Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 667
________________ १८८९ र । २७९ पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । स तु शोकसमाविष्टो निःश्वसनुरगो यथा । न विवेश पुरीं स्वीयां स तु तत्रैव चावसत् ॥ ४२ *इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीकृष्णचरिते विदर्भसेनाविध्वंसनं नाम चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७४ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४७६५५ अथ पञ्चसप्तत्यधिकद्विशततमोऽध्यायः । रुद्र उवाच--- अथ कृष्णस्तु रामेण रुक्मिण्या दारुकेण च । दिव्यं स्यन्दनमारुह्य ययौ तूर्ण स्वमालयम् ।।१ ततः प्रविश्य नगरी द्वारकां देवकीसुतः । शुभेऽह्नि शुभलग्ने वै वेदोक्तविधिना हरिः ॥ उपयेमे नृपसुतां रुक्मिणी रुक्मभूषिताम् । तस्मिन्नुद्वाहसमये देवदुन्दुभयो दिवि ।। विनेदुः पुष्पवर्षाणि वपुः मुरसत्तमाः । वसुदेवोग्रसेनश्च तथाऽक्रूरो यदूत्तमः ॥ चलभद्रो महातेजा ये चान्ये यदुपुंगवाः । चक्रुः कृष्णस्य रुक्मिण्या विवाहं सुमुखं यथा ॥ ५ नन्दगोपोऽथ गोपालैर्गोपवृन्दैः समागतः । खलंकृताभिर्योपिद्भिर्यशोदा च समागता ॥ ६ वसुदेवः स्त्रियः सर्वा देवकीप्रमुखास्तथा । रेवती रोहिणी देवी याश्चान्याः पुरयोषितः ॥ [*सर्वाण्युद्वाहकर्माणि चक्रुहर्षसमन्विताः । सुराणामर्चनं प्रीत्या कर्तव्यं तत्र देवकी ॥ ८ वृद्धाभिपयोषिद्भिश्चकार विधिना तदा । सर्वमौद्वाहिकं कर्म [त्सवं हि द्विजोत्तमाः ।। ९ ब्राह्मणान्भोजयामास वस्त्रैराभरणैः शुभैः। उग्रसेनादयस्तत्र राजानश्च सुपूजिताः॥ १० नन्दगोपादयो गोपा यशोदाद्याश्च योषितः । बहुभिः स्वर्णरत्नाद्यैर्वासोभिः सविभूषणैः ॥११ पूजिताः संप्रहष्टास्ते तद्विवाहमहोत्सवे । तौ दंपती समाश्लिष्य प्रणतो जातवेदसम् ।। १२ वेदविद्भिर्विप्रमुख्यैराशीभिरभिनन्दितौ । तस्यां विवाहवेद्यां तु शुशुभाते वधूवरौ ॥ १३ ब्राह्मणेभ्योऽथ वृद्धेभ्यो राजभ्यः सह भार्यया । ववन्दे देवकीपुत्रो ज्येष्ठस्य भ्रातुरेव च ॥१४ एवमौद्वाहिकं सर्व निर्वर्त्य मधुसूदनः । विससर्ज नृपान्सर्वान्प्रीत्या तत्र समागतान् ॥ १५ मस्थिता हरिणा तत्र पूजिता नृपपुंगवाः । ब्राह्मणाश्च महात्मानो निर्ययुः स्वं स्वमालयम् ।। १६ ['रुक्मिण्या सह धर्मात्मा देवकीनन्दनोऽव्ययः । उवास सुसुखेनैव दिव्यहर्म्यतले शुभे ।। १७ तया वै रमयामास नारायण इव श्रिया । संस्तूयमानो मुनिभि]दिवि देवगणैरपि ॥ १८ अहन्यहनि तुष्टात्मा सुखेनैव जनार्दनः । अथोवास सुशोभायां द्वारवत्यां सनातनः॥ १९ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीकृष्णचरिते रुक्मिणी विवाहकथनं नाम पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७५ ।। आदितः श्लोकानां समष्ट्यङ्काः-४७६७४ * क. ज. झ. फ. पुस्तके वध्यायसमाप्तिास्ति । + संधिरार्षः । * धनुचिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः । + धनुश्विद्वान्तर्गतः पाठः क. च. ज. स. फ. पुस्तकस्थः।

Loading...

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697