Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 76
________________ भवो, नहि' रङ्कश्चक्रित्वाद्युच्चैरभिलषन् अपि कदाप्यांमोति । भोजनाच्छादनादि तु मानोत्यपि । तदवादिष्म – स्वानुमित्या मितीकुर्यादिच्छामिच्छाफलार्थिकः । लोकेऽपि लभ्येत मितं, मार्गितं नामितं कचित् ॥ १ ॥ " ततः स्वभाग्याद्यनुसारेणैवेच्छां कुर्यादधिकाधिकेच्छायां तु तदलाभात्तदर्थ्यातिदुःखितैव स्यात् । कोटीपूरणार्थबहुक्लेशसासहिनवनवतिटंकलक्षाधिपधनश्रेष्ध्यादिवत् । आख्यातं च – “ आकांक्षितानि जन्तूनां संपद्यन्ते यथा यथा । तथा तथा विशेषासौ, मनो भवति दुःखितम् ॥ १ ॥ आशादासस्तु यो जातो, दासस्त्रिभुवनस्य सः । आशा दासीकृता येन तस्य दास्ये जगत्त्रयी ॥ २ ॥ " गृहस्थेन चान्योन्याप्रतिबन्धेन त्रिवर्गोऽपि साध्यः । यतः - " धम्मो अध्यो कामो, पुरिसत्था वन्निया तओ लोए । तिन्हंपि जहावसरं, सेवा संसिज्जइ बुहेहिं ।। १ ।। तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदां । न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्मकामातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् । अर्थकार्मातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानां । न च धर्मबाधयार्थकामौ सेवेत, यतो बीजभोजिनः कुटुंबिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणं । उक्तं च सोमनीताबपि, – “ स खलु सुखी योऽमुत्रमुखांविरोधेनेहलोकसुखमनुभवतीति । ” एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वं, कामबाधया धर्मार्थौ सेव मानस्य गार्हस्थ्यसुखाद्यभावः स्यात् । एवं च तादोत्विक - मूलेहर- कैदर्येषु धर्मार्थकामानामन्योन्यबाधा सुळभैव । तथाहियः किमप्यसंचिन्त्योत्पन्नमर्थमपव्येति स तादात्विकः १ । यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः २ । यो भृत्यात्मपीडाभ्यामर्थं सश्चिनोति न च कचिदपि व्ययते स कदर्यः ३ । तत्र तादात्विकमळहरयोरर्थभ्रंशेन धर्मकामयोर्विनाशन्नस् कल्याणं । कदर्यस्य त्वर्थसंग्रहो राजदायादभूमितस्करादीनां निधिर्नतु धर्मकामयोर्हेतुः । यतः, – “ दायादाः स्पृहयन्ति तस्क रगणा मुष्णन्ति भूमी जो, गृह्णन्ति च्छलमाकलय्य हुतभुग् भस्मीकरोति क्षणात् । अम्भः ठावयते क्षितौ विनिहितं यक्षा हरन्ते हठात् दुर्वृत्तास्तनया नयन्ति निधनं धिग् बरुधीनं घनम् ॥ १ ॥ मृत्युः शरीरगोप्तारं, रक्षितारं धनं घरा । दुश्चारिणीव हसति, स्वपतिं पुत्रवत्सलम् || २ || कीटिकासश्चितं धान्यं, मक्षिकासञ्चितं मधु । कृपणोपार्जिता लक्ष्मीः । परैरेवोपभुज्यते ।। ३ ।। ” अतस्त्रिवर्गस्य बाधा गृहस्थस्य कर्त्तुर्मनुचिता, यदा तु दैववशाद्भवति, तदोत्तरोत्तरबाधायां पूर्वपूर्ववाधा रक्षणीया । तत्र कामबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात् । कामार्थयोर्वाधायां धर्मो रक्षणीयो धर्ममूलत्वादर्थकामयोः । उक्तं च - " धर्मश्चेन्नावसीदेत, कपालेनापि जीवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ १ ॥ त्रिवर्गसंसाधनमन्तरेण, पशोरिवायुर्विफलं नरस्य । तत्रापि धर्मं प्रवरं वदन्ति, न तं विना यद्भवतोऽर्थकामौ ॥ १ ॥ " आयोचितश्च व्ययः । यन्नीतिशास्त्रम् – “ पादमायान्निधिं कुर्यात्पादं वित्ताय कल्पयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ १ ॥ ” केचित्त्वाहुः–“ आयादर्द्ध नियुञ्जीत, धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥ १ ॥ " निर्द्रव्यसद्रव्ययोरयं विभाग इत्यप्येके । तथा – “ जीअं कस्स न इट्ठ, कस्स व लच्छी न वल्लहा होइ । अवसरपत्ताई पुणो दुन्नवि तणयाउ लहुअंति ॥ १ ॥ यशस्करे 'कर्मणि' मित्रसंङ्ग्रहे, मियासु नारीष्वंधनेषु बन्धुषु । धैर्मे 'विवाहे व्यसने रिपुक्षये, धनव्ययोऽष्टासु न गण्यते बुधैः ॥ २ ॥ यः काकणीमप्यपथप्रपन्नामन्वेषते निष्कसहस्रतुल्याम् । काले च कोटिष्वपि मुक्तहस्त॑स्त॒स्यानुबन्धं न जहाति लक्ष्मीः ॥ ३ ॥ यथा कस्यापीभ्यस्य नव्या स्नुषा श्वशुरं दीपोत्पतिततैलच्छटया उपानहर्मभ्यञ्जन्तं वीक्ष्य किमिदमंतिकार्पण्यमुतातिवैविक्त्यमिति सन्दिहाना परीक्षार्थं मे शीर्ष दुष्यात ' इति मिषासुप्ता भृशं क्रन्दति । श्वशुरेण बहुप्रतिकारकरणे तयोक्तं, “ मम प्रागप्यन्तरान्तरा एवं मान्द्यं स्याद् गुणस्तु जात्यमुक्ताफलचूर्णलेपेनैव स्यात् ” । तदा श्वशुरो हृष्टः तांन्यानीय यावद्वर्त्तयति, तावत्तया सम्यक् स्वरूपमुक्तं । धर्म्ये व्ययश्च श्रीवशीकरणं तेनैव तस्याः स्थिरीभावात् । भाष्यतेऽपि – “ मा मंस्थाः क्षीयते वित्तं, दीयमानं कदाचन । कृपारामगवादीनां ददतामेव संपदः ।। १ ।। " यथाहि - विद्यापति श्रेष्ठी ' बहुसमृद्धो दशमदिने यास्यामीति स्वप्नान्तर्लक्ष्म्योक्तः कान्तागिरा तान एव सर्व धनं सप्तक्षेत्रादौ व्यय्य कृतपरिग्रहमानः सुखं सुप्तः प्रातर्गृहं प्राग्वत् पूर्ण दृष्ट्वा पुनः सर्वं व्ययति स्म । एवं नवदिनी गता, दशमदिने ' त्वत्पुण्यैरहं सुस्थिरीभूता ' इति लक्ष्म्योक्ते व्रतभङ्गभिया पुरं त्यक्त्वा बहिःस्थोऽपुत्रनृपमृतेरधिवासितगजेनाभिषिक्तो दिव्यगिरा जिनं राजानं कृत्वा राज्यं निर्वाह्य पञ्चमभवे सिद्धः । एवञ्चार्थोपार्जनमशङ्कनीयत्वप्रशंसनीयत्वहान्यविष्यत्वंसुखसमाधिदृद्धिहेतुत्वपुण्यकार्योपयोगित्वादिंनेइलोकपरलोकहितं । पठितञ्च – “ सर्वत्र शुचयो धीराः, स्वकर्मवलगर्विताः । कुकर्मनिहतात्मानः, पापाः सर्वत्र शङ्किताः ॥ १ ॥ " अत्र ज्ञातम् । यथा - देव - यशोनामानौ द्वौ वणिजौ मिथः प्रीत्या सह व्यवहरन्तौ कापि पुरे मार्गे मणिकुण्डलं पतितं ददृशतुः । आद्यः सुश्रावकत्वात् दृढव्रतः परद्रव्यं सर्वथानर्थभूतं मन्वाः ? पश्चादेव निवृत्तः । द्वितीयोऽपि सह निवृत्तः परं न पतितग्रहणेऽधिकदोषः इति ध्यात्वा वृद्धस्य दृष्टिं वञ्चयित्वा तज्जगृहे । दध्यौ च, “ धन्योऽयं यस्येदृशी निःस्पृहता । परं मित्रत्वात्संविभागिनं करिष्याम्येनं सुयुक्त्या ” इति । तद् गुप्तीकृत्यान्यत्र पुरे गत्वा तेन कुण्डलेन प्रभूतभाण्डमाददे । क्रमात्स्वस्थानमागतौ तौ । आनीतभाण्डविभजनेऽतिप्रभूतं भाण्डं दृष्ट्वा देवेन निर्व 44 श्रीश्राद्धविधिप्रकरणम 75

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134