Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 98
________________ प्रयातुं 'स्वपुरी को न दिव्या प्रतिबध्यते ।। ५३१ ॥ तत्तद्भया' कुमारस्य तत्तीर्थस्य च सेवया । तान्येव सुदिनाहानि मेनिरेंऽवनिपादिभिः ॥ ५३२ ॥ यथा कृतार्थिते एते कन्ये 'धन्येन भोस्त्वया । तथा कृतार्थर्याथापि । पुरीं नः पुरुषोत्तम! ॥ ५३३ ॥ इत्यमत्यर्थमभ्यर्थ्य पार्थिवः 'स्वार्थविनिजाम् । पुरी प्रति प्रतस्थेऽथ कुमाराद्यैः सहन्यिदा ॥ ५३४ ॥ सहाँगच्छ-' चन्द्रचूडचक्रेश्वर्यादिभिस्तदा । द्यौर्व्यापि भून्यापिचमूस्पर्द्धयेव विमानगैः ॥ ५३५ ॥ निरन्तरैर्विमानैस्तैरेकच्छवेव सा चमूः । काप्याप तापं नोर्वीव वीततीक्ष्णकरग्रहा ।। ५३६ ।। पुरीपरिसरं माप क्रमाव क्ष्मापः कुमारयुक । वधूवरदिदृक्षोत्काः पौराश्व परमा मुदम् ॥ ५३७ ॥ कामिनीमिव' काश्मीरकुङ्कुमद्रवपङ्किलाम् । आजानुपुष्पप्रकरामिवाईद्देशनविनीम् ॥ ५३८ । समुच्छ्रितैर्ध्वजभुजैर्नृत्यंतीमिव मोदतः । गायन्तीमिव गीतानि' रणत्तत्किङ्किणीकणैः ॥ ५३९ ॥ विश्वश्रीक्रीडनस्थानस्फुरत्तोरणधोरणीम् । मङ्गल्यहेतुमञ्चस्थस्फीतसङ्गीतसङ्गतिम् ॥ ५४० ॥ पुरन्ध्रीजनविस्मेरवक्त्रैः पद्मसरायिताम् । तनेत्रपत्रैः प्रोन्मीलनीलोत्पलवनीयिताम् ॥ ५४१ ॥ महीपतिर्महीयोभिर्महैस्तं समियाद्यम् । सशक्तिनीतिमुत्साहमिव' भावीविशत् पुरीम् ॥ ५४२ ॥ पञ्चभिः कुलकम् ।। मान्यानामपि मान्याय राज्ञा तस्मै 'मुदे ददे । नानाधनाश्वभृत्यादि रीतितिविदामियम ॥५४३ ॥ निजपुण्यप्रसादेन । मासादे श्वशुरार्पिते । स राजापरस्ताभ्यां विललास विलासवान् ॥ ५४४ ॥ शुकः कौतुककृत्तस्मै स्थितः काञ्चनपञ्जरे । व्यासवत्कथयामास प्रश्नाख्यानपहेलिकाः ॥ ५४५ ॥ तत्र स्थितः कुमारेन्द्रः स्वर्ग' गत इङ्गिभृत् । सस्मार स्फारसारश्रीनव प्राच्यस्य कस्यचित् ॥ ५४६॥ सौख्योत्कर्षेण तस्यैवं वर्षे हर्षेण जग्मुषि । क्षणवत्क्षगवदैवाचबभूव भणामि तत् ॥ ५४७ ॥ दुष्टात्मनां क्षणदायां क्षणदायां कदाचन । समासाद्य चिरं' कीरश्रेष्टगोधीसुधारसम् ॥५४८॥ रत्नाकरे'वासवेश्मवरेस पुरुषोत्तमः । सुखेन सुखशय्यायां सुष्वाप वापमाप चं ॥ ५४९ ॥ युग्मम् ॥ निशीथेऽथ' तमोवीथीव्यर्थितांखिलचक्षुषि । यामिकेष्वपि निद्रायमाणेषु निखिलेष्वपि ॥५५०॥ दिव्यांकारधरः स्फारसारशृङ्गारभासुरः। चौरचारचरः'कृष्टकरवालस्फुरत्करः॥ ५५१ ॥ सर्वतोऽपि कपाटेषु नेत्रवन्मुद्रितेष्वपि । पुरुषः सरुषस्तत्र' कुतश्चित्कश्चिदाययौ॥ ५५२ ॥ त्रिभिर्विशेषकम् ॥ तस्मिन् प्रविष्टे प्रच्छन्नमपि दैवे तु दैवतः। जजागार कुमारः साक' स्वल्पनिद्रा हि साधवः॥ ५५३ ॥ कोऽयं कथं किमथे वा माविशद्वासवेश्मनि । कुमारराजश्चित्तान्तावदित्याय चिन्तयत् ॥ ५५४ ॥ सोऽपि कोपित्वदुर्दर्षः प्रावदत्तावदुच्चकैः । रे रे कुमार! वीरश्चेत्सज्जीभव युधे तदा ॥ ५५५ ॥ मृषा पुरुषकारं ते वणिग्मात्रस्य विश्रुतम् । धूर्तस्येव' शृगालस्य सहेऽहं सिंहवत्कथम् ॥ ५५६ ॥ ब्रुवभेवेत्यसौ कीरम पञ्जरमञ्जसा । हृत्वा चचाल' प्रोत्तालश्छद्मोहो! छपवेदिनः॥ ५५७ ॥ कोशानिष्कास्य'निस्त्रिंशं बिलांदिव' भुजङ्गमम् । कुमारोऽप्यन्वधाविष्ट क्रोधाविष्टमना द्रु तम् ।। ५५८ ॥ स पुरस्तात्कुमारस्तु पृष्ठतः' शीघ्रगामिनौ । लब्धलक्षौ ललवाते लघु दुर्गग्रहाद्यपि ॥ ५५९ ॥ तस्य तेजोऽनुसारेणानुसरनथ पान्यवत् । दुष्टाग्रण्येव निन्येऽसौ तेन 'दूरतरं कचित् ॥५६०॥ कथञ्चिन्मिलितायं यावद्दाव इव क्रुधा । पारिपंथिकवज्जीवग्राहं गृह्णाति तं द्रुतम् ।। ५६१ ॥ तावद्गरुडवद्वेगादुत्पपात नभस्तले । पश्यतोऽपि कुमारस्य स नरः पश्यतोहरः ॥ ५६२ ॥ कियडूरं कुमारेण दृष्टः स व्योमनि व्रजन् । ततः परं न दृष्टश्च नष्टस्तस्य' भयादिव ॥ ५६३ ॥ विस्मयाचिन्तयामास कुमारोऽथ 'मम'ध्रुवम् । कोऽप्येष वैरी विद्याभृद्देवो वा दानवोऽथवा ॥५६४ ॥ अस्तु वा योऽपि सोऽप्येष किं मामपकरिष्यति। कीररत्नं हरन् किन्तु द्विधा दस्यूयितं व्यधात् ॥५६५।। हा विज्ञकोटीकोटीर! कीर! हा धीर! वीर! मे । दाता सूक्तिश्रुतिसुखं कस्त्वां प्रियसखं विना? ॥ ५६६ ॥ विधुरे धीरधौरेय! सहायस्त्वां विहाय मे । को भावीति ? क्षणं खेदं कृत्वन्तिर्विममर्श सः॥५६७ ॥ मृषा कृतार्दमुष्माद्वा किं विषादविषादनात् ? । यथाोपक्रमादेव नष्टपाप्तिर्भवेद्यदि ॥ ५६८ ॥ उपक्रमेऽपि साफल्यमैकाग्र्येणैव । नान्यथा । मन्त्रादयोऽपि नैकाऽयं विना सिद्ध्यन्ति कर्हिचित् ॥ ५६७ ॥ तस्मात्कीरेन्द्रर्मप्राप्य न । निवर्चे कथञ्चन । इति निश्चित्य । कृत्यज्ञस्तं भ्रमन्वियेष सः ॥५७०॥ उच्चैरपि चरंश्चौरानुसृतां दिशमंश्रमम् । कापि प्रापन। तं व्योम्नि गतं । भूमौ क वाप्यते ? ॥ ५७१ ॥ तथापि कापि तच्छुदिः। स्यादित्योशावशात्कचित् । स विवेद न निर्वेदं सतां स्थितिरहो ! श्रिते ॥ ५७२ ।। सहप्रवाससंवाससमयोचितमुक्तिजम् । स 'शुकार्थ तथा क्लिश्यमानः प्रर्णिमशोधयत् ॥ ५७३ ॥ इत्थं तदर्थे पृथ्व्यन्तः स बंभ्रम्यदिनान्तरे । पुरतः'पुरमैद्राक्षीपुरमैन्द्रमिापरम् ॥ ५७४ ॥ खस्फाटिकस्फुटस्फारमाकारपरिवेष्टितम् । पतिपतोलिमाणिक्यमतीहारमतिष्ठितम् ॥ ५७५ ॥ मणीमयमहासौधसमूहै रोहणायितम् । सहस्रमुखभृद्गङ्गायितं सौधध्वजवजैः ॥ ५७६ ॥ त्रिभिर्विशेषकम् ॥ पुरस्य 'श्रीविशेषेणांक्षिप्तचित्तः स सत्तमः । भ्रमरः सौरभेणेवांभोजस्याभ्याशमीसदत् ॥ ५७७ ॥ हरिचन्दनदारूचकपाटोल्लासिसौरभम् । विश्वश्रीणां मुखमिव विशेद्यावच्च' गोपुरम् ॥ ५७८ ।। तावप्रोपरिष्ठाच्या ' वरशारिफयैकया । प्रतीहार्येव नितमामार्यवर्यो न्यवार्यत ॥ ५७९ ॥ विस्मितेन ततस्तेन वितेने वाक्यमुच्चकैः । हेतुना केन मां भद्रे ! निवारयसि ? शारिके ! ॥ ५८० ।। सापि पाह। महाप्राज्ञ ! तवैव हितहेतुना । जिजीविषुर्यदि' तदा ' मा विशैतत्पुरान्तरा ॥ ५८१ ॥ मा स्म मंस्था' वृथैवेयं शारिका विनिवारिका । पक्षिजातौ हि वयमप्युत्तमत्वं लभामहे ॥५८२ ॥ वाङ्मात्रमपि श्रीश्राद्धविधिप्रकरणम 97

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134