Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 644
________________ १८६६ महामुनिश्रीव्यासप्रणीतं - इत्थं विसृष्टाः खलु ते च सर्वे सुखं तदा जग्मुरतीव हृष्टाः । एवं पठन्तः स्तवमीश्वरोक्तं रामं स्मरन्तो वरविश्वरूपम् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे विश्वरूपदर्शनं नाम सप्तत्यधिकद्विशततमोऽध्यायः ॥ २७० ॥ आदितः श्लोकानां समथ्र्यङ्काः --४७०५३ अथैकसप्तत्यधिकद्विशततमोऽध्यायः । [ ६ उत्तरखण्डे - -→ ५३ शंकर उवाच १ ३ 8 ६ ९ अथ रामस्तु वैदेह्या राज्यभोगान्मनोरमान् । बुभुजे वर्षसाहस्रं पालयन्सर्वतो दिशः ॥ अन्तःपुरजनाः सर्वे राक्षसस्य गृहे स्थिताम् । गर्हयन्ति स्म वैदेहीं तथा जानपदा जनाः ॥ २ लोकापवादभीत्या च रामः शत्रुनिवारकः । दर्शयन्मानुषं धर्ममन्तर्वत्नीं नृपात्मजाम् || वाल्मीकेराश्रमे पुण्ये गङ्गातीरे महावने । विससर्ज महातेजा गर्भदुःखसमन्विता ॥ सा भर्तुः परतन्त्रा हि उवास मुनिवेश्मनि । अर्चिता मुनिपत्नीभिर्वाल्मीकिना च रक्षिता ॥ ५ तत्रैवासूत यमौ नाम्ना कुशलवौ सुतौ । तौ च तत्रैव मुनिना वट्टधाते सुसंस्कृतौ ॥ रामोऽपि भ्रातृभिः सार्धं पालयामास मेदिनीम् । यमादिगुणसंपन्नः सर्वभोगविवर्जितः ॥ अर्चयन्सततं विष्णुमनादिनिधनं हरिम् । ब्रह्मचर्यपरो नित्यं शशास पृथिवीं नृपः ॥ शत्रुघ्नो लवणं हत्वा मॅथुरां देवनिर्मिताम् । पालयामास धर्मात्मा पुत्राभ्यां सह राघवः ॥ गन्धर्वान्भरतो हत्वा सिन्धोरुभयपार्श्वतः । स्वात्मजौ स्थापयामास तस्मिन्देशे महाबलौ ॥ १० पश्चिमे मद्रदेशे तु मद्रान्हत्वा च लक्ष्मणः । स्वसुतौ च महावीर्यावभिषिच्य महाबलः ॥ गत्वा पुनरयोध्यां तु रामपादावुपास्पृशत् । ब्राह्मणस्य मृतं बालं कालधर्ममुपागतम् ॥ जीवयामास काकुत्स्थः शूद्रं हत्वा च तापसम् । ततस्तु गौतमीतीरे नैमिषे जैनसंसदि ॥ इयाज वाजिमेधेन राघवः परवीरहा । काञ्चनीं जानकीं कृत्वा तया सार्धं महाबलः ॥ चकार यज्ञान्वहुशो राघवः परमार्थवित् । अयुतान्यश्वमेधानि वाजपेयानि च प्रभुः ॥ अग्निष्टोमं विश्वजितं गोमेधं च शतक्रतुम् । चकार विविधान्यज्ञान्परिपूर्णान्सदक्षिणान् ॥ एतस्मिन्नन्तरे तत्र वाल्मीकिः सुमहातपाः । सीतामानीय काकुत्स्थमिदं वचनमब्रवीत् ॥ वाल्मीकिरुवाच ११ 6 ८ १२ १३ १४ १५ १६ १७ अपापां मैथिलीं राम त्यक्तुं नार्हसि सुव्रत । इयं तु विरजा साध्वी भास्करस्य प्रभा यथा ॥ अनन्या तव काकुत्स्थ कस्मात्त्यक्ता त्वयाऽनघ १८ श्रीराम उवाच — १९ अपापां मैथिलीं ब्रह्मञ्जानामि वचनात्तव । रावणेन हृता साध्वी दण्डके विजने पुरा ।। तं हत्वा समरे दुष्टं शुद्धामग्निमुखं गताम् । पुनर्यातोऽस्म्ययोध्यायां सीतामादाय धर्मतः || २० लोकापवादः सुमहानभूत्पौरजनेषु च । त्यक्ता मया शुभाचारा तद्भयात्तव संनिधौ ॥ तस्माल्लोकस्य संतु सीता मम परायणा । पार्थिवानां सहर्षीणां प्रत्ययं कर्तुमर्हति ॥ २१ २२ १ झ. परं ॥ २ झ. मन्त्रिभिः । ३ झ. फ. व्रतचर्यापरो । ४ झ. माथुरां । ५ झ. मुनिसंसदि । I "

Loading...

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697