभे पुरा । हंसीजीवस्तयोर्मध्यात्पुरे क्षितिमतिष्ठिते ।। . ३५७ ।। मृगध्वजाहयो राजा ऋतुध्वजनृपात्मजः । जातोऽस्ति' सारसीजीवः पुनः स्थानांत॑श्युतः ॥ ३५८ ॥ उपकाश्मीरमध्यस्थविमलाचलमश्रिमे । प्राक् लृप्तमायया पुत्री जातास्ति गांगलेर्मुनेः ॥ ३५९ ॥ नाम्ना कमलमालेति तयोर्जातिस्मरः सुतः । त्वं भातीति सुरः श्रुत्वा शुकरूपः सदुक्तिभिः ॥ ३६० ॥ त्वां तस्मिन्नाश्रमे ' निन्ये कन्यहिलंकृतर्ददे । १ प्राप्स्यति । २ प्रथमस्वर्गलोके । पश्चादानीय सैन्येन त्वां संयोज्य दिवं ययौ ।। ३६१ ।। पंचभिः कुलकम् ।। ततश्युत्वा पुनः सोऽयं युवयोस्तनयोऽजनि । स्वद्वृत्तं च तदा श्रुत्वा जाति स्मृत्वा विमृष्टवान् ।। ३६२ ।। पितरौ प्रागभूतां मे पत्न्यौ तत्कथमेतयोः । तात मातरिति ब्रूयां । मौनमेव वरं ततः ।। २६२ ।। दोषं किंचिद्विनाप्येष जोषपोषं व्यधादिति । अस्मद्वाक्यमनुल्लंघ्यं मन्वान॒स्त्वैधुनाऽभ्यधात् ।। ३६४ ।। निश्चलं बालभावेऽपि प्राग्भवाभ्यस्तमस्य च । सम्यक्त्वाद्यं हि संस्कारः प्रागभ्यासवशः किल ।। ३६५ ॥ शुकराजोऽपि निर्व्याजं व्याजहार तथैव तत् । तं ज्ञानी पुनरप्यूचे शुक! किं १ चित्रमत्र भोः || ३६६ ॥ भवनाटकमीदृक्षमेवांस्ते यदनंतशः । सर्वजीवैर्मिथः सर्वसंबंधा लब्धपूर्विणः || ३६७ ॥ यतः - “ यः पिता स भवेत्पुत्रो यः पुत्रः स भवेत्पिता । या कांता सा भवेन्माता या माता सापि सा भवेत् ॥ ३६८ ॥ न सा जाई' न सा जोणी न तं ठाणं न तं कुलं । न जाया न लुया 'जथ्थ'सव्वे जीवा अनंतसो ।। ३६९ ||” तस्मान्न रागः कर्त्तव्यो नैव द्वेषश्च कुत्रचित् । व्यवहारोंऽनुसर्त्तव्यः केवलं' समताभृता ।। ३७० ।। ममापीदृक्षसंबंधो वैराग्यैकनिबंधनम् । विशेषेण यथा जज्ञे तथा सम्यग् निशम्यताम् ।। ३७१ ।। श्रीमंदिरपुरे श्रीणां मंदिरेऽस्ति नरेश्वरः । दुर्दातः सूरकांत: स्त्रीलंपटः कपटप्रियः ।। ३७२ ।। वदा॒न्य॑स्तस्य ' मान्यश्च सोमः ' श्रेष्ठिधुरंधरः । श्रीरूपजैत्ररूपश्रीः सोमश्रींस्तस्य च प्रिया ॥ ३७३ ॥ श्रीदत्तस्तु तयोः पुत्रः श्रीमती दयितस्य च । तेषां चतुर्णा संयोगः पुण्ययोगादजायत || ३७४ ॥ यतः – “ यस्य पुत्रा वशे भक्ता भार्या छंदानुवर्त्तिनी । विभवेष्वपि संतोष - स्तस्य स्वर्ग इहैव हि ॥ ३७५ ।। समं सोमश्रिया सोमश्रेष्ठी क्रीडितुमन्यदा । उद्यानेऽगान्नृदेवोऽपि माप तत्रैव दैवतः १ मौन पुष्टिम् । ।। ३७८ ।। ” ।। ३७६ ।। तां च सोमश्रियं प्रेक्ष्य प्रक्षुभ्य॑द्रागसागरः । दुष्टस्वांतः क्षणात् क्षोणिकांतः स्वांतः पुरेऽक्षिपत् ॥ ३७७ ॥ यतः – “ यौवनं धनसंपत्तिः । प्रभुत्वमविवेकिता । एकैकमध्येनर्याय किं पुनस्तच्चतुष्टयम् राज्यलक्ष्मीलतायां हि । दावाग्भिर्दुर्नयः स्मृतः 1 तत्कथं राज्यवृद्ध्यर्थी कामयेतन्यिकामिनीम् ॥ ३७९ ॥ अन्यायतोऽन्ये राज्ञैव निवार्यते जनाः सदा । स्वयं कुर्यात्स चेत्तं तन्मात्स्यो न्यायः प्रवर्त्तताम् ॥ ३८० ॥ श्रेष्ठिप्रणुन्नैर्मत्र्याद्यैरित्याद्युक्तः स 'युक्तिभिः । तान् 'प्रत्येमुचद्दुर्वाक्यज्वालामालां न' तां पुनः ।। ३८१ : धिंगहो दुष्टचित्तत्वं युक्ता बा वह्निवर्षिता । प्रधानभानुगोयोगे' सूरकतिस्य' तत्क्षणम् ।। ३८२ ॥ प्राहुर्मत्र्यादयः श्रेष्ठिन् ! कोऽप्युपायोऽत्र नेक्ष्यते । कर्णे कथं धार्यः कथं वार्यः प्रभुर्भुवः || ३८३ || रक्षार्थमेव विहिता 'चिर्भटान्यत्ति चेद्' दृतिः । तदा तेषां कथं कार्या' रक्षा' दक्षाग्रगैरपि || ३८४ || लोकेप्युक्तं - “ माता यदि विषं दद्याद्विक्रीणीत पिता सुतम् । राजा हरति सर्वस्वं ' का ' तत्र परिदेवना || ३८५ ।। ” श्रेष्ठिमुख्यो विलक्षोऽथ पुत्रं प्राह महानहो । बभूव दुर्दैववशादसंभाव्यः पराभवः || ३८६ ।। यतः“ सयंते प्राणिभिर्बादं पितृमातृपराभवाः । भार्यापरिभवं ' सोढुं तिर्यंचोऽपि न हि क्षमाः || ३८७ ॥ " येन तेनाप्युपायेन' युज्यतेऽत्र प्रतिक्रिया । उपायश्चैक एवास्ति द्रव्यव्ययमयः स तु ।। ३८८ ।। षड् द्रव्यलक्षाः नः संति तन्मध्याल्लक्षपंचकम् । सार्द्ध साँर्द्धं गृहीत्वाहं' यास्यामि' कापि दूरतः || ३८९ ।। सेविष्ये' कंचन प्रोद्यैर्भूपालं बलवत्तरम् । वालयिष्यामि तेंऽवां च तद्बलातक्षणादपि || ३९० || स्वयं प्रभुत्वं स्वहस्तगं वा प्रभुं विना नो निजकार्यसिद्धिः । विहाय पोतं तदुपाश्रितं वा वारांनिधिं ' " १ दुष्टहृदयः । २ सूर्यकांतमणेः प्रधानभानुरश्मियोगेऽग्निवर्षणं युक्तम् तद्वत् सूरकांतनूपस्य मंत्रिवाम्योगे वाक्यज्वाला मालादर्षगं क्तं । 3 ह । 18 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134