Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 641
________________ २६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १८६३ तदाघवाय प्रददौ वस्त्राण्याभरणानि च । तेन संपूजितः श्रीमान्रामचन्द्रः प्रतापवान् ॥ ३४४ आरुरोह विमानाय्यं वेदेह्या भार्यया सह । लक्ष्मणेन च शूरेण भ्रात्रा दशरथात्मजः ॥ ३४५ ऋक्षवानरसंघातैः सुग्रीवेण महात्मना । विभीषणेन शूरेण राक्षसैश्च महाबलैः॥ ३४६ यथा विमाने वैकुण्ठे नित्यमुक्तैर्महात्मभिः । तथा सर्वः समारुह्य ऋक्षवानरराक्षसैः॥ ३४७ अयोध्यां प्रस्थितो रामः स्तूयमामः सुरोत्समैः । भारद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ३४८ भरतस्यान्तिके तत्र हनूमन्तं व्यसर्जयत् । स निषादालयं गत्वा गुहं दृष्ट्वाऽथ वैष्णवम् ॥ ३४९ राघवागमनं तस्मै प्राह वानरपुंगवः । नन्दिग्रामं ततो गत्वा दृष्ट्वा तं राघवानुजम् ॥ ३५० न्यवेदयत्तथा तस्मै रामस्याऽऽगमनोत्सवम् । भरतश्चाऽऽगतं श्रुत्वा वानरेण रघूत्तमम् ॥ ३५१ प्रहर्षमतुलं लेभे सानुजः ससुहृजनः । पुनरागत्य काकुत्स्थं हनूमान्मारुतात्मजः ॥ ३५२ __ सर्व शशंस रामाय भरतस्य च वर्तनम् । राघवस्तु विमानायादवरुह्य सहानुजः॥ ३५३ ववन्दे भार्यया सार्धं भरद्वाजं तपोनिधिम् । स तु संपूजयामास काकुत्स्थं सानुजं मुनिः ॥३५४ पकान्नैः फलमूलाद्यैर्वस्वैराभरणैरपि । तेन संपूजितस्तत्र प्रणम्य मुनिसत्तमम् ॥ अनुज्ञातः समारुह्य पुष्पकं सानुगस्तदा । नन्दिग्रामं ययौ रामः पुष्पकेण सुहृद्धृतः॥ ३५६ मत्रिभिः पौरमुख्यैश्च सानुजः कैकयीसुतः । प्रत्युद्ययौ नृपवरैः सबलैः पूर्वजं मुदा ॥ ३५७ संप्राप्य रघुशार्दूलं ववन्दे सोऽनुगैर्वृतः । [+पुष्पकादवरुह्याथ राघवः शत्रुतापनः ॥ ३५८ भरतं चैव शत्रुघ्नमुपसंपरिषस्वजे । पुरोहितं वसिष्ठं च मातृवृद्धांश्च बान्धवान् ॥ ३५९ पणनाम महातेजाः सीतया लक्ष्मणेन च । विभीषणं च सुग्रीवं जाम्बवन्तं तथाऽङ्गदम् ॥ ३६० हनूमन्तं सुषेणं च भरतः परिषस्वजे । भ्रातृभिः सानुगैस्तत्र मङ्गलस्नानपूर्वकम् ॥ ३६१ दिव्यमालाम्बरधरो दिव्यगन्धानुलेपनः । आरुरोह रथं दिव्यं सुमत्राधिष्ठितं शुभम् ॥ ३६२ संस्तूयमानस्त्रिदशैदेह्या लक्ष्मणेन च । भरतश्चैव सुग्रीवः शत्रुघ्नश्च विभीषणः॥ ३६३ अङ्गदश्च सुपेणश्च जाम्बवान्मारुतात्मजः । नीलो नलश्च सुभगः शरभो गन्धमादनः॥ ३६४ अन्ये च कपयः शूरा निषादाधिपतिर्मुहः । राक्षसाश्च महावीर्याः पार्थिवेन्द्रा महाबलाः ॥३६५ गजानश्वाव्रथान्सम्यगारुह्य(रूढा) बहुशः शुभान् । नानामङ्गलवादित्रैः स्तवनैः पुष्कलैस्तथा ॥ ऋक्षवानररक्षोभिर्निपादनरसैनिकैः । प्रविवेश महातेजाः साकेतं पुरमव्ययम् ॥ ३६७ आलोक्य राजनगरी पथि राजपुत्रो राजानमेव पितरं परिचिन्तयानः।। सुग्रीवमारुतिविभीषणपुण्यपादसंचारपूतभवनं प्रविवेश रामः ॥ ३६८ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे रामस्यायोध्याप्रवेशो नामेकोनसप्तत्य धिाद्विशतमोऽध्यायः ॥ २६९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४७००० + धनुश्चिह्नान्तर्गतः पाटो झ. फ. पुस्तकस्थः । १ झ. फ. गैर्नुपः । पु । २ इ. अ. सुमित्राधि ।

Loading...

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697