Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 101
________________ दशदत्ते तु पातकिन्! पातकं कुतः? ॥ ६८७॥ रे माज्यराज्यदानेऽपि मन्द! मन्दायसेतमाम् । सुगन्धिघृतपानेऽपि'छछत्कारं करोषि रे ॥ ६८८ ॥ रे मूढ ! सुप्रौढतया ' हयें मेऽमुद्रनिद्रया । सुखं शेषे' तलांघी च' स्वावुन्म्रक्षयसे' मया ॥ ६८९ ।। मदुक्तं हितमप्यकं मुमूर्षो न चिकीर्षसि । तत्पश्य ' मम कोपस्य फलदस्यांतुलं फलम् ॥६९० ॥ इति क्रव्याद ब्रुवन् क्रव्यमव्यग्र ' इव । गृध्रराद् । कुमारमंपहृत्य। दांगुत्पपात ' नभोङ्गणे ॥ ६९१ ॥ ततः क्रोधोध्धुरः। कंअधिरः' क्रव्यादधुरन्धरः। क्षिप्रं चिक्षेप तं। भीष्मांबुधौ। स्वं च भवांबुधौ ॥ ६९२ ।। झटित्यपारेऽकूपारे कुमारेशस्तदा दिवः । निष्पपात सनिर्घातं मन्थाद्रिरिव-जङ्गमः ॥ ६९३॥ कौतुकादिव पातालं गत्वा तत्कालमेव सः। जलोपरि प्रादुरभूजलस्य स्थितिरीदृशी ॥ ६९४ ॥ कथं तस्य स्थितिस्तत्र' जडात्मन्यजडात्मनः । इतीवाब्धेस्तमुद्दधे कौणपः पाणिना ततः॥ ६९५॥ जगौ च कुग्रहागार ! निर्विचार ! कुमार रे!। किं मुधा म्रियसे ? राज्यश्रियं संश्रयसेन किम् ॥६९६॥ रे निन्द्य ! निन्द्यमप्योधा त्वदुक्तं त्रिदशोऽप्यहम् । प्रशस्यमपि मत्सोक्तं नरोऽपि न करोषि रे॥६९७॥रेरे! सद्यः प्रपद्यस्व नोचेदश्मशिलातले । आस्फाल्यास्फाल्य रजक' इव वस्त्रं मुहर्मुहः॥ ६९८ ॥ त्वां कृतान्तनिशान्तस्यातिथीकर्तास्म्यसंशयम् । सुराणां न मृषारोप: स्याद्विशिष्य च'रक्षसाम् ॥ ६९९ ।। युग्मम् ।। इत्युदित्वा पदोधृत्वाऽधोमुखः क्रोधिनाऽमुना। आस्फालनायोपशिलं नीतोऽप्याहस साहसी ॥ ७० ॥ निर्विकल्प स्वसङ्कल्पं क्षिप्रमेव कुरुष्व । भोः।। कस्मिन्नर्थे 'मुहः पृच्छा सतामेकैव गीर्यतः ॥ ७०१॥ ततस्तादृकुमारेन्द्रसत्वोत्कर्षमहर्षतः । पोल्लसत्पुलकाङ्करस्तेजःपूर इवोध्धुरः॥ ७०२॥ इवेन्द्रजालिकः क्षिप्रं रूपं संहृत्य राक्षसम् । वैमानिकः सुरः सोऽभूदिव्याभरणभासुरः ।। ७०३ ।। युग्मम् ।। पुष्पवृष्टिं च कृतवानंबुदृष्टिमिाबुदः। तस्योपरिष्ठाद्वन्दीव कुर्वन् जयजयारवम् ॥ ७०४ ॥ सविस्मयैकव्यापारं'कुमारं व्याजहार' च । सात्विकेषु तवैवांद्यरेखा' नृष्विव चक्रिणः ॥ ७०५ ॥ त्वया पुरुषरत्नेन गर्भरत्नाद्य भूरभूत् । भवतैवैकवी रेण' वीर ! वीरवती च सा ॥ ७०६ ॥ साधु साधु त्वया साधुसन्निधेर्धमें आददे । काञ्चनाचलचूलेव यस्यैवं निश्चलं मनः ।। ७०७ ।। हरिसेनानीईरिणैगमेष्यनिमिषाग्रणीः । युक्तमेव तव श्लाघां कुरुते सुरसाक्षिकम् ।।७०८॥ वक्ति स्म विस्मयस्मेरः कुमारः स सुराग्रणी। मामश्लाघ्य श्लाधते किम् ? सोऽप्युवाच'शृणु ब्रुवे ॥ ७०९ ॥ नव्योत्पन्नतयान्यहि सौधर्मेशानशक्रयो। विवादोऽभूद्विमानार्थ हार्थमिव' हर्मियणोः ।।७१०॥ विमानलक्षा द्वात्रिंशत्तथाष्टाविंशतिः' क्रमात् । सन्त्येतयोस्तथाप्येती' विवदेते स्म धिग् भवम् ।। ७११ ॥ तयोरिवोर्वीश्वरयोर्विमानदिप्रलुब्धयोः । नियुद्धादिमहायुद्धान्यप्यभूवननेकशः ॥