Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 679
________________ २९ , २७९ एकोनाशीत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १९०१ शाभिर्दिव्यमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमयनानागृहान्तरेषु सुरतरुकुसुमाश्चितश्लक्ष्णतरपयङ्केषु रमयामास ॥ अथ रामकृष्णसतीखें विप्रो बालसखा सदाऽत्यन्तदारिद्यपीडितो मुष्टिमात्रयाचनाप्तपृथुकाञ्जीर्णवाससि निबध्य वासुदेवं द्रष्टुं श्रीमती द्वारकानगरीमाजगाम ॥ स तु रुक्मिण्यन्तःपुरद्वारि क्षणं तूष्णीं तस्थौ ॥ कृष्णोऽपि समागतं ब्राह्मणं ज्ञात्वा प्रत्युद्गम्य नमस्कृत्वा करं गृहीत्वा गृहान्तरे स्वासने निवेश्य भयाद्वेपमानं तं रुक्मिणीहस्तगतसुवर्णकलशजलेन पादौ प्रक्षाल्य मधुपर्केण पूजयामास३२ सुधामृतोपमैरन्नपानाद्यैस्तपयित्वा तस्य जीर्णवस्त्रान्तरे याचनाप्तपृथुकान्स्वयमेव हस्तेन गृहीत्वा प्रहसञ्जग्रास ॥ कृष्णेन [*पृथुके भक्षिते तस्मिन्नेव क्षणे तस्य बहुधनधान्यवस्त्राभरणसंभूतं महदैश्वर्यमभूत् ॥ ___ स तु कृष्णेन विसृष्टो मम किंचिद्वस्त्रं धनं वा कृष्णेन न दत्तमिति मन्यमानः स्वपुरं विवेश३५ __ अथ बहुधनधान्ययुतं स्वगृहं दृष्ट्वा हरेः प्रसादादिदं लब्धमिति प्रहृष्टेनान्तरात्मना दिव्यवस्वाभरणादिना भार्यया सह सर्वान्कामान्भुक्त्वा हरिसंतुष्ट्ये बहुविधयज्ञानिष्ट्वा तत्प्रसादेन परमं नित्यं स्वर्गसुखमवाप ॥ __ अथ धृतराष्ट्रतनयो दुर्योधनः पाण्डुतनयान्कपटद्यूतव्याजेन राज्यमपहृत्य स्वराष्ट्राद्विवासयामास ॥ तेन युधिष्ठिरभीमार्जुननकुलसहदेवाः स्वपल्या द्रौपद्या सह महारण्यं गत्वा तत्र द्वादशाब्दा स्थित्वा संवत्सरपर्यन्तमज्ञाताः सर्वे मत्स्यदेशाधिपतेविराटस्य निवेशने स्थित्वा वासुदेवेन सहायेन धार्तराष्ट्रान्यो माजग्मुः॥ तेषां धार्तराष्ट्रपाण्डुपुत्राणां नानादेशाधिपनृपैः कुरुक्षेत्रे महापुण्ये देवानामपि भयंकरो महासङ्ग्रामोऽभवत् ॥ ___ अथ श्रीकृष्णोऽप्यर्जुनसारथ्यं कुर्वनर्जुने स्वशक्तिमावेश्य तेन दुर्योधनभीष्मद्रोणप्रमुखान्स न्पिार्थिवानेकादशाक्षौहिणीवलसहितान्कुरुक्षेत्रे हत्वा पाण्डवान्राज्ये स्थापयित्वा निःशेषेण सर्वभूभारमपास्य स्वां पुरी प्रविवेश ॥ __ कस्यचित्त्वथ कालस्य कतिपयाहनि(स्सु) वैदिको ब्राह्मणो मृतं पञ्चवार्षिकं बालमादाय राजद्वारि निधाय बहुशो विलपन्वहून्याक्रोशवाक्यानि कृष्णं जगाद ॥ ४१ कृष्णस्तमाकोशं श्रुत्वा तूष्णीमुवास । स तु मम पञ्च पुत्राः पूर्व हता अयं तु षष्ठ एनं पुत्रं कृष्णो न जीवयिष्यति तर्हि राजद्वारि मरिष्यामीत्युवाच ॥ __ तस्मिन्कालेऽर्जुनः कृष्णं द्रष्टुमागतस्तथाविधं तं पुत्रशोकेन विलपन्तं ददर्श ॥ अर्जुनोऽपि कालधर्ममुपागतं पञ्चवार्षिकं वालकं दृष्ट्वा कृपया समाविष्टस्तव पुत्रमहं जीवयिष्यामीति ब्राह्मणायाभयं दत्त्वा प्रतिश्रुतवान् । ब्राह्मणस्तु तेनाऽऽश्वासितो हृष्टवान् ॥ * धनुश्चिद्वान्तर्गतः पाठः क. ज. पुस्तकस्थः ।

Loading...

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697