Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 669
________________ १८९१ २७६ षट्सप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । महादेव उवाचतच्छृत्वा जाम्बवान्हष्टः प्रणनामाथ दण्डवत् । परिणीय नमस्कृत्य विनयात्माह केशवम् ॥ २६ जाम्बवानुवाचधन्योऽस्मि कृतकृत्योऽस्मि तव संदर्शनात्मभो । दासोऽहं पूर्वभावेन तव देवकिनन्दन ॥ २७ दत्तवानसि गोविन्द कदनं पूर्वकाक्षितम् । मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वया ॥ तत्क्षम्यतां जगन्नाथ करुणाकर शाश्वत ॥ २८ महादेव उवाचइत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनः । नानारत्नमये पीठे निवेश्य विनयात्प्रभुम् ॥२९ शारदाजनिभौ पादौ प्रक्षाल्य शुभवारिणा । मधुपर्कविधानेन पूजयित्वा यद्वहम् ॥ ३० वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानतः। पुत्री जाम्बवती नाम कन्यां लावण्यसंयुताम् ॥ ३१ कन्यारत्नं [*ददौ तस्मै भार्यार्थममितौजसे । अन्यैश्च मणिमुख्यैश्च स्यमन्ताख्यं ददौ मणिम् ३२. तत्रैवोद्वाह्य तां कन्यां प्रहृष्टः परवीरहा] । ददौ तस्मै वरां मुक्तिं प्रीत्या जाम्बवते हरिः ॥ ३३ गृहीत्वा तनयां तस्य कन्यां जाम्बवतीं मुदा । विनिर्गत्य बिलात्तस्मात्मययो द्वारकां पुरीम् ३४ सत्राजिते ददौ रत्नं स्यमन्ताख्यं यदूत्तमः । दुहित्रे प्रददौ सोऽपि कन्याय मणिमुत्तमम् ॥ ३५ मासि भाद्रपदे शुक्ले चतुर्थी चन्द्रदर्शनम् । मिथ्याभिदूषणं पाहुस्तस्मात्तत्परिवर्जयेत् ॥ ३६ तत्माप्य दर्शनं तत्र चतुर्थी शीतरश्मिनः । स्यमन्तस्य कथां श्रुत्वा मिथ्यावादात्प्रमुच्यते॥३७ सुलक्ष्मणां नागजिती सुशीला च यशस्विनीम् । मद्रराजमुतास्तिस्रः कन्यकास्ताः शुभाननाः ३८ स्वयंवरस्थास्ताः [+कृष्णं वरयामासुरुज्ज्वलाः । एकस्मिन्दिवसे तास्तु उपयेमे यदूद्वहः ॥ ३९ अष्टौ महिष्यस्ताः सर्वा] रुक्मिण्याचा महात्मनः। रुक्मिणी सत्यभामा च कालिन्दी च शुचिस्मिता मित्रविन्दाजाम्बवतीनामजित्यः सुलक्ष्मणा । मुशीला नाम तन्वङ्गी महिषी चाष्टमी स्मृता॥ ४१ भूमिपुत्रो महावीर्यो नरको नाम राक्षसः । जित्वा देवपतिं शक्रं सर्वाश्चैव सुरारणे ॥ ४२ अदित्या देवमातुश्च कुण्डले च सुवर्चसी । बलाजग्राह देवानां रत्नानि विविधानि च ॥ ४३ ऐरावतं महेन्द्रस्य तथैवोच्चैःश्रवोहयम् । माणिक्यादि धनेशस्य शङ्खपद्मनिधि तथा ॥ ४४ स्त्रियश्चाप्सरसथैव हृतवान्क्षितिनन्दनः । वज्रादिहेतयश्चैव वलाद्धृत्वा दिवौकसाम् ॥ ४५ तैरेव स सुरान्हत्वा सभां मयविनिर्मिताम् । उवास व्योमगो दिव्यो नगर्या विमलेऽम्बरे ॥ ४६ ततो देवगणाः सर्वे पुरस्कृत्य शचीपतिम् । भयार्ताः शरणं जग्मुः कृष्णमक्लिष्टकारणम् ।। ४७ कृष्णोऽपि तदुपश्रुत्य सर्व नरकचेष्टितम् । देवानामभयं दत्वा वैनतेयं व्यचिन्तयत् ॥ ४८ तस्मिन्क्षणे हरेस्तस्य वैनतेयो महाबलः । पाञ्जलिः पुरतस्तस्थौ सर्वदेवनमस्कृतः॥ ४९ तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवः । संस्तूयमानो मुनिभिः प्रययौ राक्षसालयम् ॥ ५० प्रदीप्यमानमाकाशे यथा सूर्यस्य मण्डलम् । राक्षसैबहुभिर्युक्तं दिव्यैराभरणैर्युतम् ॥ ५१ ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपि । तदावरणानि भगवान्वीक्ष्य चक्रेण वीर्यवान् ॥ ५२ ____ * धनुश्विहान्तर्गतः पाठः क. च. ज. स. फ. अ. पुस्तकस्थः। + धनुचिहान्तर्गतः पाठः क. ज. स. फ. पुस्तकस्थः। १ ङ. 'वानामापदं हन्तुं ।

Loading...

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697