Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 683
________________ . २८० अशीत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १९०५ अथाशीत्यधिकद्विशततमोऽध्यायः । पार्वत्युवाचभगवन्सर्वमाख्यातं वैभवावस्थितं हरेः । एतस्मिन्रामकृष्णाभ्यां चरित्रमतिविस्मितम् ॥ १ अहो रामस्य चरितं कृष्णस्य च महात्मनः । शृण्वत्या मम देवेश कल्पान्तरशतैरपि ॥ २ तृप्ति नोदेति भूतेश चेतो हरिकथां प्रति । अधुना श्रोतुमिच्छामि विष्णोर्माहात्म्यमुत्तमम् ॥ तत्पूजनविधि देव श्रोतुमिच्छाम्यहं तथा ॥ रुद्र उवाचशृणु देवि प्रवक्ष्यामि हरेश्च सुमहात्मनः । स्थापनं च स्वयं व्यक्तं द्विविधं तत्प्रकीर्तितम् ॥ ४ शिलामृद्दारुलोहाद्यैः कृत्वा प्रतिकृति हरेः । श्रौतस्मार्तागममोक्तक्रियासंस्थापनं हि यत् ॥ ५ तत्स्थापनमिति प्रोक्तं स्वयं व्यक्तं हि मे शृणु । यस्मिन्संनिहितो विष्णुः स्वयमेव नृणां भुवि ६ पाषाणदाऊरात्मेशः स्वयं व्यक्तं हि तत्स्मृतम् । स्वयं व्यक्तं स्थापितं वा पूजयेन्मधुसूदनम् ७ देवतानां महर्षीणामर्चनार्थे सनातनः । स्वयमेव जगन्नाथः सांनिध्यं याति केशवः ॥ ८ यस्य यद्विग्रहे भोग्यं तदेवाऽऽविरभूद्भुवि । तदेव पूजयेन्नित्यं तस्मिन्नेव रमेत्सदा ॥ ९ श्रीरङ्गशायी देवेशो विध्यय॑श्च शुभानने । [*स एवेक्ष्वाकुनाथानां तपसाऽऽविरभूद्भुवि ॥१० ममापि काश्यां संपूज्यो माधवः कलुषापहः । यत्र यत्र गृहे रम्ये स्वयं व्यक्तः सनातनः ॥११ तत्र तत्र समागम्य रमेऽहं संव्यवस्थितः । नाष्टाङ्गयोगे यज्ञेशस्त्वर्चायां विन्दते नृणाम् ॥ १२ चक्षुषोविषयं प्राप्य ददाति वरमीप्सितम् । सोवस्थासु सोलभ्यमचोयां लभ्यते जनैः ॥ १३ अज्ञानामपि सांनिध्यं सर्वदा पृथिवीतले । जम्बूद्वीपे महापुण्ये वर्षे वै भारते शुभे ॥ १४ अर्चायां संनिधौ विष्णुर्नेतरेषु कदाचन । तस्माद्वै भारते विष्णुर्मुनिभिस्त्रिदशैरपि ।। १५ सेवितः सततं देवि तपोयज्ञक्रियादिभिः । भारतेऽस्मिन्महावर्षे नित्यं संनिहितो हरिः॥ १६ ऐन्द्रद्युम्ने तथा कोर्मे सिंहादौ करवीरके । काश्यां प्रयागे सौम्ये च शालग्रामार्चने तथा ॥ १७ द्वारवत्यां नैमिषे च तथा बदरिकाश्रमे । कृतशोचे हरेत्पापं पौण्डरीके च दण्डके ॥ १८ माथुरे वेङ्कटाद्रौ च श्वेताद्रो गरुडाचले । काञ्च्यामनन्तशयने श्रीरङ्गे भैरवाचले ॥ १९ नारायणाचले सौम्ये वाराहे वामनाश्रमे । एवमाद्याः स्वयं व्यक्ताः सर्वकामफलपदाः॥ २० स्वयमेव हि सांनिध्यं यस्मिन्याति जनार्दनः । तस्मिन्नेव स्वयं व्यक्तं वदन्ति मुनयः शुभाः २१ महाभागवतश्रेष्ठो विधिनाऽऽस्थाप्य केशवम् । मन्त्रेण कुर्यात्सांनिध्यं स्थापनं तद्विशिष्यते ॥२२ तस्मिन्संपूजयेद्देवं ग्रामेषु च गृहेषु च । शालग्रामशिलायां तु गृहार्चा सद्भिरिष्यते ॥ २३ अर्चनं मन्त्रपठनं यागयोगो महात्मनः । नामसंकीर्तन सेवा तच्चिकैरङ्कनं तथा ॥ २४ तदीयाराधनं च स्यानवधा भिद्यते शुभे । नवकर्मविधानं च विपस्य सततं स्मृतम् ॥ २५ महाभागवतश्रेष्ठो ब्राह्मणो वै गुरुर्नृणाम् । सर्वेषामेव लोकानामसौ पूज्यो यथा हरिः॥ २६ तापादिपञ्चसंस्कारी नवेज्याकर्मकारकः । अर्थपञ्चकविद्विषो महाभागवतः स्मृतः॥ २७ * धनुश्चिदान्तर्गतः पाठः क. च. ज. झ. ढ. पुस्तकस्थः । १ क. ज. सगेत्तमः । २ क. ज. झ. फ. वासनावले ।

Loading...

Page Navigation
1 ... 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697