Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 688
________________ १९१० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डे- . अर्चयित्वा हृषीकेशमन्नं चूतफलैयुतम् । निवेद्य च सुभक्त्या वै गवां कोटिप्रदो भवेत् ॥ १५१ वैष्णवान्भोजयित्वाऽथ सर्वमानन्त्यमामुयात् । आषाढे देवदेवेशं लक्ष्मीभर्तारमच्युतम् ॥ १५२ श्रीपुष्पैरर्चयनित्यं पायसानं निवेदयेत् । मासान्ते भोजयेद्विप्रान्महाभागवतोत्तमान् ॥ १५३ पष्टिवर्षसहस्रस्य पूजां प्रामोत्यसंशयः । नभोमास्यर्चयेद्विष्णुं पुंनागैः केतकीदलैः ॥ १५४ । अर्चयित्वाऽच्युतं भक्त्या न भूयो जन्मभाग्भवेत् । दद्यादपूपान्भक्त्याऽथ शर्कराघृतमिश्रितान् ब्राह्मणान्भोजयेत्तद्वन्महाभागवतोत्तमान् । नभस्येऽप्यर्चयेदीशं कुन्दैः कुरबकैरपि ॥ १५६ क्षीरानं गुणसंमिश्रं भक्त्या तत्र निवेदयेत् । गवां कोटिप्रदानस्य प्रत्यहं फलमानुयात् ।। १५७ नीलोत्पलैरिषे मासि पूजयेन्मधुसूदनम् । भक्त्या निवेदयेत्तस्मिन्क्षीरमापूपमिश्रितम् ॥ १५८ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । वैष्णवं लोकमामोति मुदितः स्वजनदृतः ॥ १५९ । ऊर्जे मासि तथा देवि कोमलैस्तुलसीदलैः। पूजयित्वाऽच्युनं भक्त्या तत्सायुज्यमवाप्नुयात् १६० - क्षीराज्यशर्करोपेतमिष्टान्नं पायसं तथा । अपूपं च क्रमेणैव भक्त्या सम्यनिवेदयेत् ॥ १६१ अमायां मन्दवारे च वैष्णवः तथैव च । रविसंक्रमे व्यतीपाते ग्रहणे चन्द्रसूर्ययोः ॥ १६२ विशेषेणार्चयेद्विष्णुं यथाशक्ति वरानने । गुरोरुत्क्रान्तिदिवसे जन्मःषु तथा हरेः॥ १६३ इष्टिं च वैष्णवीं कुर्याच्छक्त्या वै द्विजसत्तमः।दद्यात्पुष्पाञ्जलिं तत्र प्रत्यूचं वेदसंमितम् ॥१६४ पारणं चापि कुर्वीत चरुणा पायसेन वा। वैष्णवान्भोजयेद्विपाशक्त्या दद्याच्च दक्षिणाम् १६५ कुलकोटि समुद्धृत्य वैष्णवं पदमामुयात् । सर्ववेदैरशक्तश्चेद्यष्टुं भागवतोत्तमः ।। वैष्णवैरनुवाकैर्वा सप्तरात्रं निरन्तरम् । पुष्पाञ्जलिसहस्रं तु [*होमं च प्रत्यहं चरेत् ॥ १६७ प्रीतये वा भगवतः प्रतिश्लोकं यजेद्बुधः । अथाचं(N) मत्ररत्नं हि सप्तरात्रं निरन्तरम् १६८ अष्टोत्तरसहस्रं तु] जुहुयाद्धविषा यजेत् । विशेषेणार्चयेद्विद्वान्महाभागवतोत्तमान् ॥ १६९ अन्ते चावभृथं कुर्याद्यथाविभवसारतः । वैष्णवैरनुवाकैश्च कुर्यादवभृथं द्विजः ॥ १७० तत्र स्नात्वा विधानेन यथाशक्त्या(क्ति) द्विजोत्तमः । शुभे पात्रान्तरे रम्ये पादौ प्रक्षाल्य भक्तितः । अर्चयेद्गन्धपुष्पाद्यैर्वस्वैराभरणादिभिः । ताम्बूलेन फलैर्वाऽपि यथाशक्त्या(क्ति) समर्चयेत् १७२ भोजयित्वाऽन्नपानाद्यैः प्रणम्य च पुनः पुनः। आसीमान्तमनुव्रज्य नमस्कृत्य विसर्जयेत् १७३ । पुनः प्रणम्य भक्त्याऽथ शनैस्तत्र निवर्तितः । गृहं प्रविश्य देवेशं पूजयेत्प्रयतात्मवान् ॥ १७४ एवमभ्यर्चयेद्विष्णुं यावजीवमतन्द्रितः । तदीयांश्च विशेपेण पूजयेत्सर्वदा शुभे ॥ १७५ आराधनानां सर्वेषां विष्णोराराधनं [+परम् । तस्मात्परतरं देवि तदीयानां समर्चनम् ॥१७६ अर्चयित्वाऽथ गोविन्दं तदीयान्नार्चयेत्पुनः । न स भागवतो ज्ञेयः केवलं दाम्भिको हि सः ॥ तस्मात्सर्वप्रयत्नेन वैष्णवान्पूजयेत्सदा । सर्व तरति दुःखौघं महाभागवतार्चनात् ॥ १७४ एवमुक्तं मया देवि विष्णोराराधनं परम् । नित्यनैमित्तिकं चैव तदीयानां च पूजनम् ॥ १७९ * धनुचिहान्तर्गतः पाठः क. व. पुस्तकस्थः । + धनुचिहान्तर्गतः पाठः क. ज. झ. अ. फ. पुस्तकस्थः । क ज. झ. फ. 'द्वत्मवेमानन्त्यमाप्नयात् । न । २फ.थाभक्त्या यात्रायां च वि। ५ दृ. धनेन स। व ज. स. 'रोरक्षादिदि । ४ ङ. तः ।

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697