Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 565
________________ १७८७ २४९एकोनपञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । यं न स्पृशन्ति गुणजातिशरीरधर्मा यं न स्पृशन्ति गतयः खमिवेन्द्रियाणाम् । यं न स्पृशन्ति मुनयो गतसङ्गमोहास्तस्मै नमो भगवते हरये प्रतीचे ।। ११२ यद्ध्यानसंचयनतूर्णवशीकृताङ्गामैश्वर्यचारुगुणितां सुखमोक्षलक्ष्मीम् ।। आलिङ्गय शेरत इहाऽऽत्मसुखैकलाभास्तस्मै नमोऽस्तु हरये मुनिसेविताय ॥ ११३ जन्मादिभावविकृतेविरहस्वभावो यस्मिन्नयं परिधुनोति षडूमिवर्गम् । यं ताडयन्ति न सदा मदनादिदोषास्तं वासुदेवममलं प्रणतोऽस्मि हृद्यम् ॥ ११४ स्थूलं विलाप्य करणं करणे निदानं(ने) तत्कारणं करणकारणजिते च ॥ इत्थं विलाप्य यमिनः प्रविशन्ति यत्र तस्मै नमोऽस्तु हरये मुनिसेविताय ॥ ११५ यद्ध्यानसंगतमलं विजहात्यविद्यां यद्ध्यानवह्निपतितं जगदेति दाहम् । यद्ध्यानमुल्लसदसिधति संशयाब्धि तं त्वां हरिं विशदबोधघनं नमामि ॥ ११६ चराचराणि सर्वाणि भूतान्यस्य हरेः पुरा । यथाऽत्र तेन सत्येन पुरस्तिष्ठति(तु) मे हरिः ११७ यथा नारायणः सर्व जगत्स्थावरजङ्गमम् । तेन सत्येन मे देवः स्वं दर्शयतु केशवः ॥ ११८ भक्तिर्यथा हरौ मेऽस्ति तद्वच्छ्रेष्ठा गुरौ यदि । ममास्ति तेन सत्येन स्वं दर्शयतु केशवः ॥११९ तस्यैवं शपथैः सत्यैर्भक्तिं तस्यानुचिन्तयन् । दर्शयामास चाऽऽत्मानं संप्रीतः पुरुषोत्तमः १२० तदा दत्त्वा वरं तस्मै पूरयित्वा मनोरथम् । जगाम कमलाकान्तः स्तुत्या विप्रेण तोषितः।।१२१ कृतकृत्यो द्विजः सोऽपि वासुदेवपरायणः । शिष्यः साध जपन्स्तोत्रं तस्मिन्नास्ते तपोवने १२२ कीर्तयेद्य इदं स्तोत्रं शृणुयादपि मानवः । अश्वमेधस्य यज्ञस्य प्रामोत्यविकलं फलम् ॥ १२३ आत्मविद्यामवोधं च लभते ब्राह्मणः सदा । न पापे जायते बुद्धिर्नैव पश्यत्यमङ्गलम् ॥ १२४ बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमेन्द्रियकं तथा। नृणां भवति सर्वेषां सम्यक्स्तोत्रस्य कीर्तनात् विचार्यार्थ पठेद्यस्तु शृणुयादपि मानवः । स विधूयेह पापानि लभते वैष्णवं पदम् ॥ १२६ वाञ्छितं लभते कामान्पुत्रान्प्रामोत्यनुत्तमान् । दीर्घमायुर्बलं वीर्य लभते च सदा पठन् ॥ १२७ तिलपात्रसहस्रेण गोसहस्रेण यत्फलम् । तत्फलं समवानोति य इमां कीर्तयेत्स्तुतिम् ॥ १२८ [*धर्मार्थकाममोक्षाणां यं यं कामयते सदा । अचिरात्तमवाप्नोति स्तोत्रेणानेन मानवः ॥ १२९ आचारे विनये धर्मे ज्ञाने तपसि सन्नये । नृणां भवति नित्यं धीरिमां संशृण्वतां स्तुतिम्] १३० महापातकयुक्तोऽपि तथा युक्तोपंपातकैः । सद्यो भवति शुद्धात्मा स्तोत्रस्य पठनात्सकृत् ॥ १३१ प्रज्ञालक्ष्मीयश-कीर्तिज्ञानधर्मविवर्धनम् । दुष्टग्रहोपशमनं सर्वाशुभविनाशनम् ॥ सर्वव्याधिहरं पथ्यं सर्वारिष्टनिषदनम् । दुर्गतेस्तरणं स्तोत्रं पठितव्यं जितात्मभिः ॥ १३३ नक्षत्रग्रहपीडासु राजदैवभयेषु च । अग्निचौरनिपातेषु सद्यः संकीर्तयेदिदम् ॥ सिंहव्याघ्रभयं नास्ति नाभिचारभयं तथा । भूतप्रेतपिशाचेभ्यो राक्षसेभ्यस्तथैव च ॥ १३५ पूतनाजृम्भकेभ्यश्च विघ्नेभ्यश्चैव सर्वदा । नृणां कचिद्भयं नास्ति स्तवे ह्यस्मिन्प्रकीर्तिते ॥ १३६ वासुदेवस्य पूजां यः कृत्वा स्तोत्रमुदीरयेत् । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १३७ 7 गङ्गादिपुण्यतीर्थेषु या स्नानेनाऽऽप्यते गतिः। तां गतिं समवाप्नोति पठन्पुण्यामिमां स्तुतिम् ॥ * धनुश्चिहान्तर्गतः पाठो र. ल. पुस्तकस्थः । + संधिरार्षः । १ छ. र. ल. द्विजातिभिः ।

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697