Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
चैषा तु ताशी । वयोवर्षानुमानात्स्याद्वालेयं जातु मे सुता ॥ ४४० ॥ प्रमूर्रियं तु नैव स्यादिमां पृच्छामि चेति सा | पृष्टा स्पष्टर्मभाविष्ट भोः कस्त्वामुपलक्षयेत् ।। ४४१ ॥ पशुवाचा विभ्रमे किं पतितोऽसि मुधा बुध !। तयेत्युक्तोऽपि साशंकचित्तः श्रीदत्त उत्थितः ॥ ४४२॥ न युक्तनिशंकायां प्रवृत्तिः सुधियां कचिद । विशत्यनिश्चितस्ताघे'श्रेयस्कामः किमभासि ॥१४३|| इतस्ततः सबंभ्रम्यन्मुनिमेकमवैक्षत । नत्वेममृचे कपिना पातितोऽस्मि भ्रमोदधौ ॥ ४४४ ॥ ज्ञानेनाद्धर'मा स्वामिन्मुनींद्रोऽप्याह 'मद्गुरुः । केवली देशमध्येऽस्ति भानुवद्भुवि बोधकृत् ॥ ४४५ ॥ जानन जानेऽवधिनाऽधुनाहमपि वच्मि च । यथा भोः! कपिना प्रोचे तत्तथैवाप्तवाक्यवत् ॥ ४४६॥ कथमित्यमिति प्रोक्तेऽमुना मुनिवरोऽप्यवक् । आकर्णय संकर्ण! माक पुत्र्या व्यतिकरं ब्रुवे ॥४४७ ॥ त्वपिता स्वप्रियाहेतोः प्रच्छनं प्रस्थितस्तदा । समरं समरक्रूरं पल्लीपतिमुपास्थितः ॥ ४४८ ।। ईगेवोचितोऽत्रेति तस्य । तव्य दानतः । अचीचलन्महासैन्यं श्रीमंदिरपुरं प्रति ॥ ४४९ ॥ तस्माद्वारिवोद्वेलाः' प्रबलास्तत्पुरप्रजाः । भीताः। स्थानं शिवं गंतुमीघुर्भव्या भवादिव ॥ ४५० ।। तदा त्वद्दयिता गंगातीरे सिंहपुरे पुरे । सुतायुता पितुर्वेश्म' सुमुखी जग्मुषी जवात् ।। ४५१ ॥ तत्रैषा बहुवर्षाणि तस्थौ स्वभ्रातृसंनिधौ । स्त्रीणां पत्यायोगे हि पिता भ्रातैव वा गतिः॥ ४५२ ॥ मासे कदाचिदापाढे विषागादेन सा सुता । अदंशि दंदशूकेन धिग दुष्कर्म दुरात्मताम् ॥ ४५३|| निश्चैतन्याथ सा कन्या जनन्यायैर्विधापितैः। प्रापोपचारैश्चैतन्यं न वंध्येव स्तनंधयम् ॥ ४५४ ॥ सहसा वहिसात्क महिग्रस्तं हि नाइति । आयुर्दाादिसंयोगे प्रोज्जीवत्यपि जातचित् ॥ ४५५ ॥ इ.
१ अनिश्चितगांभीर्य । * हे निद्वन् ! । त्यंतमंजुमंजूषं क्षिप्त्वा' निबदलै ताम् । ते त्यक्तरंगा गंगाया: प्रवाहे 'तामवाहयत् ।। ४५६ ॥ तदाबुदमहादृष्ट्या गंगा पूरमुपेयुपी। दुर्नीतिरिव तीरद्र न् स्वाश्रितान् द्रागुपाद्रवत् ॥ ४५७॥ तेन पूरेण दरेण प्रेरिता वायुनेव नौः। मापुषी मंजुमंजुषा साब्धौ लब्धा ततस्त्वया ॥ ४५८ ।। पुरः सर्वे स्वयं वेत्ति सेयं पुत्री भवेत्तव । अथो मातुब्रुवे वृत्तं चित्तं कृत्वा स्थिरं श्रण ।। ४५९ ॥ तस्मात्पल्लीपतेः सैन्यावादिव 'सुदुस्सहात । निस्तेजाः सूरकांतोऽभूद्युक्तमभ्यर्णमीयूषः ॥४६०॥ सज्जीचकार पाकारं सोऽनुकारं गिरेस्ततः । पुरीं च पूरयामास' तृण्याधान्येन्धनादिभिः ।। ४६१।। मध्येदुर्ग दुर्दर्षान्यधाधोधानुदायुधान् । योऽभ्येत्य योध्धुमनलं बलं तस्येहगेव हि ॥४६२।। सेर्नाथपल्लिनाथस्याप्यक्रमेण प्रचक्रमे । कियदेतिकया भत्तं दर्ग दुष्कर्मवन्मुनिः ।। ४६३ ।। तत्सैन्याश्च'तदा दुर्गोपरिस्थसुभटांशुगान् । नाजीगणंस्तृणायापि द्विपा मत्ता' इवांकुशान् ॥४६४॥ तेऽथ प्रतोली घणैर्भक्त्वा' शीर्णामिव 'क्षणात् । प्राविक्षस्तत्पुरांताक् सरित्पूरानुकारिणः ॥ ४६५ ॥ पुरः पुरं विशन्' सोमः कांतोत्कस्ते पिता तदा । ललाटलग्नबाणाः सद्य एव व्यपद्यत ॥४६६।। अन्यथा चिंत्यते कार्य दैवेन क्रियतेऽन्यथा । मियाकृते हि प्रारंभः स्वात्मघातकृतेऽभवत् ॥ ४६७ ॥ आह च कथासंग्राहक गाथा कृत् । “ अन्नं गयस्स हिअए, अन्नं वाहस्स अन्नमुरगस्स । अन्नं सियालहिअए अन्नं हिअए कयंतस्स ॥४६८॥" आत्यंतिकभयभ्रांतस्वांतः कांतः क्षितस्ततः । सरकांतः पणस्योगात्कुतो 'वा पापिनां जयः ॥ ४६९ ।। सोमश्रीश्च 'तदा'कंमा त्रस्यंतीव कुरंगिका । द्राक् पल्लिाभिल्लैर्जगृहे दुष्टैर्गोष्टशुनैरिव ॥ ४७० ॥ विलुंख्य नगरं स्वैरं स्वस्थानं प्रतिगच्छताम् । तेषां पात्मनष्टा सा कथंचिदैवयोगतः ॥ ४७१॥ तयारण्ये
। तृण्या तृणसमूहः । २ पता कियत् किमात्रम् इति बुध्या । ३ आशुगान् बाणान् । ४ दुघणैः मुद्गरैः । भ्रमंत्या चांभक्षि' किंचित्तरोः फलम् । इस्वांगी ' तदभूत्किंचिद् गौरांगी च विशिष्य सा ॥ ४७२ ॥ कोऽप्यचित्यो मणिमंत्रौषधीनां महिाथ सा । वणिभिरध्वगैः कैश्चिद् दृष्टा पृष्टा च विस्मितैः ॥ ४७३ ॥ का त्वं देवांगना नागांगना वा वनदेवता । स्थलदेव्यंबुदेवी' वा मानवी तुन सर्वथा ॥४७४ ॥ जगाद गद्गद सापि कापि नैवास्मि देवता । मां । मानवीमेव विदाकुर्वत्वेतां । विदांवराः ! ॥ ४७५॥ दुःखकूपानुपातोऽस्माद्रपादेवाभिरूपतः । ममाभवद्विधौ ऋद्ध दोषायैव गुणोऽपि हि ।। ४७६ ॥ मुखं 'नः संनिधौ तिष्ठेत्युदित्वा मुदितास्ततः । तेऽप्यगोपायिषुर्गुप्तं तां रत्नमिव' यत्नतः ॥ ४७७ ।। तां तादृक्षगुणाक्रांतां' कांता कर्तुमथैषिषुः । प्रत्येकमपि ते भक्ष्यं प्रेक्ष्य को न बुभुक्षते ॥४७८॥ प्राप्ताः सुवर्णकुलेऽस्मिंस्ते क्रमात्सदुपक्रमात् । नानावस्तून्योददिरे तदर्थ हि तदागमः ॥ ४७९ ॥ समर्षीभूतमधिकं तदा त्वेकं क्रयाणकम् । तेऽजिक्षत साक्षेपं वणिग्रीतिरियं खलु ॥४८०॥माच्यपुण्यविद् भोग्यफलभोगेन निष्ठिता। नैवास्ति नीवि प्राग्वस्त्वादानेनोपंतदं तदा ॥४८१।। तद्व्यकीणंत तेप्येतां वेश्यास्थाने धनेच्छया । लोभ एवोद्भटः पुंसां विशिष्य बणिजां पुनः ॥४८२।। वेश्या'विभ्रमवत्याख्या द्रव्यलक्षार्पणान्मुदा।स्वीचक्रे तां च तज्जातर्युवतिः किल कामधुक्॥४८३॥ तस्याः सुवर्णरेखेति नव्याख्याख्याप्यतांनया । गृहांतरगतौ प्रायः स्त्रीणां नामांतरं भवेत् ।। ४८४ ॥ शिक्षादक्षा च साक्षेपं शिक्षयामास तामसौ । गीतनृत्यादिनैपुण्यं पण्यं पण्यमृगीदृशाम् ।। ४८५। क्रमादोजन्मवेश्येव सापि तद्धर्ममीयुषी । वारि संपृच्यते येन तेन तन्मयतां श्रयेत् ॥ ४८६ ॥ धिधिकुसंगतिं सापि ययोन्येव बभूवुषी । तद्भवेऽपि भवेयुर्वा' दुर्दैवादरयो भवाः ॥ ४८७ ॥ क्षोणीशं
१ तदा इत्यव्ययस्याव्ययीमावसमासे उपतदम् ।
20
श्रीश्राद्धविधिप्रकरणम

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134