Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
ऊनोऽभिधाक्षरेणैव । तुल्योऽधिकोऽपि च वणिपुत्रः स्यात् श्रेष्ठितः क्रमतः ॥४५॥ कुलपुत्रः पुत्रतया मान्यो धन्याभिधोरए भृत्यवरः। सोऽन्येद्युः स्नानार्थी स्नानार्हे सरसि सरति स्म ।। ४६।। तत्र त्रिधा सुकमले जलकेलिं स किल कलभवत्कलयन् । दिव्यमिवातुलपरिमलमलभत कमलं सहस्रदलम् ।। ४७॥ निर्गत्य ततश्चलितः पीत्या कलित क्रमेण मिलितश्च । आरामिककन्यानां कुसुमान्युच्चित्य यांतीनां ।। ४८॥ पाग्भूरिपरिचिताभिस्ताभिर्भणितश्च चतसृभिज्ञाभिः । भो भद्र ! भद्रशालद्रमसुममिव दुर्लभमिहैतत् ॥४९॥ मा यत्र तत्र यौक्षीरुत्तममिदमुचितमुत्तमस्यैव । सोऽप्याख्यद् योक्ष्येऽदः स्फुटमुकुटमिवोत्तमस्यैव ॥ ५० ॥ दध्यौ च ममाभ्यर्च्यः सुमित्र एवोत्तमः समग्राणाम् । यो येन सुनिर्वाहः कस्तस्य ततः परमः ।। ५१॥ मुग्धात्मा ध्यात्वैतत्तत प्राभृतमकृत दैवतायेव । गत्वा नत्वा विनयाद्यथावदुक्त्वा सुमित्राय ।। ५२ ॥ स्माह सुमित्रः श्रेष्ठी वसुमित्रः सत्तमस्तदहमदः। तस्याहर्निशदास्यादपि न स्यादनृणभावो मे ॥५३॥ वसुमित्राय ततोऽसौ दौकितवान् माग्वदुक्तवान् सोऽथ । मंत्र्युत्तमोऽस्ति यस्मान्ममात्र सर्वार्थसिद्धिरिह ॥ ५४ ।। ढोकयति स्म तथैव प्रीत्यामात्याय सोऽथ सोऽप्यवदत् । मत्तोऽपि सत्तमः क्षमाभन हि क्षमाप्रजाभः ॥ ५५ ॥ स्रष्टुरिव यस्य दृष्टेरपि प्रभावोऽद्भुतो भुवि यया द्राग् । सर्वलघुः सर्वगुरु: सर्वगुरुः स्याच सर्वलघुः ॥५६॥ सोऽथ तथैव तदुपदीकृतवान् सपदीश्वराय वसुधायाः। राजापि जैनसद्गुरुसेवाभिमुखो बभाषे तम् ॥ ५७॥ यत्क्रमकमलेऽलिकलां कलयंति मदादयोऽपि सैव गुरुः । उत्तम इह तद्योगस्त्वल्पः स्वात्यंबुयोग इव ॥५८॥ इत्याख्याति क्षितिऽतरीक्षतस्तत्र चित्रकृत्सुरवत् । चारणमहर्षिरागात् स्पृहालतायाः सफलताहो ॥५९॥ बहुमानासनदानाभिवंदनादीनि विहितपूर्विषु च । उर्वीश्वरादिषु मुनेर्धन्योष्ठौकत तथैवैतत् ॥६०॥ मुनिनोक्तमुत्तमत्वं तरतमभावेन भवति केष्वपि चेत् । तद्विश्रांतिस्त्वईत्येवाईति विश्वविश्वार्थे ॥ ६१ ॥ तस्मात्तस्यैवोचितमेतद् भोस्त्रिजगदुत्तमतमस्य । कामगवीव नवीनात्रामुत्र जिनार्चनार्थितदा ॥ ६२ ॥ इति यतिवाक्यान्मुदितो भद्रकभावः स भावतश्चैत्ये । गत्वाईत शिरसि तच्छत्रमिवादात्पवित्रतनुः॥ ६३ ॥ तेन स शिरस्कजिनवरशिरसः शोभानिभालनातुलमुत् । शुभभावनाश्रितमनाः सुस्थस्तस्थौ क्षणं यावत् ॥ ६४॥ तावत्तत्र चतस्रः कन्यास्ताः कुसुमविक्रयायेयुः । ददृशुश्चाईतशीर्षे तत्कमलं तेन विन्यस्तम् ।। ६५ ॥ अनुमोदनोद्यतास्ता अपि संपदीजमिव भगवतोऽगे । एकैककुसुममसमं समं समारोपयामासुः ॥ ६६ ॥ पुण्ये पापे पाठे दानादानादनान्यमानादौ । देवगृहादिककृत्येष्वपि प्रवृत्तिर्हि दर्शनतः ॥ ६७॥ धन्यंमन्यः पाप च धन्यः कन्याश्च निजनिजस्थानम् । सति संयोगे प्रणमति तत्मभृति प्रतिदिनं स जिनम् ॥ ६८॥ इति च ध्यायति धिम् मां प्रतिदिनजिननमननियममपि लातुम् । असमर्थ रंकमिवाप्यहर्निशं परवशं पशुवत् ॥ ६९ ॥ धात्रीशमंत्रिवसुमित्रसुमित्राख्यास्तु चारणपिगिरा । प्रतिपन्ना गृहिधर्म क्रमात्मपन्नाश्च सौधर्मम् ॥ ७० ॥ धन्योऽप्यहंदभक्तेः सौधर्मेऽभून्महर्दिकत्रिदशः। जातास्ताश्च चतस्रः क्रमात्कुमार्योऽस्य मित्रसुराः॥७१ ॥ नृपदेवश्युत्वा द्वैतादये गगनवल्लभ नगरे । सुरनगरे सुरपतिवच्चित्रगतिः खेचराधिपतिः ।। ७२ ॥ सचिवसुरश्युत्वाऽस्य च पुत्रः पित्रोः परप्रणयपात्रम् । जातोऽस्ति विचित्रगतिर्नाम्ना धाम्नापि पितुरधिकः ।।७३|| स प्राज्यराज्यलोभाभिभूतहृदयोऽन्यदा पितृनिहत्यै । गूढदृढमंत्रमाधात् धिर धिग् लोभाध्यमपि सूनोः ॥ ७४ ॥ दैवात्तु गोत्रदेव्यादेशादवगत्य गूढमंत्रं तम् । आत्यंतिकमाकस्मिकभयेन वैराग्यमाप नृपः ।। ७५ ॥ हा किं कुर्वे किंवा शरणीकुर्वे ब्रुवेऽथ किं कस्य । अकृतसुकृतः सुतादपि पशुमृतिमाप्तास्मि कुगतिमपि ॥ ७६ ॥ अद्यापि चेतये वेत्यालोच्य स पंचमाष्टिकतलोचः । सुरदत्तव्रतिलिंगः साग व्रतमादत्त सत्तमधीः ॥ ७७॥ क्षमितश्चानशययुजात्मजेन राज्यार्थमर्थितोऽत्यर्थम । तं व्रतहेतुं शंसनिःसंगः पवनवद् व्यहरत् ।। ७८ ।। यतिचर्ययास्य चरतस्तपांसि चरतश्च दुस्तपान्युदभूत । ज्ञानं तृतीयमेतत् स्पर्धादिव तत्तुरीयमपि ॥ ७९ ॥ ज्ञानाद् ज्ञात्वा लाभं सोऽहं मोहं व्यपोहितुं भवताम् । अत्रागमं समग्रं कथयाम्यथ शेषसंबंधम् ॥८०॥ वसुमित्रसुरश्श्युत्वा त्वमभूर्भूपः सुमित्रदेवस्तु । तव देवी प्रीतिमती प्रीतिचा प्राग्भवाभ्यस्ता ॥ ८१॥ सुश्राद्धत्वज्ञप्त्यै कचित्कचित्रिकृतिमकृत स सुमित्रः । तत्स्त्रीत्वमत्र हि हिताहितार्थजडता सतामपि हा ॥ ८२ ।। मत्पुत्रात्माग् माभूत्पुत्रो भ्रातुर्लघोरिति च दध्यौ । तदिह विलंब्य सुतोऽभूत्सकृदपि कुध्यातमतितीव्र ।। ८३ ॥ धन्यमुरेणान्यदिने स्वोत्पत्तिपदं जिनेश्वरः सुविधिः । पृष्टः पोचे तस्योत्पसिं युवयोः सुतत्वेन ॥ ८४ ॥ पित्रोधाभावे कुतः सुतस्यास्तु धर्मसामग्री । सद्भाव एव कूपे घुपकूपे सुलभमभः स्यात् ॥ ८५ ॥ इत्यात्मबोधिबीजप्राप्त्यै स मरालरूपभूद्राज्ञीम् । तत्तदुदित्वा स्वप्नं दत्वा त्वामपि च बोधितवान् ॥८६॥ देवभवे केऽप्येवं प्रयतंते प्रेत्य बोधिलाभकृते । नृभवेऽप्यन्ये स्वणिमिवाप्तमपि हारयंत्यपि तम् ।। ८७ ॥ सम्यग्दृष्टिसुरः स च ततश्युतोऽयं सुतोऽभवद्युवयोः । हेतुर्मातुस्तादृक् सुस्वप्नसुदोहदादीनाम् ।। ८८॥ कार्य छायेव पतिं सतीव चंद्रं च चंद्रिकेव रविम् । छबिरिव तडिदिव जलधरमिममनुसरति स्म जिनभक्तिः ।। ८९॥ ह्योऽस्य च चैत्ये नीतस्याईत्मतिमानिरीक्षणेन मुहुः । हंसागमादिवा श्रवणेन च मूर्छितश्चाशु ॥ ९० ॥ जातं जातिस्मरणं विहितप्रागजन्मकृत्यसंस्मरणम् । तदनु विना जिनदशेननती न दास्यामि किमपि मुखे ॥ ९१ ।। इति य स्वीकृतवाभियममात्ममनसैव । स नियमधर्मो धनियमधर्मादतिशाय्यनंतगुणः॥ ९२ ॥ तथाहि-अनियमसनियमभेदाद्
श्रीश्राद्धविधिप्रकरणम
53

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134