Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 642
________________ १८६४ . [ ६ उत्तरखण्डे महामुनिश्रीव्यासप्रणीतंअथ सप्तत्यधिकद्विशततमोऽध्यायः । mor, va शंकर उवाचअथ तस्मिन्दिने पुण्ये शुभलग्ने शुभान्विते । मङ्गलस्याभिषेकार्थ मङ्गलं चक्रिरे जनाः ॥ १ वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः । मार्कण्डेयश्च मौद्गल्यः पर्वतो नारदस्तथा ॥ २ एते महर्षयस्तत्र जपहोमपुरःसरम् । अभिषेकं शुभं चक्रुर्मुनयो राजसत्तमम् ॥ नानारत्नमये दिव्ये हेमपीठे शुभान्विते । निवेश्य सीतया सार्धं श्रिया इव जनार्दनम् ॥ सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः । सर्वतीर्थोदकैः पुण्यैर्माङ्गल्यद्रव्यसंयुतैः ॥ दूर्वाग्रतुलसीपत्रपुष्पगन्धसमन्वितैः । मन्त्रपूतजलैः शुद्धैर्मुनयः संशितव्रताः॥ अजपन्वैष्णवान्सूक्तांश्चतुर्वेदमयाशुभान् । अभिषेकं शुभं चक्रुः काकुत्स्थं जगतां पतिम् ॥ ७ तस्मिञ्भतमे लग्ने देवदुन्दुभयो दिवि । विनेदुः पुष्पवर्षाणि वषुश्च समन्ततः ॥ दिव्याम्बरैर्भूषणैश्च दिव्यगन्धानुलेपनैः। पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहः॥ अलंकृतश्च शुशुभे मुनिभिर्वेदपारगैः । छत्रं च चामरं दिव्यं धृतवालक्ष्मणस्तदा ॥ पार्थे भरतशत्रुघ्नौ ताल→न्तौ विरेजतुः । दर्पणं प्रददौ श्रीमान्राक्षसेन्द्रो विभीषणः ॥ ११ दधार पूर्णकलशं सुग्रीवो वानरेश्वरः । जाम्बवांश्च महातेजाः पुष्पमालां मनोहराम् ॥ १२ [*वालिपुत्रस्नु ताम्बूलं सकर्पूरं ददौ हरेः । हनूमान्दीपिकां दिव्यां सुषेणस्तु ध्वजं शुभम्] १३ परिवार्य महात्मानं मन्त्रिणः समुपासिरे । सृष्टिर्जयन्तो विजयः सौराष्ट्रो राष्ट्रवर्धनः॥ १४ अकोपो धर्मपालश्च सुमन्त्रो मन्त्रिणः स्मृताः। राजानश्च नरव्याघ्रा नानाजनपदेश्वराः॥ १५ पौराश्च नैगमा वृद्धा राजानं पर्युपासते। ऋक्षैश्च वानरेन्द्रश्च मन्त्रिभिः पृथिवीश्वरैः॥ १६ राक्षसैविजमुख्यैश्च किंकरैश्च समावृतः । परव्योम्नि यथा लीनो दैवतैः कमलापतिः॥ १७ तथा नृपवरः श्रीमान्साकेते शुशुभे तदा । इन्दीवरदलश्यामं पद्मपत्रनिभेक्षणम् ॥ १८ आजानुवाहुं काकुत्स्थं पीतवस्त्रधरं हरिम् । कम्युग्रीवं महोरस्कं विचित्राभरणैर्युतम् ॥ १९ देव्या सह समासीनमभिषिक्तं रघूत्तमम् । विमानस्थाः सुरगणा हर्षनिर्भरमानसाः ॥ २० तुष्टुवुर्जयशब्देन गन्धर्वाप्सरसां गणाः । अभिषिक्तस्ततो रामो वसिष्ठाद्यैर्महर्षिभिः॥ २१ शुशुभे सीतया देव्या नारायण इव श्रिया। अतिमर्त्य (नम्र)तया सीतामु(चो)पासीत पदाम्बुजम् दृष्ट्वा तुष्टाव हृष्टात्मा शंकरो द्रष्टुमागतः । कृताञ्जलिपुटो भूत्वा सानन्दो गद्गदाकुलः॥ हर्षयन्सकलान्देवान्मुनीनपि च वानरान् ॥ महादेव उवाचनमो मूलप्रकृतये नित्याय परमात्मने । सच्चिदानन्दरूपाय विश्वरूपाय वेधसे ॥ २४ नमो निरन्तरानन्दकन्दमूलाय विष्णवे । जगत्रयकृतानन्तमूर्तये दिव्यमूर्तये ॥ नमो ब्रह्मेन्द्रपूज्याय शंकराय हराय च । नमो विष्णुस्वरूपाय सर्वरूप नमो नमः ॥ २६ उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने । नमोऽस्तु निर्गतोपाधिस्वरूपाय महात्मने ॥ २७ * अयं श्लोकः क. च. ज. झ. फ. पुस्तकस्थः । १ फ. काश्यपः । २ झ. वृतौ वि । ३ क. ज. झ. सुराष्ट्रो । ४ झ. फ. 'नन्दम। २५

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697