७१२॥ निवार्यते । हि। कलहस्तिरश्च । तरसा नरैः । नराणां च नराधीशैनराधीशां । सुरैः कचित ॥ ७१३ ॥ सुराणां च सुराधीशैः सुराधीशां पुनः कथम् ? । केन वा ' स निवार्येत । वज्राग्निरिव दुःशमः ॥ ७१४ ॥ माणवकाख्यस्तंभस्थाईदंष्ट्राशान्तिवारिणा । साधिव्याधिमहादोषमहावैरनिवारिणा ॥ ७१५ ॥ कियत्कालव्यतिक्रान्ती' सिक्तौ महत्तरैः सुरैः । बभूवतुः प्रशान्तौ तौ सिध्येत्' किं वा न तज्जला ? ।। ७१६ ॥ युगलम् ॥ ततस्तयोमिथस्त्यक्तवैरयोः' सचिवैयोः । पोचे पूर्वव्यवस्थैवं सुधियां समये हि गीः ।। ७१७ ॥ सा चैवं–दक्षिणस्यां विमाना ये सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥ ७१८ ।। पूर्वस्यामपरस्यां च वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च स्युः सौधर्मसुरेशितुः ॥ ७१९ ॥ पूर्वापरदिशोख्यसाश्चतुरस्राश्च ते पुनः । सौधर्माधिपतेरी अर्दा ईशानचक्रिणः ॥ ७२० ॥ सनत्कुमारे। माहेन्द्रेऽप्येष एव भवेत्क्रमः । वृत्ता एव हि सर्वत्र' स्युर्विमानेन्द्रकाः पुनः ॥ ७२१ ॥ इत्यं । व्यवस्थया चेतःसौस्थ्यमास्थाय सुस्थिरौ । विमत्सरौ प्रीतिपरौ जज्ञाते तो सुरेश्वरौ ॥ ७२२॥ तस्मिन्नवसरे ' चन्द्रशेखरेण सुरेण सः । हरिणैगमेषी ' स्वर्गिप्रष्ठः पृष्टः' सकौतुकम् ॥ ७२३ ॥ विश्वविश्वेऽपि किं कापि कोऽप्यास्ते यो न लुब्धधीः । लुभ्यन्ति वा' यदीन्द्राद्या वार्ताप्यन्यस्य तर्हि का ? ॥ ७२४ ॥ अहो ! लोभस्य साम्राज्यमेकच्छत्रं जगत्त्रये । गृहदासीकृता येन देवेन्द्रा अपि हेलया ॥ ७२५ ॥ नैगमेषी बभाषेऽथ सत्यं भो ! भाषसे सखे ! । वसुन्धरायां नवरं नैवास्ते कार्यनस्तिता ॥ ७२६ ॥ संप्रत्यस्ति श्रेष्ठिसारवसुसारसुतः क्षितौ । अक्षोभ्यः खलु लोभेन रत्नसारकुमारराट् ॥ ७२७ ॥ अङ्गीकृतपरिग्रहपरिमाणवतः स हि । अकम्प्यस्त्रिदशैः सेन्ट्रैरप्यात्मनियमस्थितेः ।। ७२८ ॥ महालोभमहावारिपूरे दूरे प्रसृत्वरे । तृण्यंति । सर्वेऽप्यपरे स 'पुनः कृष्णचित्रकः ॥ ७२९ ॥ परहक्कां ' केसरीव । तस्य' वाक्यमसासहिः। शशाङ्कशेखरसुरस्त्वत्परीक्षार्थमाययौ ॥ ७३०॥ कीरं सपञ्जरं जहे । चक्रे नव्यां स सारिकाम् । विचक्रे नगरं शून्यं रक्षोरूपंच भीषणम् ॥ ७३१ ।। तेनैवाब्धौ चिक्षिपिषे शेषापि च विभीषिका । व्यधायि वसुधारत्न ! स चाहं चन्द्रशेखरः॥ ७३२ ॥ तदुत्तम ! क्षमस्वैतदखिलं खलचेष्टितम् । किञ्चिच्चादिश मे यस्मादमोघं देवदर्शनम् ।। ७३३ ॥ उज्जगार कुमारस्तं नास्ति किश्चित्मयोजनम् । मम' सर्वार्थसिद्धस्य 'सम्यश्रीधर्मयोगतः ।। ७३४ ॥ किन्तु त्वया युसद्वर्य ! कार्या नन्दीधादिषु । तीर्थेषु यात्राः सफलीस्यात्तवापि जनुर्यथा ॥ ७३५ ॥ आमेत्युक्त्वा कुमाराय दत्वा कीरं सपञ्जरम् । झटित्युत्पाख्य कनकपुर्या तं मुमुचे सुरः ॥ ७३६ ॥ तत्र धात्रीश्वरादीनां पुरः सुरवरः परम् । तस्य प्रकाश्य माहात्म्यं सद्यः 100 श्रीश्राद्धविधिप्रकरणम्

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134