Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
जल्पन्ति विना हेतुं न चौत्तमाः । हेतुव्यक्तिं यदि पुनर्जिज्ञासुस्तर्हि तां शृणु ॥ ५८३ ॥ अस्मिन्पुरे रत्नपुरे' पुरन्दर इवापरः । पराक्रममभुत्वाभ्यामभूद्भपः पुरन्दरः॥ ५८४ ॥ कश्चित्पॉटच्चरश्चैतन्नानावेषधरः 'पुरम् । मुमोष निःशेषमपि दुर्दैवमिव दुर्दमः॥५८५ ॥ विचित्राणि स्म खात्राणि 'दत्ते चित्तेप्सितानि। सः। आदत्ते स्म। धनैः पात्राण्यमात्राणि भूतान्याप ।। ५८६ ॥ तलारक्षादिकै रक्षाकरैरप्युत्कटै टैः। न कैश्चित्स्खलयांचक्रे 'सरित्पूर! इव द्रुमैः ॥ ५८७ ॥ दिनान्तरे नरेशस्य स्वास्थानीमंधितस्थुषः। प्रणम्य सम्यग् विज्ञप्तः पोरैश्चौरैकविप्लवः ॥ ५८८ ॥ रोषारुणेक्षणेनाथ क्षोणिनाथेन 'तत्क्षणात । आहानपूर्वमाक्षिप्त 'आख्यदारक्षकाग्रणीः ।। ५८९ ।। नास्मिन् व्याधाविवांसाध्ये सिध्यत्कापि प्रतिक्रिया । मया नापि मदीयेन नेतस्तेनोचितं कुरु ॥ ५९० ।। वर्यस्तेजस्विनां राजा'धुर्यथयशस्विनाम् । तमस्विन्यां स्वयं चौरमन्वैषीनश्चर्यया ॥ ५९१ ॥ काप्यन्यदा दत्तखात्रं 'सलोत्रं तं तमश्चये । भूपो व्यभावयत्कि वा नॉर्ममत्तैः प्रसाध्यते ॥ ५९२ ॥ तन्निर्णयाय तत्स्थानपरिज्ञानाय चान्वगात् । तं 'गुप्तत्तिर्नृपतिर्बकधूर्त्तस्तिमि यथा ॥ ५९३ ॥ धूर्तेन तेन स्तेनेन' कयश्चित्पार्थिवोऽनुगः । जवादवागामि देवेऽनुकूले वा न किं भवेत् ॥ ५९४ । प्रत्युत्पन्नमतिः स्तेनपतिस्तत्क्षणतस्ततः। राज्ञः किश्चिद्वञ्चयित्वा दृष्टिं धृष्टोऽविशन्मठम् ।। ५९५ ॥ तस्मिंश्च नाम्ना कुमुदस्तपः कुमुदचन्द्रमाः। मठे 'शठेतरप्रष्ठस्तिष्ठनास्ति' स्म तापसः ।।५९६॥ तस्मिस्तदानीं निद्राणे मठान्तः स शठाग्रणी । जीवोक्षतोत्रं लोखं तन्मुक्त्वांगार्दन्यतः कचित् ॥ ५९७ ॥ इतस्ततस्तमन्विष्यन् 'पार्थिवः पारिपंथिकम् | द्राक्' प्रविष्टो मठेऽद्राक्षीत्सलोपत्रं तत्र तापसम् ॥ ५९८ ॥ क्रुधोऽभ्यधाच वसुधाधिपतिः पतितापसम् । दाण्डाजिनक ! रे दुष्ट ! रे रे तस्कर ! मस्करिन् । ।। ५९९ ॥ स्तेयं विधाय रे संप्रत्येव सुप्तस्य कैतवात् । अलीकनिद्रां दधतो दीर्घनिद्रां ददामि ते ॥ ६०० ॥ भाषितैरिति भूभ वज्रपातैरिवोद्धतैः । भयोद्धान्तः स संभ्रान्तः प्रबुद्धोऽप्यभ्यधानाहि ॥ ६०१ ।। सुभटबन्धयित्वा च निष्कृपेण नपेण सः । प्रातर्वध्यतयादिष्टो धिगहो! निर्विचारता ॥ ६०२ ।। अविचार्य विना चौयमायो ! मार्योऽस्मि किं ? हहा ! । तस्येत्युक्तिस्तदा सत्याप्यंभूर्दधिकधिकृते ।। ६०३॥ यदा देवं विघटते तदा संघटते तुकः ? । एकाक्येव हि चन्द्रोऽपि ग्रस्यते पश्य राहुणा ।। ६०४॥ कृतान्तदुर्दान्तभटेरिव भूपभेटैस्ततः । विडंब्य विविधं मौण्ड्यरासमारोपणादिना॥६०५।। प्रोणितप्रतिकूलायां शूलायां सोऽध्यरोप्यत । अहो! प्राकृतदुष्कर्मविपाकः फोऽपि दारुणः॥ ६०६॥ युग्मम् ।। शान्तस्यापि तदा तस्य कोपः प्रादुर्रभूद् भृशम् । न किं तापितमत्युष्णं जलं स्यादपि शीतलम् ॥६०७॥ विपद्य सद्यः सोऽत्युग्रः समपद्यत राक्षसः। तथावस्थाविपनानां स्याद्गतिर्हि तथाविधा ॥६०८॥ तेन रुष्टेन दुष्टेन निकृष्टेन नृपः क्षणात् । एकोऽपि पश्चतां निन्ये ही राभस्यकृतेः फलम् ॥६०९।। पुरलोकोऽपि पुरतः सर्वोऽपि निरवास्यत । अविमृश्य कृते राज्ञा पीड्यन्ते हि प्रजा अपि ॥६१०॥ योऽद्याप्यन्तःपुरं याति तं निहन्ति स तत्क्षणात् । परं विषहते हन्त को वान्तःपुरचारिणम् ॥६११॥ अनेन हेतुना वीर ! वारयामि पुरान्तरा। इव कीनाशवक्त्रान्तस्त्वां विशन्तं हितैषिणी ।।६१२।। कुमारः'शारिकामात्रवाक्चातुर्यहितोक्तिभिः। श्रुत्वेति विस्मयं भेजे तद्भयं न 'पुनर्मनाक् ॥६१३ ।। नैव कौतुकिना भाव्यं भीरुणा नालसेन च । प्रत्युतेत्युत्कतां पाप प्रवेष्टुं तत्पुरं तदा॥६१४॥ रक्षःपराक्रमप्रेक्षाकौतुकार्दकुतोभयः। रणोर्वीमिव वीरः श्राक्स प्राविक्षत्ततः पुरम् ॥ ६१५ ॥ तत्र 'कुत्रापि मलयाचलवच्चान्दनोच्चयान् । स्वर्णाधमात्रमित्राणि भृङ्गाङ्गस्वटुंवत्कचित् ॥६१६।। कापि कर्पूरशाल्यादिसस्यराशीन् । खलेष्विव । पूगाधंगण्यपण्यानि कापि सार्थस्थितिष्विव ॥ ६१७ । खाद्यापणगणं कापि सरोवत्परमोदकम् । कचिद् दौष्यिकहट्टौघं शशिव विशदांशुकम् ॥ ६१८ ॥ निधिवद् घनसाराढ्यान् । कचित्सौरभिकीटकान् । हिमाद्रिवद् गान्धिकाट्टान्' कचिच्च विविधौषधीन् ॥ ६१९ ॥ बुद्धिहट्टान भावशून्यान् काप्यभव्याङ्गिपुण्यवत् । सुवर्णैः शास्त्रवत्पूर्णान् ' कापि सौवर्णिकापणान् ॥ ६२०॥ कचनानन्तमुक्ताढ्यान् 'मुक्तिवन्मौक्तिकापणान् । वनवद्विद्रुमैः पूर्णान् कचिद्वैदुमिकापणान् ॥ ६२१ ॥ रत्नाद्रिवन्मणिवणिविपणीः'सुमणीः कचित् । देवताधिष्ठितान् द्योवत् कुत्रचित्कुत्रिकपिणान्। ॥ ६२२ ॥ सर्वत्रापि तु शून्यत्वं सुप्तप्रमत्तचित्तवत् । सश्रीकतां च श्रीकान्तवत्योच्चैः सर्वतोमुखम् ।। ६२३ ॥ प्रेक्षावान् प्रेक्षमाणोऽसौ सर्वरत्नमयं क्रमात । जगाम क्ष्मापतेर्धाम विमानमिव नाकिराट् ॥ ६२४ ॥ नवभिः कुलकम् ।। गजशाला-वाजिशाला-शस्त्रशालादिकाः क्रमात् । उल्लवयंश्चन्द्रशालामलंचक्रे स चक्रिवत् ।। ६२५ ॥ प्रेक्षाश्चक्रे'च तत्रैकं स शक्रशयनीयवत् । शयनीयमनणीयः कमनीयमणीमयम् ।। ६२६ ॥ प्रीतेः शेते स्म तत्रैष निर्रनिर्भरनिद्रया । श्रमापनुत्त्यै स्वावास इव वासवसाहसः ।। ६२७ ॥ क्रुद्धः प्रेक्ष्य मनुष्यांघिप्रचार स निशाचरः। तत्रांथांगान्महाव्याध इव पश्चास्यपृष्ठगः ॥ ६२८ ।। सुखसुप्तं च तं दृष्ट्राऽध्यासीघझ्यातुमयलम् । नन्यिस्तल्लीलयाप्येषोऽकादिहह ! धृष्टता ।। ६२९ ॥ तदेन केन मारेण मारयामि स्ववैरिणम् । नखैरेव फलनोटं बोटवाय॑स्य किं शिरः॥६३०॥ गदया यदि वा सद्यश्चूर्णपे पिनष्म्यमुम् । छिनधि चिर्भटच्छेदं किं वा क्षुरिकया रयात् ॥ ६३१ ॥ ज्वलन्नेत्राग्निना रुद्रः स्मरंदाहं दहामि वा । आकाशे कन्दुकोल्लालमुञ्चरुल्लालयामि वा ।। ६३२ ॥ मध्येऽन्त्यसिन्धु सौधस्थमेवोत्पाट्य क्षिपामि वा । सुप्तमेव गिलाम्येनं यद्वांजगरलीलया ॥ ६३३ ।। यद्वात्रागत्य मुप्तः सन् ही! हन्येत कथं मया ? । गृहे गौरवमेवाहमोगतस्य रिपोरपि ।। ६३४ ॥ यतः-आगतस्य निजगहम
98
श्रीश्राद्धविधिप्रकरणम

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134