Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 635
________________ २६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १८५७ विधिवत्पूजयामास पाद्यार्थ्याचमनादिभिः। तेन संपूजितस्तत्र जामदग्निर्म(ग्न्यो म)हातपाः१७८ तपस्तप्तुं ययौ रम्यं नरनारायणाश्रमम् । राजा दशरथः सोऽथ पुत्रैर्दारसमन्वितैः ॥ १७९ स्वां पुरी सुमुहूर्तेन प्रविवेश महाबलः । राघवो लक्ष्मणश्चैव शत्रुघ्नो भरतस्तथा ॥ १८० स्वान्स्वान्दारानुपागम्य रेमिरे हृष्टमानसाः । तत्र द्वादश वर्षाणि सीतया सह राघवः ॥ १८१ रमयामास धर्मात्मा नारायण इव श्रिया । तस्मिन्नेव तु राजाऽथ काले दशरथः सुतम् ॥१८२ [*ज्येष्ठं राज्येन संयोक्तुमैच्छत्पीत्या महीपतिः। तस्य भायोऽथ कैकयी पुरा दत्तवरा प्रिया ।। अयाचत नृपश्रेष्ठं भरतस्याभिषेचनम् । विवासनं च रामस्य वत्सराणि चतुर्दश ॥ १८४ स राजा सत्यवचनाद्रामं राज्यादथो सुतम्] । विवासयामास तदा दुःखेन हतचेतनः ॥ १८५ शक्तोऽपि राघवस्तस्मिन्राज्यं संत्यज्य धर्मतः । दशग्रीववधार्थाय पितुर्वचनहेतुना ॥ १८६ वनं जगाम काकुत्स्थो लक्ष्मणेन च सीतया । राजा पुत्रवियोगात्तु शोकेन च ममार सः॥१८७ नियुज्यमानो भरतस्तस्मिन्राज्ये स मत्रिभिः। नैच्छद्राज्यं स धर्मात्मा सौभ्रात्रमनुदर्शयन् १८८ वनमागम्य काकुत्स्थमयाचद्भातरं ततः । रामस्तु पितुरादेशाग्नच्छद्राज्यमरिंदमः॥ १८९ स्वपादुके ददौ तस्मै भक्त्या सोऽप्यग्रहीत्तथा । रामस्य पादुके राज्यमवाप्य भरतः शुभे॥१९० प्रत्यहं गन्धपुष्पैश्चापूजयत्कैकयीसुतः । तपश्चरणयुक्तेन तस्मिंस्तस्थौ नृपोत्तमः॥ १९१ यावदागमनं तस्य राघवस्य महात्मनः । तावद्वतपराः सर्वे बभूवुः पुरवासिनः ॥ १९२ राघवश्चित्रकूटाद्रौ भारद्वाजाश्रमे शुभे । रमयामास वैदेह्या मन्दाकिन्या जले शुभे ॥ १९३ कदाचिदके वैदेह्याः शेते रामो महामनाः । ऐन्द्रः काकः समागम्य तस्मिन्नेव चचार ह॥ १९४ स दृष्ट्वा जानकी तत्र कंदर्पशरपीडितः । विददार नखैस्तीक्ष्णैः पीनोन्नतपयोधरम् ॥ १९५ तं दृष्ट्वा वायसं रामः कुशं जग्राह पाणिना । ब्रह्मणोऽस्त्रेण संयोज्य चिक्षेप धरणीधरः ॥ १९६ तत्तृणं घोरसंकाशं ज्वालारचितविग्रहम् । दृष्ट्वा काकः स दुद्राव विमुञ्चन्कातरं स्वरम् ॥ १९७ तत्काकं प्रत्यनुययौ रामस्यास्त्रं सुदारुणम् । वायसस्त्रिषु लोकेषु बभ्राम भयपीडितः॥ १९८ यत्र यत्र ययौ काकः शरणार्थी स वा(विहा)यसः (सा)। तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् ब्रह्माणमिन्द्रं वह्निं च यमं वरुणमेव च । शरणार्थी जगामाऽऽशु वायसः श(सोऽ)स्वपीडितः २०० तं दृष्ट्वा वायसं सर्वे रुद्राद्या देवदानवाः । न शक्ताः स्म वयं त्रातुमिति प्राहुर्मनीषिणः॥ अथ प्रोवाच भगवान्ब्रह्मा त्रिभुवनेश्वरः॥ २०१ ब्रह्मोवाचभो भो वलिभुजां श्रेष्ठ तमेव शरणं बज । स एव रक्षकः श्रीमान्सर्वेषां करुणानिधिः ॥ २०२ रक्षत्येव क्षमासारो वत्सलः शरणागतान् । ईश्वरः सर्वभूतानां सौशील्यादिगुणान्वितः ॥ २०३ रक्षिता जीवलोकस्य पिता माता सखा सुहृत् । शरणं व्रज देवेशं नान्यत्रास्त्यरणं द्विज।। २०४ महादेव उवाचइत्युकस्तेन वलिभुग्ब्रह्मणा रघुनन्दनम् । उपेत्य सहसा भूमो निपपात भयातुरः॥ २०५ * धनुश्चिहान्तर्गतः पाठः क. च. ज. झ. फ. पुस्तकस्थः । १ झ. महताऽऽवृतः । १ क. च. ज. झ. फ. इ. गार्तः शो। ३ ङ. हं गजात्रश्चा'। ४ ङ. या सह । ५ क. ख. च. ज. झ. द. रुदं। २२३

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697