Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 647
________________ २७१ एफसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १८६९ राम उवाचद्वापरे सपनुमाप्ते यदूनामन्वये पुनः । भूभारस्य विनाशाय समुत्पत्स्याम्यहं भुवि ।। करिष्ये तत्र सङ्कामं त्वया च पुरुषर्षभ । महेश्वर उवाचतमेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् । उवाच वाचा गच्छध्वमिति रामो महाबलः॥६८ मत्रिणो नैगमाश्चैव भरतः कैकयीसुतः । राघवस्यानुगमने निश्चितास्ते समाययुः॥ ६९ ततः शुक्लाम्बरधरो ब्रह्मचारी ययौ परम् । कुशान्गृहीत्वा पाणिभ्यामशक्तः प्रययौ परम् ॥ ७० रामस्य दक्षिणे पार्चे पद्महस्ता रमाऽऽगता । तथैव धरणी देवी दक्षिणे निरगात्तदा ॥ ७१ वेदाः साङ्गाः पुराणानि सेतिहासानि सर्वतः। ओंकारोऽथ वषट्कारः सावित्री लोकपावनी७२ अस्त्रशस्त्राणि च तदा धनुरादीनि पार्वति । अनुजग्मुस्तथा रामं सर्वे पुरुषविग्रहाः॥ ७३ भरतश्चैव शत्रुघ्नः सर्वे पुरनिवासिनः। सपुत्रदाराः काकुत्स्थ[*मनुजग्मुः सहानुगाः॥ ७४ मत्रिणो भृत्यवर्गाश्च किंकरा नैगमास्तथा । वानराश्चैव ऋक्षाश्च सुग्रीवसहितास्तदा ॥ ७५ सपुत्रदाराः काकुत्स्थ]मन्वगच्छन्महामतिम् । पशवः पक्षिणश्चैव सर्वे स्थावरजङ्गमाः॥ ७६ अनुजग्मुर्महात्मानं समीपस्था नरोत्तमाः। ये च पश्यन्ति काकुत्स्थं स्वर्गायानुगतं प्रभुम् ॥ ७७ ते तथाऽनुगता रामं न्यवर्तन्त न केचन । अथ त्रियोजनं गत्वा नदी पश्चान्मुखीं स्थिताम् ॥७८ शरयूं पुण्यसलिलां प्रविवेश सहानुगः । ततः पितामहो ब्रह्मा सर्वदेवगणावृतः॥ तुष्टाव रघुशार्दूलमृषिभिः सार्धमक्षरैः । अब्रवीत्तत्र काकुत्स्थं प्रविष्टं शरयूजलम् ॥ ८० ब्रह्मोवाचआगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि मानद ।भ्रातृभिः सह देवाभैः प्रविशख निजां तनुम् वैष्णवीं तां महातेजा देवाकारां सनातनीम् । त्वं हि लोकगतिर्देव न त्वां केचित्तु जानते ॥८२ त्वामचिन्त्यं महात्मानमक्षरं सर्वसंग्रहम् । यामिच्छसि महातेजास्तां तनुं प्रविशव भोः ॥ ८३ महेश्वर उवाचतस्मिन्सूर्यकराकीर्णे पुष्पवृष्टिनिपातिते । उत्सृज्य मानुषं रूपं खां तनुं प्रविवेश ह ॥ अंशाभ्यां शङ्खचक्राभ्यां शत्रुघ्नभरतावुभौ । प्रपेदाते महात्मानौ दिव्यतेजःसमन्वितौ ॥ ८५ शङ्खचक्रगदाशापद्महस्तश्चतुर्भुजः। दिव्याभरणसंपन्नो दिव्यगन्धानुलेपनः॥ दिव्यपीताम्बरधरः पद्मपत्रनिभेक्षणः । युवाकुमारः सौम्याङ्गः कोमलावयबोज्ज्वलः॥ ८७ मुस्निग्धनीलकुटिलकुन्तलः शुभलक्षणः । नवदूर्वाङ्कुरश्यामः पूर्णचन्द्रनिभाननः ॥ ८८ देवीभ्यां सहितः श्रीमान्विमानमध्यरोहयत । तस्मिन्सिहासने दिव्ये मूले कल्पतरोः प्रभुः ॥८९ निषसाद महातेजाः सर्वदेवैरभिष्टुतः । राघवानुगता ये च ऋक्षवानरमानुषाः ॥ स्पृष्ट्वैव शरयूतोयं सुखेन त्यक्तजीविताः। रामप्रसादात्ते सर्वे दिव्यरूपधराः शुभाः॥ ९१ दिव्यमाल्याम्बरधरा दिव्यमङ्गलवर्चसः । आरुरोह विमानं तदसंख्यैस्तत्र देहिनः (भिः)॥ ९२ सर्वेः परितः श्रीमानरामो राजीवलोचनः । पूजितः सुरसिद्धौधैर्मुनिभिस्तु महात्मभिः ॥ ९३ 9. * धनुचिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः । १ झ.भ्यामाचम्य प्रययावथ । रा।

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697