Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 659
________________ " २७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । आशिषं प्रददौ देवी तनयाभ्यां दृढव्रता । विससर्ज महावीरौ समालिङ्गय मुहुर्मुहुः ॥ अक्रूरोऽपि यशोदायै प्रणम्य प्राह साञ्जलिः || १८८१ अक्रूर उवाच - प्रयास्यामि महाभागे प्रसादं कुरु मेऽनघे । एष कृष्णो महाबाहुः कंसं हत्वा महाबलम् ||२८९ सर्वस्य जगतो राजा भविष्यति न संशयः । तस्माच्छोकं परित्यज्य सुखी भव वरानने ।। २९० ईश्वर उवाच इत्युक्त्वा स तया क्रूरो विसृष्टो यदुसत्तमः । सहितो रामकृष्णाभ्यामारुरोह रथोत्तमम् ||२९१ प्रययौ मथुरां शीघ्रं स्तूयमानोऽप्सरोगणैः । नन्दगोपमुखाः सर्वे गोपवृद्धास्तमन्वयुः ॥ २९२ गृहीत्वा बहु दध्याज्यं फलानि विविधानि च । तं प्रयान्तं हरिं दृष्ट्वा गोकुलाद्गोपयोषितः २९३ अनुजग्मुर्विनिष्क्रान्तं रथस्थं मधुसूदनम् । निवर्तयामास हरिस्ताः सर्वा गोपयोषितः ।। २९४ शोकसंतप्तहृदया विलेपुः कमलेक्षणाः । हा कृष्ण कृष्ण कृष्णेति गोविन्देत्यरुदन्मुहुः || २९५ अश्रुपूर्णेक्षणा दीना रुदत्यस्तत्र संस्थिताः । अथाकूरो रथं दिव्यं चोदयामास गोत्रजात् ॥ २९६ सहितो रामकृष्णाभ्यां मथुरां प्रति यादवः । उत्तीर्य यमुनां शीघ्रं कूले स्थाप्य रथोत्तमम् २९७ अवरुह्य रथात्तस्मात्स्नातुं तत्रोपचक्रमे । तथा चाssवश्यकं कर्तुं निमज्ज्याथ जले शुभे ।। २९८ तत्राघमर्षणं सम्यग्जपन्भागवतोत्तमः । ददर्श तौ जले तत्र रामकृष्णौ शुभान्वितौ ॥ शरत्कोटीन्दुसंकाशं नीलाम्बरधरं प्रभुम् । दिव्यचन्दनदिग्धाङ्गं मौक्तिकाभरणच्छविम् ।। ३०० रक्तारविन्दनयनं पुण्डरीकावतंसकम् । रामं ददर्श कृष्णं च नीलनीरदसंनिभम् ॥ दिव्यपीताम्बरधरं पुण्डरीकायतेक्षणम् । हरिचन्दनलिप्ताङ्गं नानारत्नविभूषितम् ।। दृष्ट्वा तत्र यदुश्रेष्ठो विस्मयं परमं गतः । उत्थाय स्यन्दने तत्र तौ ददर्श महाबलौ ॥ पुनरप्यत्र निर्मज्ज्य जपन्मन्त्रद्वयं हरिम् । सुधाब्धौ शेषपर्यङ्के रमया सहितं हरिम् ॥ सनकाद्यैः : स्तूयमानं सर्वदेवैरुपासितम् । दृष्ट्वा तस्मिञ्जले देवं विस्मयं परमं ययौ ।। तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ॥ २९९ ३०१ ३०२ ३०३ ३०४ अक्रूर उवाच— धनुश्चिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः । १ झ. 'ध्क्रान्ता र' । २ झ. फ. शीघ्रं । ३ झ. फ. हुतात्मने । ४क. ज. झ. फ. धात्रे । २३६ २८८ ३०५ ३०७ ३०८ ३०९ कौलात्मने नमस्तुभ्यमनादिनिधनाय च । अव्यक्ताय नमस्तुभ्य[मविकाराय ते नमः || ३०६ भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः । नमस्ते सर्वभूतानां नियत्रे परमात्मने । विकारायाविकाराय प्रत्यक्षपुरुषाय च । गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ॥ देशकालादिनिर्भेदरहिताय परात्मने । अनन्ताय नमस्तुभ्यमच्युताय नमो नमः ॥ गोविन्दाय नमस्तुभ्यं ] त्रयीरूपाय शार्ङ्गिणे । नारायणाय विश्वाय वासुदेवाय ते नमः ।। ३१० विष्णवे पुरुषायाथ शाश्वताय नमो नमः । पद्मनेत्राय नित्याय शङ्खचक्रधराय च ॥ उद्यत्कोटिरविप्रख्यभूषणान्वितवर्चसे । हरये सर्वलोकानामीश्वराय नमो नमः || सवित्रे सर्वजगतां बीजाय परमात्मने । संकर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः ॥ अनिरुद्धाय धाम्ने च विधात्रे विश्वयोनये । सहस्रमूर्तये तुभ्यं वहुमुघ्रिवाहवे || ३११ ३१२ 1 ३१३ ३१४ *

Loading...

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697