Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२३०
२७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८७९ तस्मात्वं गोव्रजं गत्वा कृष्णं रामं च यादव । सर्वान्गोपालवृद्धांश्च नन्दगोपपुरोगमान् ॥ उपभोक्तुं धनुर्यागमिहाऽऽनय यदूत्तम ॥
महादेव उवाचतथेत्युक्त्वा यदुश्रेष्ठो रथमारुह्य वीर्यवान् । प्रययौ गोकुले रम्ये कृष्णसंदर्शनोत्सुकः ॥ २३१ महाभागवतश्रेष्ठो गवां मध्ये व्यवस्थितम् । ददर्श कृष्णमक्लिष्टमकूरो विनयान्वितः ॥ २३२ नीलनीरदसंकाशं पूर्णेन्दुसदृशाननम् । पद्मपत्रविशालाक्षं दीर्घबाहुमनामयम् ॥ २३३ पीतवस्त्रेण संवीतं सर्वाभरणभूषितम् । कौस्तुभोद्भासितोरस्कं रत्नकुण्डलशोभितम् ॥ २३४ तुलसीवनमालाढ्यं वन्यपुष्पावतंसकम् । गोपकन्यापरिवृतं दृष्ट्वा तत्र जनार्दनम् ॥ २३५ पुलकाङ्कितसर्वाङ्गो हर्षाश्रुष्टुतलोचनः । अवरुह्य रथात्तस्मात्मणनाम यदूद्वहः ॥ २३६ हर्षात्समेत्य गोपालं परिणीय प्रणम्य च । रक्तारविन्दसदृशे वज्रचक्राङ्कचिह्निते ॥ २३७ स मूनि धृत्वा पादाजे प्रणनाम पुनः पुनः । कैलासशिखराभासं नीलाम्बरधरं प्रभुम् ॥ २३८ शरत्पूर्णेन्दुसदृशं मुक्तादामविभूषितम् । बलरामं ततो दृष्ट्वा प्रणनाम स यादवः॥ २३९ हर्षेणोत्थाय तौ वीरौ परिपूज्य यदूत्तमम् । गृहमाजग्मतुर्वीरौ तेनाकूरेण वृष्णिना ॥ २४० नन्दगोपस्तु तं दृष्ट्वा यदुश्रेष्ठं समागतम् । अभिगम्य महातेजा निवेश्य परमासने ॥ २४१ अर्चयामास विधिवदर्घ्यपाद्यादिभिर्मुदा । वस्त्रैराभरणैर्दिव्यैरर्चयामास भक्तितः॥ २४२ अक्रूरो रामकृष्णाभ्यां वस्त्राण्याभरणानि च । प्रददौ नन्दगोपाय यशोदायै च यादवः ॥२४३ पृष्ट्वा कुशलमव्यग्रमासीनस्तु कुशासने । राजकार्याणि सर्वाणि पृष्ट उवाच बुद्धिमान् ॥ २४४
अक्रूर उवाचएष कृष्णो महातेजाः साक्षानारायणोऽव्ययः । देवतानां हितार्थाय साधूनां रक्षणाय च २४५ भूभारकविनाशाय धर्मसंस्थापनाय च । कंसादीनां तु दैत्यानां सर्वेषां निधनाय च ॥ २४६ संपार्थितः सुरगणैर्मुनिभिश्च महात्मभिः । देवकीजठरे जातः प्रावृद्काले महानिशि ॥ २४७ भयात्कंसस्य देवेशमानीयाऽऽनकदुन्दुभिः । तव गेहे तदा रात्री पुत्रं निक्षिप्तवान्हरिम् ॥ २४८ तस्मिन्नेव तु कालेऽपि यशोदा तु यशस्विनी। कन्यां मायांशसंभूतां प्रसूताऽऽशु शुभाननाम्२४९ तया संमोहितं सर्वमिदं व्रजकुलं भृशम् । मूर्छिताया यशोदायाः शयने [*यदुपुंगवम् ॥ २५० कृष्णं निक्षिप्य तां कन्यामादाय स्वगृहं ययौ। तां तु निक्षिप्य देवक्याः शयने] बहिरागमत्र२५१ सा रुरोद ततः क्षिप्रं देवकीशयने स्थिता । तच्छ्रुत्वा सहसा कंसः कन्यामादाय दानवः २५२ भ्रामयित्वा शिलापृष्ठे चिक्षेपोत्पत्य वीर्यवान् । समुत्थाय च सा कन्या सायुधाष्टभुजान्विता ॥ गगनस्था रुषा कंसं प्राह गम्भीरया गिरा ॥
२५३ कन्योवाचयोऽनन्तः सर्वदेवानामीश्वरः पुरुषोत्तमः । जातस्तव वधार्थाय गोबजे दानवाधम ॥ २५४
अक्रूर उवाचइत्युक्त्वा सा महामाया हिमवन्तं समाययो । तदामभृति दुष्टात्मा भयादुद्विनमानसः॥ २५५
तर्गतः पाठः क. ज. स. फ. पुस्तकस्थः ।
१ झ. फ. अभिवाद्य ।

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697