Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 648
________________ १८७० महामुनिश्रीव्यासपणीतं [ ६ उत्तरखण्डेप्रययौ शाश्वतं दिव्यमक्षरं स्वपदं विभुः । यः पठेद्रामचरितं श्लोकं श्लोकार्धमेव वा ॥ ९४ शृणुयाद्वा तथा भक्त्या स्मरेद्रा शुभदर्शने । कोटिजन्मार्जितात्पापाज्ज्ञानतोऽज्ञानतः कृतात॥९५ विमुक्तो वैष्णवं लोकं पुत्रदारस्वबान्धवैः । समानुयाद्योगिगम्यमनायासेन वै नरः॥ ९६ । एतत्ते कथितं देवि रामस्य चरितं महत् । धन्योऽस्म्यहं त्वया देवि रामचन्द्रस्य कीर्तनात् ॥ किमन्यच्छ्रोतुकामाऽसि तद्रवीमि वरानने ॥ पुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीरामचरित्रकथनं नामकसप्तत्यधिकद्विशततमोऽध्यायः ॥ २१ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४७१५० ९७ अथ द्विसप्तत्यधिकद्विशततमोऽध्यायः । . [*पार्वत्युवाचरघुनाथस्य चरितं साधूक्तं हि त्वया विभो । श्रुत्वा धन्याऽस्मि देवेश त्वत्प्रसादान्महेश्वर ॥ १ । चरितं वासुदेवस्य कृष्णस्य चरितं महत् । श्रोतुमिच्छामि देवस्य चरितं कल्मषापहम् ॥ २ रुद्र उवाचशृणु देवि प्रवक्ष्यामि कृष्णस्यास्य महात्मनः । चरितं वासुदेवस्य सर्वेषां फलदं नृणाम् ॥ ३ । यदनामन्वये देवि वसुदेव इतीरितः । देवमीढस्य पुत्रोऽभूत्सर्वधर्मविदां वरः॥ उग्रसेनस्य दुहितां देवकी देववर्णिनीम् । उपयेमे विधानेन मथुरायां नृपात्मजः ॥ ५ उग्रसेनस्य पुत्रोऽभूत्कंसः शूरो महाबलः । तयो रथवरं तत्र चोदयामास सारथिः॥ ६ समागतेषु तेष्वेवं पार्थिवान्यैः शुभावहैः (?) । अन्तरिक्षेऽशरीरा वाक्माह गम्भीरया गिरा ॥७ आकाशवागुवाचअस्यास्त्वाम(स्तवा)ष्टमो गर्भः कंस प्राणान्हनि[रिष्यति ॥ रुद्र उवाचतच्छ्रुत्वा हन्तुमारेभे कंसोऽपि भगिनीं तदा । तमब्रवीत्सुसंरब्धं वसुदेवः सुबुद्धिमान् ॥ ९ वसुदेव उवाचन हन्तव्या महाभाग भगिनी धर्मतस्त्वया । गर्भानेव समुत्पन्नाञ्जहि राजन्महाबल ॥ १० रुद्र उवाचतथेत्याह तदा कंसो वसुदेवं च देवकीम् । निरुध्य स्वगृहे रम्ये सर्वभोगैन्यवेशयत् ॥ ११ एतस्मिन्नन्तरे देवि भूरिभारावपीडिता । जगाम धरणी देवी सहसा ब्रह्मणोऽन्तिके ॥ १२ समेत्य जगतामीशं ब्रह्माणं परमष्ठिनम् । माह गम्भीरया वाचा धरणी लोकधारिणी ॥ १३ धरण्युवाचप्रजापते न शक्ताऽस्मि धर्तु लोकानिमान्मभो । राक्षसाः पापकर्माणः संस्थिता मयि सुव्रत॥१४ जगतः सकलान्धर्मान्विध्वंसन्ति महाबलाः । अधर्मवर्चसः सर्वे नराः पापविमोहिताः॥ १५ । * धनुश्चिदान्ततः पाठः, क. ज. झ. अ. फ. पुस्तकस्थः ।

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697