Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
रत्नावली संप्रति हृता, अद्यापि सर्वस्वं हरिष्यति । बहुभवेषु वैरं निर्यातयिष्यति । वैरविपाकस्य अहह ! दुस्सहदुरन्तत्वं । आलदानादनमित्रेणालं प्राप्त । पुण्याकृष्टसुदृष्टिमुरैस्तद्व्यन्तरात्मसह्य रत्नावली मोचिता" । श्रुत्वेति संविग्नौ नृपधनमित्रौ ज्येष्ठपुत्रं स्वपदे न्यस्य प्रव्रज्य सिद्धौ । इति धनमित्रकथा ।। इति सप्तमगाथार्थः । मज्झण्हे जिणपूआ, सुपत्तदाणाइजुत्ति भुंजित्ता। पच्चकाइ अ गीअत्थअंतिए कुणइ सज्झायं ॥८॥
मध्याहे पूर्वोक्तविधिना विशिष्य च 'प्रधानशाल्योदनादिनिष्पन्ननिःशेषरसवतीढौकनादिना । द्वितीयवारजिनपूजासुपात्रदानादियुक्त्यनतिक्रमेण भुक्त्वा भोजनं कृत्वेत्यनुवादः । माध्याक्षिकपूजाभोज नयोश्च न कालनियमस्तीवबुभुक्षो हि 'बुभुक्षाकालो भोजनकाल ' इति रूढेमध्याह्लादर्वागपि गृहीतप्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । आयुर्वेदेवेवमुक्तं-" याममध्ये न भोक्तव्यं यामयुग्मं न लमयेत् । याममध्ये रसोत्पत्तियुग्मादूर्ध्वं बलक्षयः ॥ १॥" सुपात्रदानादियुक्तिश्चेयं । भोजनवेलायां सभक्तिसाधून निमन्त्र्य तैः सह गृहमायाति । स्वयमागच्छतो वा मुनीन् दृष्ट्वा संमुखं गमनादिकं करोति । ततः सविनयं संविग्नभाविताभावितक्षेत्रसुभिक्षदुर्भिक्षादिकालसुलभदुर्लभादिदेयद्रव्य३आचार्योपाध्यायगीतार्थतपस्विबालवृद्धग्लानसहासहादिपुरुषाद्यपेक्षया स्पर्धामहत्वमत्सरस्नेहलज्जाभयदाक्षिण्यपरानुवर्त्तनामत्युपकारेच्छामायाविलम्बानादरविप्रियोक्तिपश्चात्तापादिदानदोषवर्जमेकान्तात्मानुग्रहबुद्ध्या द्विचत्वारिंशद्भिक्षादोषाधदूषितनिःशेपनिजांनपानवस्त्रादेर्भोजनाद्यनुक्रमेण स्वयं स्वहस्तपात्रधरणादिना । पार्चे स्थित्वा भार्यादिपार्थाद्वा दानं दत्ते । द्विचत्वारिंशद भिक्षादोषाः पिण्डविशुद्धयादिभ्योऽभ्यूह्याः । ततो वन्दित्वा स्वगृहद्वारादि यावदनुव्रज्य च निवर्तते । साध्वभावे. वनभ्रष्टिवत्साध्वागमनं जातु स्यात्तदा कृतार्थः स्यामिति दिगालोकं कुर्यात् । तथा चाहुः-"जं साहूण न दिन, कहिं पि तं सावया न भुजति । पत्ते भोअणसमए, दारस्सालोअणं कुज्जा ॥ १॥ संथरणमि असुदं, दुहवि गिण्हत दितयाणऽहियं । आउरदिटुंतेणं, तं चेव हिअं असंथरणे ॥ २॥" 'संथरणमि त्ति' संस्तरणे साधूनां निर्वाहे सति, असंस्तरणे अनिर्वाहे दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । तथा,-" पहसंतागलाणेसु, आगमगाहीसु तहय कयलोए । उत्तरपारणगंमि अ, दिन्नं सुबहुप्फलं होइ ॥१॥ एवं देसं तु खित्तं तु विआणित्ता य'सावओ । फासुअं एसणिज्जं च देइ' जं जस्स 'जुग्गयं ॥२॥ असणं पाणगं चेव, खाइमं साइमं तहा । ओसहं भेसजं चेव, फासुअं एसणिजयं ॥