Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 603
________________ २५९ एकोनषष्ट्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १८२५ दुर्वासा उवाचप्रैलोक्यैकश्रिया युक्तो यस्मान्मामवमन्यसे । तस्मात्रैलोक्यश्रीनष्टा भवत्वेव न संशयः ॥ ९ रुद्र उवाचइति शप्तस्ततः शक्रो जगाम स्वपुरं पुनः । ततः श्रीजगतां धात्री क्षणादन्तर्दधे स्वयम् ॥ १० अन्तर्धानं गता लक्ष्मीस्तदा नष्टं जगत्रयम् । यदपाङ्गाश्रितं सर्व जगत्स्थावरजङ्गमम् ।। ११ तस्यामन्तर्धानवत्यां सर्व नष्टतरं भवेत् । ब्रह्मादित्रिदशाः सर्वे गन्धर्वा यक्षकिंनराः ॥ १२ दैत्याश्च दानवा नागा मनुष्या राक्षसास्तथा । पशवः पक्षिणः कीटाः [*सर्वे स्थावरजङ्गमाः॥ तया लक्ष्म्या जगन्मात्रा ते सर्वे नावलोकिताः । दारिद्येणैव निहतास्ते सर्वे दुःखभागिनः॥१४ क्षुत्पिपासान्विताः सर्वे चुक्रुशुवै निरन्तरम् । न वर्जलधराः सर्वे शुष्का जलाशयाः] ॥ १५ सर्वे ते पादपाः शुष्काः फलपुष्पविवर्जिताः । तदा देवाः सगन्धर्वा दैत्यदानवराक्षसाः ॥ १६ क्षुत्पिपासार्दिता जग्मुर्ब्रह्माणममितौजसम् । ऊचुस्तं देवदेवेशमब्जयोनि पितामहम् ॥ १७ देवा ऊचुःभगवन्क्षुत्पिपासाभ्यां पीडितं हि जगत्रयम् । न हुतं न वषट्कारः सर्वधर्मविवर्जितम् ॥ १८ क्षुत्पिपासार्दिताः सर्वे देवदानवमानवाः। त्रातारं सर्वलोकेशं भवन्तं शरणं गताः ॥ त्रातुमर्हसि देवेश क्षुत्पिपासार्दिताञ्जनान् । __ रुद्र उवाचइति तेषां वचः श्रुत्वा सर्वलोकपितामहः । उवाच परमप्रीतस्तान्सर्वान्प्रति मानदः ॥ ब्रह्मोवाचशृणुध्वं देवताः सर्वे दैत्यगन्धर्वमानवाः । महेन्द्रस्यापचारेण सर्वमेतदुपस्थितम् ।। समुद्भूतमिदं घोरं जगत्संवर्तकं महत् । दुर्वाससं महात्मानमनयत्क्रोधमात्मवान् ॥ तस्मात्क्रुद्धेन तेनेदं नष्टं लोकत्रयं सुराः । असो रोषपरीतात्मा क्रोधेन कलुपीकृतः ॥ २३ जगत्रयस्य श्रीनटा भवत्वित्याह दुर्मतिः। तच्छापाजगतां धात्री लक्ष्मीर्नारायणप्रिया ॥ २४ अन्तर्धानं गता देवी जगन्माता महेश्वरी । यदपाङ्गेक्षिता लोका भवन्ति सुखिनस्तथा ॥ २५ नालोकिता जगन्मात्रा दुःखभागिन एव हि । तस्मात्सर्वे वयं गत्वा दुग्धाब्धौ स्थितमुत्तमम् ।। तत्र नारायणं देवमर्चयामः सनातनम् । तस्मिन्प्रसन्ने देवेशे शिवमेतद्भवेज्जगन् । रुद्र उवाचइति निश्चित्य मनसा ब्रह्मा देवगणैर्वृतः । भृग्वादिमुनिभिः सार्ध प्रययो क्षीरसागरम् ॥ २८ क्षीराब्धेरुत्तरतटे ब्रह्मरुद्रादिदेवताः। विष्णुं समर्चयामासुः पौरुषेण विधानतः ॥ जपन्नष्टाक्षरं मत्रं पौरुपं सूक्तमेव च । ध्यायन्तोऽनन्यमनसो जुहुवुः परमेश्वरम् ॥ तुपुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्विधानतः । ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम् ॥ तेषां संदर्शने तस्थौ स्तूयमानो महर्षिभिः । वैनतेयं समारुह्य सर्वदेवमयं विभुम् ॥ तं दृष्ट्वा जगतामीशं शङ्खचक्रगदाधरम् । पीतवस्त्रं चतुर्वा हुं पुण्डरीकनिभेक्षणम् ॥ श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् । किरीटहारकेयूरनूपुरैरुपशोभितम् ।। * धन द्वान्तर्गतः पाठः क.ज. झ. फ. पुस्तकस्थः ।

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697