Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 622
________________ १८४४ महामुनिश्रीव्यासपणीतं- . [ ६ उत्तरखण्डेचतुरात्मन्नमस्तुभ्यं चतुयूँह नमोऽस्तु ते । पञ्चावस्थाय ते तुभ्यं नमस्ते पञ्चमात्मक ॥ १८ पञ्चमात्मकनिष्ठेस्तैोगिभिः पूज्यते(से) सदा । पञ्चार्थतत्त्वविदुषां पञ्चसंस्कारसंस्थितः ॥ १९ पश्चप्रस्थस्वरूपं ते विज्ञेयं सततं हरेः । चतुर्वाक्परिपूर्णात्मा नियतं कवयो विदुः॥ २० ते ब्राह्मणा जगत्सर्व रक्षन्ति तव किंकराः । त्रयीमयाः कर्मनिष्ठा ये द्विजा भक्तवत्सल ॥ २१ तेषां दयेक्षणादेव भवबन्धविमुक्तयः । नमस्ते त्रिजगद्धात्रे स्वयंधात्रेऽखिलात्मने ॥ २२ धात्रे विधात्रे विश्वाय विश्वरूपाय ते नमः । नारायणाय कृष्णाय वासुदेवाय शाङ्गिणे ॥ २३ विष्णवे जिष्णवे तुभ्यं शुद्धसत्त्वाय ते नमः ॥ महादेव उवाचइत्यादिस्तुतिभिः सम्यक्स्तूयमानो महर्षिणा । प्राह गम्भीरया वाचा परितुष्टो जनार्दनः ॥२५ भगवानुवाचसंतुष्टोऽहं द्विजश्रेष्ठ त्वया भक्त्या सर्चितः । वरं वृणीष्व भद्रं ते करोमि तव वाञ्छितम् ॥२६ __ महादेव उवाचततः प्राह हृषीकेशं भार्यया सह कश्यपः॥ कश्यप उवाचपुत्रत्वं मम देवेश संप्राप्य त्रिदेशां(त्रैदशं) हितम् । कुरुष्व बलिना देव त्रैलोक्यं निर्जितं बलाद इन्द्रस्यावरजो भूत्वा उपेन्द्र इति विश्रुतः । येन केन च मार्गेण वलिं निर्जित्य मायया ॥ त्रैलोक्यं मम पुत्राय देहि शक्राय शाश्वतम् ॥ महादेव उवाचइत्युक्तस्तेन विप्रेण तथेत्याह जनार्दनः। संस्तूयमानस्त्रिदशैस्तत्रैवान्तरधीयत ॥ एतस्मिन्नेव काले तु कश्यपस्य महात्मनः । अदित्या गर्भमागच्छद्भगवान्भूतभावनः ॥ ३१ तस्मिन्काले बलिर्यागं दीर्घसत्रं महातपाः। अष्टमहर्षिभिः सार्धमारेभे तद्विधानतः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे वामनप्रादुर्भावो नाम षट्पट्यधिकद्विशततमोऽध्यायः ॥ २६६ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४६४८९ अथ सप्तषष्टयधिकद्विशततमोऽध्यायः । श्रीशंकर उवाचअथ वर्षसहस्रान्ते सर्वलोकमहेश्वरम् । अदितिर्जनयामास वामनं विष्णुमच्युतम् ॥ श्रीवत्सकौस्तुभोरस्कं पूर्णेन्दुसदृशद्युतिम् । सुन्दरं पुण्डरीकाक्षमतिखर्वतनुं हरिम् ॥ बटुवेषधरं देवं सर्ववेदाङ्गगोचरम् । [*मेखलाजिनदण्डादिचिह्नरङ्कितमीश्वरम् ॥ तं दृष्ट्वा देवताः सर्वाः शतक्रतुपुरोगमाः। स्तुत्वा महर्षिभिः सार्धं नमश्चक्रुर्महौजसम् ॥ ततः प्रसन्नो भगवानाह तान्सुरसत्तमान् ॥ + इदमधे क. ज. झ. फ. पुस्तकस्थम् । १ झ. त्मनिय'।२ इ. दशं शत।

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697