Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 561
________________ 1 २४९एकोनपञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । अथैकोनपञ्चाशदधिकद्विशततमोऽध्यायः । १७८३ वसिष्ठ उवाच (लोमश उवाच ) - २ ८ अत्र ते कथयिष्यामि इतिहासं पुरातनम् । पुरा कृतयुगे राजन्दे (विन दे ) शे मालवसंज्ञके ॥ १ अवन्तिविषये राजा वीरसेनोऽभवत्पुरा । नर्मदातीरमाश्रित्य राजसूयं चकार सः ॥ पोडशैरश्वमेधैश्च स्वर्णवेदिविराजितैः । स्वर्णभूषणयूपाट्यै रेजे सोऽपि यथाविधि । प्रददौ धनराशींश्च द्विजेभ्यः पर्वतोपमान् । [वदान्यो देवताभक्तो गोपदश्च सुवर्णदः ॥ ब्राह्मणो भद्रको नाम मूर्खो हीनकुलस्तथा ] | कृषीवलो दुराचारः सर्वधर्मवहिष्कृतः ॥ सीरकर्मसमुद्विग्नो बन्धुभिश्च समुज्झितः । इतस्ततः परिभ्रम्य निर्गतो वृत्तिपीडितः ।। दैवतः सार्थवाहश्च प्रयागं स समागतः । महामाघीं पुरस्कृत्य सस्त्रौ तत्र दिनत्रयम् ॥ अनघः स्नानमात्रेण भूत्वा हि स द्विजोत्तमः । प्रयागाच्चलितस्तत्र पुनर्यस्मात्समागतः ॥ स राजा सोऽपि विप्रश्च विपन्नावेकदा तदा । तयोर्गतिं समां दृष्ट्वा मया शक्रस्य संनिधौ ॥ ९ तेजो रूपं बलं सैन्यं देवयानं विभूषणम् । कल्पद्रुमञ्जरीमालागीतनृत्यं समं तयोः ॥ इति दृष्ट्वा हि माहात्म्यं क्षेत्रस्य कथमु ( च मयो) च्यते । माघः सितासिते विप्र राजसूयसमो भवेत् धनुत्रिंशत्सुविस्तीर्णे सितनीलाम्बुसंगमे । माघी न पुनरावृत्ती राजसूयी पुनः पतेत् ॥ १२ माघमासे यदा कोऽपि सितासितजलं स्पृशेत् । स धन्यो यः स्पृशेत्तं तु महापातकहा हि सः ॥ किमत्र बहुनोक्तेन श्रूयतां द्विज निश्चितम् । समुद्भूतफलं पापं तीर्थे माघः प्रणाशयेत् ॥ अत्र ते कथयिष्यामि सावधानमतिः शृणु । पिशाचमोक्षणं नाम इतिहासं पुरातनम् || शृण्वन्त्वप्सरसो बालाः शृणोतु त्वत्सुतस्तथा । मत्प्रसादात्स्मृतिर्लब्धा पैशाच्यान्मुक्तिकामिनः पुरा देवयुतिर्विवैष्णवो वेदपारगः । पिशाचं मोक्षयामास करुणाद्भुतमानसः ॥ १० १४ १५ वेदनिधिरुवाच कुत्र स्थितः कस्य पुत्रो नियमः कोऽस्य चाभवत् । केन वा वैष्णवी वृत्तिः कः पिशाचश्च मोक्षितः एतद्विस्तरतः सर्व कीर्तय त्वं महामुने । कौतूहलं महापुण्यं श्रोतुं मे त्वत्प्रसादतः ॥ लोमश उवाच — १९ लक्षमस्रवणेऽरण्ये सरस्वत्या विनिर्गमे । तत्राऽऽश्रमपदं तस्य शैलमाश्रित्य शोभते ॥ शालैस्तालैस्तमालैश्च विल्वैर्य कुलपाटलैः । चिश्चिणीचारुविल्वैश्च चूतचम्पककाननैः ॥ करजैः कोविदारैश्च केशरैः कुंजराशनैः । तिलकैः कर्णिकारैश्च कुम्भीखदिरतिन्दुकैः ॥ वानीरैः : शेलुजम्बीरैः पीलुदुम्बरवेतसः । साक्षोटैरटरूपैश्च क्षीरिकाकरमर्दकैः ॥ वीजपूरैः सनारङ्गै रम्भाराजिविराजितैः । पनसै रसवद्भिश्व नालिकेरैः सदाफलैः ॥ सप्तच्छदैखिपणैश्च शिरीपामलकः शुभैः । कर्कन्धूलकुचैरक्षैः पारिभदैर्वचादिभिः ।। केतकैः सिन्धुवारैश्व तगरैः कुन्दमल्लकैः । पद्मेन्दीवरकहारैर्मालती यूथिकादिभिः ॥ + मालतीमो गरैश्चैव जातीफलविराजितैः । पुंनागैः किंशुकैश्चैव ववरीतुलसीदुमैः ] ॥ * धनुश्चिद्वान्तर्गतः पाठः क. ख. च. छ. ज. झ. र. ल. पुस्तकस्थ: । + अयं श्लोको र. ल. पुस्तकस्थोऽशुद्धश्च । १ ख छ र ल णं । ४ १७ २० २१ ૩ २३ २४ २५ २६ २७

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697