३॥" औषधमेकमेव द्रव्यं, भेषजं तु बहौषधसंयोगः । साधुनिमन्त्रणभिक्षाग्रहणादिविधिविशेषो मत्कृतश्राद्धमतिक्रमणसूत्रहत्तेरवधार्यः। इदं च सुपात्रदानमतिथिसंविभाग उच्यते । यदागमः-" अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपामाईणं' दव्वाणं देसकालसद्धासकारकम्मजुयं पराए भत्तिए आयाणुग्गहबुद्धीए संजयाणं दाणं । " इति सुपात्रदानं च दिव्यौदारिकाद्यद तभोगाभीष्टसर्वसुखसमृद्धिसाम्राज्यादिसंयोगमाप्तिपूर्वकनिविलंबनिर्वाणशर्ममाप्तिफलं । यतः-" अभयं' सुपत्तदाणं, अणुकंपाउचिअकित्तिदाणं च । दोहि वि मुस्को भणिओ, तिन्नि वि भोगाइअं दिति ॥ १ ॥" पात्रता त्वेवमुक्ता-" उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरयसम्मदिट्ठी, जहन्नपत्तं मुणेअव्वं ॥ १ ॥" तथा-" मिथ्यादृष्टिसहस्रेषु वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु' वरमेको महाव्रती ॥२॥ महाव्रतिसहस्रेषु वरमेको हि तात्विकः । तात्विकस्य (केन) समं पातं 'न भूतं न भविष्यति ॥३॥ सत्पात्रं महती श्रद्धा काले देयं यथोचितम् । धर्मसाधनसामग्री बहुपुण्यैरवाप्यते ॥ ४ ॥ अनादरो विलंबश्च वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पश्चापि सदानं दूषयन्त्यमी ॥ ५ ॥ भिउडी'उद्धालोअणं अंतोवन्ना' परंमुहंठाणं । मोणं 'कालविलंबो नकारो छव्विहो होइ ॥ ६॥ आनन्दाश्रूणि रोमाञ्चो बहुमानः प्रियं वचः । किश्चानुमोदना पात्रदानभूषणपञ्चकम् ।। ७॥"
सुपात्रदाने परिग्रहपरिमाणनियमपालने च रत्नसारकुमारकथा । यथा
"रत्नविशाला नगरी गरीयः संपदा पदम् । यथार्थनामा समरसिंहस्तत्र नरेश्वरः ॥१॥ व्यवहारी दुःस्थदुःखापहारी तत्र चाभवत् । वसुसारः श्रिया सारः प्रियांस्य च वसुन्धरा ॥२॥ रत्नसारगुणश्रेणी रत्नसारस्तयोः सुतः। सवयोभिः समेतोऽसौ'समेतो वनमन्यदा॥३॥ विनयन्धरसूरीन्द्रान् प्रेक्षावान् प्रेक्ष्य तत्र च । नत्वानाक्षीत्पभोऽत्रापि पाप्यते मुखिता'कथम् ! ॥४॥ मुमुक्षुमुख्या आचख्युर्दक्ष ! सन्तोषपोषतः। भवेत्रापि भवेज्जीवः सुखी न त्वन्यथा कचित् ।। ५॥ सन्तोषश्च भवेद् द्वेधा देशतस्सर्वतस्तथा । तत्र स्याद्देशसन्तोषः सौख्याय गृहमेधिनाम् ॥६॥ परिग्रहपरिमाणग्रहणे गृहिणां पुनः। देशसन्तोषपोषः स्यादतुच्छेच्छानिवृत्तितः॥७॥ सर्वसन्तोषपोषस्तु यतीनामेव संभवेत् । अनुत्तरसुरेभ्योऽयंत्राय॑नुत्तरसौख्यदः॥८॥ उक्तं च पञ्चमाथे-“एगमासपरिआए समणे वाणमंतराणं १दोमासपरिआए भवणवईणं २ एवं तिचउप्पंचछसत्तअट्ठनवदसएगारसमासपरिआए असुरकुमाराणं ३ जोइसिआणं ४ चंदसूराणं ५सोहम्मीसाणं ६ सणंकुमारमाहिंदाणं ७ बंभलंतगाणं ८ सुक्कसहस्सोराणं ९ आणयाइ चऊण १० गेविज्जाणं ११ जाव बारसमासपरिआए समणे अणुत्तरोववाइयदेवाणं १२ तेउलेसं वीईवयइ ति॥" इह तेजोलेश्या चित्तमुखलाभलक्षणा चारित्रस्य परिणतत्वे सतीति शेषः । प्राज्यैनं हि महाराज्यैर्धनै तिघनैरपि । समग्रै
86
श्रीश्राद्धविधिप्रकरणम

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134