Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१९०९
२८० अशीत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । रौरवं नरकं याति यक्षभूतगणार्चनात् । शङ्खचक्रादिभिश्चिकैरन्यैः प्रियतमैहरेः॥ १२० रहितः सर्वधर्मेभ्यः प्रच्युतो नरकं व्रजेत् । अगम्यागमनाद्धिंसापरद्रव्यापहारणात् ॥ १२१ अभक्ष्यभक्षणात्सद्यो [*नरकं समवाप्नुयात् । यस्तु पाणिगृहीती च हित्वाऽन्यां योषितं व्रजेत्।। अगम्यागमनं तद्धि सद्यो नरककारणम् । पतितानां च संसर्गात्पापण्डानां तथैव च ॥ १२३ विकर्मस्थानां च तथा यात्येव निरयं नरः। संसर्गिणां च संसर्ग तत्संसर्गमपि त्यजेत् ॥ १२४ वैष्णवः कुलमेकं तु वर्जयेत्पापसंयुतम् । एकान्ती संत्यजेद्रामं महापातकमिश्रितम् ॥ १२५ तथैव परमैकान्ती तद्देशमपि वर्जयेत् । स्वकर्मज्ञानभक्त्यादि साधनं वैष्णवं स्मृतम् ॥ १२६ हरेराज्ञानुरूपेण कर्मज्ञानादि यश्चरेत् । स एकान्ती भवद्विषो वासुदेवपरायणः ॥ १२७ अकृत्यं वैष्णवः पापं बुद्ध्या सम्यक्परित्यजेत् । एकान्ती संत्यजेच्छास्त्रं दूषणान्मनसाऽपि च॥ तथैव परमैकान्ती हेयबुद्ध्या परित्यजेत् । नित्यं नैमित्तिकं काम्यं कृत्यं तु त्रिविधं स्मृतम् १२९ ज्ञानं तथैव लोकेऽस्मिन्मुनिभिः संप्रकीर्तितम् । कृत्याकृत्यविवेकं च परलोकस्य चिन्तनम् १३० तत्माप्तिसाधनं विष्णोः स्वरूपज्ञानमेव च । भक्त्याऽन्वितो भवेद्भक्तो नवधा सा प्रकीर्तिता ॥ सुदर्शनोर्ध्वपुण्ड्रादिसंचिद्वैरङ्कनं शुभे । सद्गुरोर्मत्रपठनमर्चनं विधिना हरेः॥ १३२ स्मरणं कीर्तनं विष्णोः सेवा च परमात्मनः । प्रणामस्तस्य पुरतस्तदीयानां च पूजनम् ॥ १३३ प्रसादतीर्थसेवा च भक्तिर्नवविधा स्मृता । यस्मात्प्रपद्यते देवं शरणं वैष्णवो हरिम् ॥ १३४ प्रपत्तिः सा तु विज्ञेया त्रिविधा सा प्रकीर्तिता। [+तामसी राजसी चैव सात्त्विकी त्रिविधा स्मृता साऽपि त्रिधा कृता सिद्धिः सामान्या सर्वदेहिनाम् । एतच्चतुष्टयं देवि हेयं] संत्यज्य वैष्णवः ॥ उपायभूतं ब्रह्मवमवलम्बेत वैष्णवः । उपायभावात्संत्यज्य कर्मज्ञानादिकं नरः॥ १३७ कुर्वीत भगवत्प्रीत्यै महाभागवतोत्तमः । त्रिकालमर्चयेद्विष्णुं भक्त्या वै पुरुषोत्तमम् ॥ १३८ नैमित्तिके विशेषेण पूजयेद्विधिना शुभे । प्रत्यहं कार्तिके मासि जातीपुष्पैः समर्चयेत् ॥ १३९ दद्यादखण्डं दीपं च नियतात्मा दृढव्रतः। ब्राह्मणान्भोजयित्वाऽन्ते हरिमायुज्यमामुयात् १४० धनुष्युषसि देवेशं मासमेकं निरन्तरम् । अर्चयेदुत्पलेर्देवि करवीरैः सितासितैः ॥ १४१ धूपदीपैश्च नैवेद्यैर्यथाशक्ति निवेदयेत् । समाप्तो भोजयेद्विप्रान्महाभागवतोत्तमान् ॥ १४२ अश्वमेधसहस्रस्य फलमामोत्यसंशयम् । तपोमास्युदित भानो स्नात्वा नद्यां विशेषतः॥ १४३ अर्चयेन्माधवं पुष्पैरुत्पलैश्च शुभानने । पायसं सघृतं दिव्यं भक्त्या तत्र निवेदयेत् ॥ १४४ [*स्नात्वा संपूजयेद्विष्णुं मासमेकं निरन्तरम् । शर्कराम्बुयुतं नित्यमुपा(धा)नं (?) विनिवेदयेत्।। वैष्णवान्पूजयेद्भक्त्या मासान्ते शुभदर्शने । मधुमासि तथा नित्यं बकुलैश्चम्पकैरपि ॥ १४६ पूजयेज्जगतामीशं गुडानं च निवेदयेत् ] । मासान्ते वैष्णवान्विप्रान्भोजयेत्सुसमाहितः ॥ १४७ सहस्रवार्षिकी पूजां प्रति नित्यमवाप्नुयात् । माधवं पूजयेदेवं शतपत्रमहोत्पलैः ॥ १४८ पूजयित्वा विधानेन दध्यन्नफलसंयुतम् । गुडोदकं च भक्त्या वै तस्मिन्देवि निवेदयेत् ॥ १४९ लक्ष्म्या युक्तो जगन्नाथः प्रीतो भवति पार्वति । शुक्रे तु शुक्लकमलैः पाटलैः कुमुदोत्पलैः १५०
* धनुश्विद्वान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः । + धनुश्चिह्नान्तर्गतः पाठो झ. फ. पुस्तकस्थः । * धनुश्चिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः ।
१ झ. फ. शुभम् ।
क.वप्राय म ।

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697