Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । स्वल्पमल्पतरं धर्म लोकेऽस्मिन्न च दृश्यते । धर्मेणैव धृता देव सत्यशौचयुतेन च ॥ तस्मादधर्मसंभूतं न लोकं धर्तुमुत्सहे ॥
रुद्र उवाचइत्युक्त्वा धरणी देवी तत्रैवान्तरधीयत । ततः सुरगणाः सर्वे ब्रह्मरुद्रपुरोगमाः॥ क्षीराब्धेरुत्तरं कूलमधिगम्य जगत्पतिम् । तुष्टुवुः स्तुतिभिः सर्वे मुनयश्च महातपाः॥ ततः प्रसन्नः प्राहेशः सर्वांस्तान्मुनिसत्तमान् ॥
श्रीभगवानुवाचभो भो देवगणाः सर्वे किंनिमिसमिहाऽऽगताः ॥
रुद्र उवाचततः पितामहः प्राह देवदेवं जनार्दनम् ॥
ब्रह्मोवाचदेवदेव जगन्नाथ पृथिवी भारपीडिता । राक्षसा बहवो लोके समुत्पन्ना दुरासदाः॥ जरासंधश्च कंसश्च प्रलम्बो धेनुकादयः । दुरात्मानः प्रबाधन्ते सर्वाल्लोकान्सनातनान् ॥ भारावतरणं कर्तुं पृथिव्यास्त्वमिहार्हसि ॥
रुद्र उवाचएवमुक्तो हृषीकेशो ब्रह्मणा परमेष्ठिना । प्राह गम्भीरया वाचा जगतां पतिरव्ययः ॥ २३
श्रीभगवानुवाचअवतीर्य नृलोकेऽस्मिन्यदूनामन्वये सुराः । अवनीभारमव्यग्रमपास्यामि महाबलाः॥ २४
रुद्र उवाचएवमुक्ताः सुराः सर्वे नमस्कृत्वा जनार्दनम् । स्वान्स्वाल्लोकान्समासाद्य परेशमन्वचिन्तयन् ततो भगवती मायां परमेशः समब्रवीत् ॥
श्रीभगवानुवाचहिरण्याक्षस्य षट्पुत्रान्समानीयावनीतलात । वसुदेवस्य पत्न्यां तु देवक्यां संनिवेशय ॥ २६ अनन्तांशः(शं) सप्तमोऽत्र(मं तु) संप्रकृष्य च मा चिरम् । तस्याः सपत्न्यां रोहिण्यां दद(ध)स्त्र शुभदर्शने ॥ ततोऽष्टमो ममांशस्तु देवक्यां संभविष्यति । नन्दगोपस्य पत्न्यां तु यशोदायां सनातनी ॥ २८ तवांशभूता(त्वं हि भूत्वा) महानिद्रा विन्ध्यं गत्वा महावला । तत्र संपूज्यमाना हि देवैरिन्द्रपुरोगमैः ॥ जहि दैत्यान्महावीर्याशुम्भासुरपुरोगमान् ।
रुद्र उवाचतथेत्युक्त्वा महाभागा हिरण्याक्षसुतांस्तदा । पर्यायेणैव देवक्यां षगर्भान्संन्यवेशयत् ॥ ३१ ताञ्जघान तदा कंसो जातमात्रान्महाबलः । ततस्तु सप्तमो गर्भो ह्यनन्तांशेन चोदितः ॥ ३२ वर्धमानं तु गर्भ तं रोहिण्यां समुपानयत् । गर्भसंकर्षणात्तस्यां जातः संकर्षणोऽव्ययः ॥ ३३
१ ङ. अ. 'चदमेन तु । त। २ झ. फ. 'हामाया हि । ३ ङ. 'यः । शुक्लषष्ठयां प्रौष्ठपद्यां संध्यायां च शु।
२५

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697