Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 105
________________ माणैठकस्य चक्षुषी आनीय संदधौ । स 'एडकाक्ष' इति ख्यातः । प्रत्ययदर्शनात् श्राद्धोऽजनि । कौतुकाचं द्रष्टुं लोके समागच्छति तमाम्ना पुरमप्येडकाक्षं जज्ञे । तद्दर्शनाद् बहवः श्रादा जझिरे । इति दिवसचरमे एडकाक्षबातम् ॥ ततः सन्ध्यायामन्त्यमुहूर्तरूपायामस्तमयति सूर्येऽर्द्रबिम्बार्दर्वाक् पुनरपि तृतीयवारं यथाविधि जिनं पूजयति । इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरि-श्रीभुवनसुन्दरसूरिशिष्यश्रीरत्नशेखरसूरिविरचितायां श्रीविधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्ती दिनकृत्यप्रकाशकः प्रथमः प्रकाशः । 25 श्राद्धविधिटत्तौ प्रथमः प्रकाशः समाप्तः -- - - - - ॥ अहम् ॥ द्वितीयः प्रकाशः उक्तं दिनकृत्यं सांप्रतं रात्रिकृत्यमाह-'पदिकमइ चि' ततः श्रादः साधुपार्षे पौषधशालादोवाप्यतनपा ममाजेनापूर्व सामायिककरणादिविधिना प्रतिक्रामात, षद्विधावश्यकलक्षणं प्रतिक्रमणं करोति । तत्र स्थापनाचार्यस्थापनामुखवनिकारजोहरणादिधर्मोपकरणग्रहणसामायिककरणादिविधिः श्रादमतिक्रमणसूत्रवृत्तौ कश्चिदुक्त इत्यत्र नोच्यते । प्रतिक्रमणं च'सम्यक्त्वादिसर्वातिचारविशुख्यर्थ प्रतिदिवसमुभयसन्ध्यमाप विधेयं श्रादेनाभ्यासाद्यय च । यथाभद्रकेणापि जातु निरतिचारत्वेऽपि तृतीयवैद्यौषधकल्पमवश्यं कर्त्तव्यमिदं । यदार्ष-"सपडिकमणो धम्मो, पुरिमस्स य पच्छिमस्स या जिणस्स। मझिमगाण जिणाणं, कारण जाए पडिक्कमणं ॥१॥"'कारणजाए चि' अतीचाराभावे पूर्वकोव्यामपि न मतिक्रामन्ति, अतीचारे मध्याह्नेऽपि कुर्युरित्ययः । “ वाहिमवणेइ भावे, कुणइ अभावे' तयं तु पढमंति। बिइअमवणेइ न कुर्णइ, तइअंतु रसायणं होइ ॥ २ ॥ ' रसायणं ति" रसायनं सद्भावे व्याधि हरति । तदभावेऽपि सर्वाङ्गीणपुष्टिसुखबलवृदिहेतुरनागतव्याधिप्रतिबन्धकं च । एवं प्रतिक्रमणमपि सद्भावेऽतिचारान् विशोधयति । तदभावे चारित्रधर्मपुष्टिं करोति । अत्र कविदाह-श्रावकस्यावश्यकचूर्युक्तसामायिकविधिरेव प्रतिक्रमणम् । षद्विधत्वस्योभयसन्ध्यमवश्यकरणीयत्वस्य चात्रैव घटमानत्वात् । तथाहि-“सामायि इयो पतिक्रम्य कायोत्सर्ग च विधाय चतुर्विंशतिस्तवं भाणत्वा वन्दनच दत्वा श्रावकः प्रत्याख्यानं करोति" इति पविधत्वम् । “सामाइअमुभयसंझं" इति वचनादस्य च कालनयत्यमिति। अत्रोच्यतेन समीचीनमिदं षड्विधत्वस्य कालनियमस्य चात्राँसिद्धत्वात् । तत्र तावत्तवाभिमायेणापि चूर्णिकृता सामायिकर्यापथमतिक्रमणवन्दनकान्येव साक्षाहर्शितानिन शेषाणि।तत्रापीर्यापयतिक्रमणं गमनागमनविषयं नोवश्यकतुर्याध्ययनरूपम्। “गमणागमणविहारे, सुत्ते वा सुमि णदंसणे राओ।नावा नइसंतारे, इरिआवहिआपडिक्कमणं ॥१॥" इत्यादिवचनात् । अथ साध्वनुसारेण श्रावकस्थैर्यापथपतिक्रमणे कायोत्सर्गचतुर्विंशतिस्तवावपि दर्यते । तर्हि तदनुसारेण किंन प्रतिक्रमणमपि तस्योच्यते । किंच-" असइ साहुचेइयाणं पोसहसालाए वासगिहे वासामाइयं वा आवस्सयं वा करेइ" इत्यावश्यकचूर्णावपि सामायिकादावश्यकं पृथगुक्तं। तथा सामायिकस्य नकालनैयत्यम् । “जत्य वा वीसमइ अत्थइवा निव्वाचारो सव्वत्थ करेइ" तथा "जाहे खणिोताहे करेइ तो सेनभन्जई" इति चूर्णिवचनमामाण्यात् । 'सामाइअमुभयसंझं' इति तु सामायिकमतिमापेक्षं, तत्रैव तत्कालनियमस्य श्रूयमाणखात् । अनुयोगदारसूत्रेतु स्फुटं श्रावकस्यापि प्रतिक्रमणमुक्तं । यथा-"समणे वा समणी वासावए वा साविआवातचित्ते तम्मणे तल्लेसेतदज्यवसिएतचिव्वज्झवसाए तदहोवउत्ते तदप्पिअकरणे तब्भावणभाविए उमओ कालमोवस्सयं करेइ"। तथा तत्रैव-"समणेण सा य, अवस्सकायब्वयं हवइ जम्हा । अंतो' अहोनिसस्स य तम्हा 'आवस्सयं नाम ! १॥" तस्मात्साधुवत् श्रादेनापि श्रीसुधर्मस्वाम्यादिपूर्वाचार्यपरंपरायातं प्रतिक्रमणं कार्यम् । मुख्यतच्या द्विसन्ध्यं दिवसनिशाकृतपातकविशुदिहेतुत्वेन महाफलत्वात् । यदभ्यषिमहि-"अघनिष्क्रमणं भावद्विषदोक्रमणं च सुकृतसंक्रमणम् । मुक्तः क्रमणं कुर्याद् द्विःप्रतिदिवसं प्रतिक्रमणम् ॥१॥" 104 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134