Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८७७ इत्येवं रमयामासुरहन्यहनि केशवम् । वृन्दावने मनोरम्ये कालिन्दीपुलिने तथा ॥ १७५
पार्वत्युवाचधर्मसंरक्षणार्थाय जगत्यामवतीर्य सः । परदाराभिगमनं कथं कुर्याजनार्दनः ॥ १७६ ___रुद्र उवाचस्वशरीरे परेष्वङ्गभेदो नास्ति शुभानने । सर्व जगच्च तस्याङ्गं पृथगत्र न विद्यते ॥ १७७ दोषोऽत्र नास्ति सुभगे देवस्य परमात्मनः । नैसर्गिकस्य भर्तृत्वादात्मेशत्वाज्जगत्पतेः ॥ १७८ तथाऽपहृतपाप्मनः सामाद्यापिनः प्रभोः । स्त्रीपुंभेदो न सुभगे पुरुषस्य महात्मनः॥ १७९
वसिष्ठ उवाचएवमुक्त्वा तु गिरिजां रुद्रः श्रीत्रिपुरान्तकः । कृष्णस्य शेषं चरितमाख्यातुं संप्रचक्रमे ॥ १८०
श्रीरुद्र उवाचशरत्काले तु संप्राप्ते नन्दगोपपुरोगमाः । गोपा महोत्सवं कर्तुमारब्धास्त्रिदशां पतेः॥ १८१ तदुत्सवं तु गोविन्दो निवार्याथ शतक्रतोः । गोवर्धनाद्रिराजस्य कारयामास वीर्यवान् ॥ १८२ ततः क्रुद्धः सहस्राक्षो नन्दगोपस्य गोत्रजे । ववर्ष च महावृष्टिं सप्तरात्रं निरन्तरम् ॥ १८३ गोवर्धनं समुत्पाव्य महाशैलं जनार्दनः । तेषां संरक्षणार्थाय धारयामास लीलया ॥ १८४ तच्छायायां गिरेः प्राप्य गोपा गोप्यश्च सुव्रते । अवसंश्च सुखेनैव हयान्तरगता इव ॥ १८५ ततः स तु सहस्राक्षो भीतः संभ्रान्तचेतसा। वारयामास तद्वषे ययौ नन्दस्य तद्ब्रजम् ॥१८६ कृष्णोऽपि तं महाशैलं यथापूर्व न्यवेशयत् । गोपवृद्धास्तु ते सर्वे नन्दगोपपुरोगमाः॥ १८७ परिपूज्य च गोविन्दं परं विस्मयमाययुः । ततः शतक्रतुर्देवं समेत्य मधुसूदनम् ॥ तुष्टाव प्राञ्जलिर्भूत्वा हर्षगद्गदया गिरा ॥
इन्द्र उवाचनमस्ते पुण्डरीकाक्ष सर्वज्ञामितविक्रम । त्रिगुणातीत सर्वेश विश्वात्मस्तु नमोऽस्तु ते ॥ १८९ त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः क्रतुहविः । त्वमेव सर्वदेवानां पिता माता च केशव ॥ १९० अग्रे हिण्यगर्भस्त्वं भूतस्य समवर्तत । त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः॥ १९१ पृथिवीं द्यामिमां देव त्वमेव धृतवानसि । आत्मदः फलदो यश्च विश्वस्य जगदीश्वरः॥ १९२ अवाप्तं तत्र त्रिदशैः प्रकाशं जगतां पते । अमृतं चैव मृत्युश्च च्छाया तव जगत्पते ॥ १९३ तस्मै देवाय भवते विधेम हविषा वयम् । हेमवन्त इमे यस्यै ते महित्वा हिरण्मयाः॥ १९४ समुद्रा रसया यस्य प्रवाहस्तस्य केशव । इमा दिशः प्रतिदिशो बाहुर्यस्य तवाव्यय ॥ १९५ तस्मै देवाय भवते विधेम हविषा वयम् । येन त्वया समारुद्धा पृथिवी वर्धिता पुनः॥ १९६ खर्लोकः स्तम्भितो येन त्वया ब्रह्मन्महेश्वर । त्वमन्तरिक्षे रजसो विमानः सर्वगोऽव्ययः १९७ तस्मै देवाय भवते विधेम हविषा वयम् । यं क्रन्दसी राजमाने तस्तभाने गुणान्विते ॥ १९८ अभ्यक्षेतां च मनसा अवश्यं श्रीश्च सर्वदा । यत्रास्ति सूर उदितो विभाति परमे पदे ॥ १९९ तस्मै देवाय भवते विधेम हविषा वयम् । यदापो बृहतीब्रह्म विश्वमायञ्जनार्दनः॥ २०० गर्भ दधानाः सर्गेऽत्र जनयन्तीरघौघकृत् । समवर्तत देवानामसुरेकोऽव्ययो विभुः॥ २०१
२८८
१०, प्रकामं । २ . हेमन्तेमशस्य । ३ ङ. अ. स्य समुद्भता हि । ४ ड. समारूढा ।

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697