Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 658
________________ १८८० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेदानवान्प्रेरयामास निधनाय महात्मनः । बालेनैव हताः सर्वे लीलयाऽनेन धीमता ॥ २५६ . अत्यद्भुतानि कर्माणि कृतवान्परमेश्वरः । गोवर्धनाद्रिधरणं नागराजविवासनम् ॥ २५७ समागमं महेन्द्रस्य निधनं सर्वरक्षसाम् । श्रुत्वा देवर्षिणाऽऽख्यातमतीवभयपीडितः॥ २५८ इतो नीत्वा महाबाहू रामकृष्णौ दुरासदौ । मदोत्कटैर्महानागैर्मल्लै| हन्तुमुद्यतः ॥ २५९ कृष्णस्य नयनार्थाय प्रेरयामास मामिह । वसुदेवस्य दुष्टात्मा निग्रहं कृतवानसौ ॥ २६० एतत्सर्व समाख्यातं चेष्टितं सुदुरात्मनः । उपभोक्तुं धनुर्यागं यूयं सर्वे व्रजौकसः॥ २६१ दध्याज्यादि गृहीत्वा वै श्वोभूते गन्तुमर्हथ । सहिता रामकृष्णाभ्यां गोपाः सर्वे तदन्तिकम्२६२ कृष्णेन निहतः कंसो भविष्यति न संशयः। परित्यज्य भयं तस्माद्गमिष्यध्वं(न्तव्यं वै)नेपाज्ञया ईश्वर उवाचइत्युक्त्वा स तदाऽङ्करस्तूष्णीमासीत्सुबुद्धिमान् । तस्य तद्वचनं श्रुत्वा दारुणं रोमहर्षणम् २६४ नन्दगोपमुखाः सर्वे गोपवृद्धा भयातुराः । आजग्मिरे महादुःखसागरे शोकमोहिताः ॥ २६५ " तानाश्वास्य हरिस्तत्र दृष्ट्या कमललोचनः । न भीः कार्येति संप्राह राक्षसं प्रति वीर्यवान्२६६ विनाशाय प्रयास्यामि कंसस्यास्य दुरात्मनः । मथुरां सह रामेण भवद्भिः सह संगतः ॥ २६७ तत्र हत्वा दुरात्मानं कंसं दानवपुंगवम् । सर्वाश्च राक्षसाम्हत्वा पालयिष्यामि मेदिनीम् ॥२६८ तस्माच्छोकं परित्यज्य गच्छध्वं मथुरां पुरीम् । एवमुक्तास्तु हरिणा गोपनन्दपुरोगमाः॥२६९ मुहुर्मुहुः परिष्वज्य मूर्ध्याघ्राणं प्रचक्रिरे । अप्रमेयानि कर्माणि विचार्य सुमहात्मनः ॥ २७० अक्रूरवचनाच्चैव गोपाः सर्वे गतव्यथाः। दुग्धदध्याज्ययुक्तानि शुचीनि विविधानि च ॥२७१ पक्कान्नानि सुहृद्यानि स्वादूनि मधुराणि च । अक्रूराय ददौ सौम्यं यशोदा भोजनं बहु॥२७२ सहितो रामकृष्णाभ्यां नन्दाद्यैर्गोपसत्तमैः । सुहृद्भिर्बालवृद्धश्च भवने समलंकृते ॥ २७३ दत्तं यशोदया सौम्यं भोजनं कलुषापहम् । बुभुजे यादवश्रेष्ठो ह्यनुरागावहं शुभम् ॥ २७४ भोजयित्वा यथान्यायं दत्त्वाऽऽचमनमम्भसा । सकर्परं सुताम्बूलं ददौ तस्मै दृढव्रता ॥ २७५ अस्तं याते दिनकरे संध्यामुपास्य यादवः । सहितो रामकृष्णाभ्यां भुक्त्वा क्षीरानमुत्तमम् ॥ ताभ्यामेव तदाऽक्रूरः शयनं समुपाविशत् । तस्मिस्तु भवने श्रेष्ठे रम्ये दीपविराजिते ॥ २७७ श्लक्ष्णे विचित्रपर्यङ्के नानापुष्पविराजिते । तस्मि शेते हरिः कृष्णः शेषे नारायणो यथा।॥२७८ तं दृष्ट्वा सहसाऽक्रूरो हर्षाश्रुपुलकाङ्कितः। विहाय तामसीं निद्रां सुश्रेयः समुदीक्ष्य वै ॥ २७९ पादसंवाहनं विष्णोश्चक्रे भागवतोत्तमः । एतावता मे साफल्यं जीवितं च सुजीवितम् ॥ २८० इदं त्रैलोक्यमैश्वर्यमिदं वै सुखमुत्तमम् । इदं राज्यमिदं धर्ममिदं मोक्षसुखं परम् ॥ २८१ न शक्यं मनसा स्मर्तु शिवब्रह्मादिदेवतैः । सनकायैर्मुनीन्द्रश्च वसिष्ठायैमहर्षिभिः॥ २८२ तच्छ्रीशस्य पदद्वंद्वं शरदम्बुरुहोज्ज्वलम् । संस्पृष्टमिन्दिराश्लक्षणकराभ्यां सुसुखं परम् ॥ २८३ दिट्या लब्धं मया विष्णोः श्रीपदाब्जयुगं शुभम् । व्यतीता सा क्षणाद्रात्रिस्तब्रह्मानन्दगौरवात् ततः प्रभाते विमले दिवि देवगणोत्तमैः । संस्तूयमानों बुबुधे तस्मात्तु शयनाद्धरिः ॥ २८५ । उपस्पृश्य यथान्यायं सह रामेण धीमता । पपात पादयोर्मातुः प्रयाणं चाभ्यरोचयत् ॥ २८६ समुत्थाप्य यशोदा तु दुःखहर्षसमन्विता । अश्रुपूर्णमुखी पुत्रौ प्रेम्णा संपरिषस्वजे ॥ २८७ १ झ. फ. मुदान्विताः । २ क. ज. झ. द. फ. दृष्ट्वा । ३ झ. फ. जरारोगापहं ।

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697