Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
कटुत्वं न गतं तदा तैस्ते पापं कथं गतं । तद्विक्रिया तपोभिरेव याति, ततः सोऽपि प्रबुद्धः । स्नाने चासंख्य जीवमयजलशैवलाद्यनंतजंतूनामगलितजले तदाश्रितपूतरादित्रसानां विराधनया सदोषत्वं प्रतीतं जलस्य जीवमयत्वं च लोकेऽप्युक्तं । यदुत्तरमीमांसा – “ लूतास्यतंतुगलिते ये बिंदौ संति जंतवः । सूक्ष्मा भ्रमरमानास्ते नैव मांति त्रिविष्टपे ।। १ ।। " इत्यादि । भावस्नानमाह-- “ ध्यानांभसा तु जीवस्य सदा यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य भावस्नानं तदुच्यते ॥ २ ॥ " कस्यचित् स्नाने कृतेऽपि यदि गडक्षतादि स्रवति, तदा तेनांगपूजां स्वपुष्पचंदनादिभिः परेभ्यः कारथित्वा अग्रपूजा भावपूजा च स्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासंभवेन स्वयमंगपूजाया निषिद्धत्वात् उक्तं च – “ निःशुकत्वादशौचोऽपि देवपूजां तनोति यः । पुष्पैर्भूपतितैर्यश्च भवतः श्वपचाविमौ ॥ १ ॥” कामरूपपत्तने मातंगस्यैकस्य पुत्रो जातः स जातमात्र एव पूर्वभववैरिणा व्यंतरेणापहृत्य वने मुक्तः, इतश्च कामरूपपत्तनाधिपो राजा राजपाटिकायां निर्गतः, वने स बालको दृष्टः, अपुत्रत्वेन गृहीतः पालितः 'पुण्यसार' इति नाम दत्तं स उद्यौवनो जातः, राजा तस्मै राज्यं दत्वा दीक्षां जग्राह कालेन केवली जातः, कामरूपे समागतः पुण्यसारो वंदनाय गतः पौराः सर्वे समागताः, पुण्यसारजननी मातंग्यपि तत्रायाता, राजानं दृष्ट्वा तस्याः स्तन्यमस्रवो जातः, राज्ञा कारणं पृष्टः केवली माह – “हे राजन् ! एषा तव माता, मया त्वं वने पतितो लब्धः, " राज्ञा पृष्टं, केन कर्मणाहं मातंगो जातः ? ज्ञानी माह पूर्वभवे त्वं व्यवहारी अभूः त्वयैकदा जिनं पूजयता पुष्पं भूमौ पतितं देवस्थानारोप्यं जानताप्यवज्ञयारोपितं, तेन त्वं मातंगो जातः । यतः - " उच्चि फलकुसुमं, नेविज्जं वा जिगस्स जो देइ । सो नीअगोअकम्पं, बंधह पायनजम्मंमि ॥ १ ॥ " तत्र पूर्वभवे या माताभूत्तयैकश स्त्रीधर्मेऽपि देवपूजा कृता, तत्कर्मणा सैषा मातंगी जाता, ततो वैराग्याद् राज्ञा दीक्षा गृहीता । इत्यशौचे भूपतितपुष्पैश्च देवपूजायां मातंगकथा । अतो भूपतितं पुष्पं सुगंध्यपि देवस्य नारोप्यं स्वल्पेऽप्यपावित्र्ये देवानां नाभ्यर्चनीयं, विशिष्य चोच्छिष्टदिने स्त्रीभिर्तृहदाशातनादि दोषात् । ततः पवित्रमृदुगंधकाषायिकाद्यंशुकेनांगरूक्षणपौतिकमोचन पवित्रवस्त्रांतरपरिधानादियुक्त्या क्लिनांघ्रिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तराभिमुखः संव्ययते दिव्यं नव्यमव्यंगमकीलितं पृथुलं श्वेतांशुकद्वयं । यतः - " विशुद्धिं वपुषः कृत्वा यथायोगं जलादिभिः । धौतवस्त्रे च सीते द्वे विशुद्धे धूपधूपिते ॥ १२ ॥ लोकेऽप्युक्तं – “ न कुर्यात्संधितं वस्त्रं देवकमणि भूमिप। न दुग्धं न तु वैच्छिन्नं परस्य तु न धारयेत् ॥ १३ ॥ कटिस्पृष्टं तु यद्वस्त्रं पुरीषं येन कारितम् । समूत्रमैथुनं चापि तद्वत्रं परिवर्जयेत् ॥ १४ ॥ एकवस्त्रो न भुंजीत न कुर्यादेवतार्चनम् । न कंचुकं विना कार्या देवार्चा स्त्रीजनेन तु ।। १५ ।। " एवं हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना न कल्पते देवार्चादि । धौतवस्त्रं च मुख्यवृत्त्यातिविशिष्टं क्षीरोदकादिकं श्वेतमेव कार्य । उदायननृपराशीप्रभावतीप्रभृतीनामपि धौतांशुकं श्वेतं निशीथादावुक्तं । दिनकृत्यादावपि - " सेयवत्थनिअंसणोत्ति” क्षीरोदकांशुकाद्यशक्तावपि दुकूलादि धौतिकं विशिष्टमेव कार्य । यदुक्तं पूजाषोडशके – “सितशुभवस्त्रेति, ” तद्वृत्तिर्यथा - सितवस्त्रेण शुभवस्त्रेण च, शुभमिह सितादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यते इति । " एगसाढिअं उत्तरासंगं करेइ” इत्याद्यागमप्रामाण्यादुत्तरीयमखंडमेव कार्य न तु खंडद्वयादिरूपं । न च दुकूलं भोजनादिकरणेऽपि सर्वदा पवित्रमेवेति लोकोक्तिरत्र प्रमाणयितव्या, किंत्वन्यधौतिकव हुकूलमपि भोजन मलमूत्राशुचि स्पर्शवर्जनादिना सत्यापनीयं, व्यापारणानुसारेण पुनः पुनर्धावनधूपनादिना च पावनीयं, धौतिकं च स्वल्पवेळमेव व्यापार्य, प्रस्वेदश्लेष्मादि च धौ । तिकेन न स्फेटनीयं अपावित्र्यमसक्तेः, व्यापारितवस्त्रांतरेभ्यश्च पृथग् मोच्यं तच्च परसत्कं प्रायो वर्जनीयं, विशिष्य च बालवृद्धस्त्र्यादिसत्कं । श्रूयते हि कुमारपालनृपस्योत्तरीयधौतिके मंत्रिबाहडांबडानुजचाहडेन व्यापारिते, राज्ञोक्तं, - “ नव्यं मेऽर्पय, " तेनोक्तं - " दुकूलं नव्यमपि सपादलक्षे बंबेरापुर्येव निष्पद्यते, तदीश व्यापारितमेव चात्रायाति,” ततो राज्ञाऽव्यापारितमेकं मार्गितोऽपि बंबेरानृपो यदा नादात् तदा राजा रुष्टश्वाहडं दानशौडत्वं न कार्य इत्युक्त्वा ससैन्यं तं प्रति प्रेषीत् । तृतीयमयाणे कक्षमार्गणेऽनर्पणात् श्रीगृहिकं निष्कास्य यथेच्छं दानी चतुर्दशशतीकरभीभटैः सद्यो रात्रौ बंबेरापुरमवेष्टयत् । तदा सप्तशतीकन्योद्वाहाविघ्नाय तां रात्रिं विलंब्य प्रातदुर्ग जगृहे । सप्तस्वर्णकोटीरेकादशशतीं इयांश्च ललौ । दुर्गं घरट्टैवर्णीचक्रे । तत्र देशे स्वस्वाम्याज्ञां प्रवर्च्य सप्तशती शालापतीन् पत्तने समहमानिन्ये । राज्ञोक्तं तव स्थूललक्षतादोष एव दृग्दोषरक्षामंत्रः, त्वं मत्तोऽप्यधिकव्ययः । तेनोक्तं, - मम व्यये स्वामिनो बलं तव तु कस्य । इत्युक्त्या तुष्टो नृपः सत्कृत्य 'राजघरट्ट ' बिरुदं तस्मै ददे । इत्यन्यव्यापारित धौतिके ज्ञातं । तथा सुस्थानात् स्वयंज्ञातगुणसुमानुषपार्श्वद्वा पवित्रभाजनाच्छादनानेतृमार्गादियुक्त्या पानीयपुष्पाद्यानयनं । पुष्पाद्यर्पयितुः सुमूल्यार्पणादिना प्रीणनं । एवं मुखकोशपवित्रस्थानादियुक्त्या असंसक्तशोधितजात्यकेसरकर्पूरादिमिश्र श्रीषंडघर्षणं । संशोधितजात्यधूपप्रदीपाखंडचोक्षादिविशेषाक्षतविशिष्टानुच्छिष्टनैवेद्यहृद्यफलादिसामग्री मीलनं । एवं द्रव्यतः शुचिता । भावतः शुचिता तु रागद्वेषकषायेयैहिकामुष्मिक स्पृहा कौ तुकव्याक्षेपादित्यागेनैकाग्रचित्तता । उक्तं च- " मनोव कायर्वस्त्र व पूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या श्रीअर्हत्पूजनक्षणे ॥ १ ॥ " एवं द्रव्यभावाभ्यां शुचिर्गृहे गृहचैत्ये, – “ आश्रयन् दक्षिणां शाखां पु
श्रीश्राद्धविधिप्रकरणम्
41

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134