Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 636
________________ १८५८ महामुनिश्रीव्यासप्रणीतं - [ ६ उत्तरखण्डे २१२ २१३ २१८ २१९ प्राणसंशयमापन्नं दृष्ट्वा सीताऽथ वायसम् । त्राहि त्राहीति भर्तारमुवाचं विनयाद्विभुम् । २०६ पुरतः पतितो देवि धरण्यां वायसस्तदा । तच्छिरः पाइयोस्तस्य योजयामास जानकी || २०७ तमुत्थाप्य करेणाथ कृपापीयूपसागरः । ररक्ष रामो गुणवान्वायसं दययाऽर्दितः ॥ २०८ तमाह वायसं रामो मा भैरिति दयानिधिः । अभयं ते प्रदास्यामि गच्छ गच्छ यथासुखम् ॥ प्रणम्य राघवायाथ सीतायै च मुहुर्मुहुः । स्वर्लोकं प्रययावाशु राघवेण च रक्षितः ॥ २१० ततो रामस्तु वैदेद्या लक्ष्मणेन च धीमता । उवास चित्रकूटाद्रौ स्तूयमानो महर्षिभिः ।। २११ तस्मिन्संपूज्यमानस्तु भारद्वाजेन राघवः । जगामात्रेः सुविपुलमाश्रमं रघुसत्तमः ॥ समागतं रघुवरं दृष्ट्वा मुनिवरोत्तमः । भार्यया सह धर्मात्मा प्रत्युद्गम्य मुदा युतः ॥ आसने सुशुभे मुख्ये निवेश्य सह सीतया । अर्घ्यपाद्याचमनीयं वस्त्राणि विविधानि च ॥ २१४ मधुपर्क ददौ प्रत्याभूषणं चानुलेपनम् । तस्य पत्न्यनसूया तु दिव्याम्बरमनुत्तमम् ॥ २१५ सीतायै प्रददौ प्रीत्या भूषणानि घुमन्ति च । दिव्यान्नपानभक्षाद्यैर्भोजयामास राघव ॥ २१६ तेन संपूजितस्तत्र भक्त्या परमया नृपः । उवास दिवस तत्र प्रीत्या रामः सलक्ष्मणः || २१७ प्रभाते विमले रामः समुत्थाय महामुनिम् । परिणीय प्रणम्याथ गमनायोपचक्रमे । अनुज्ञातस्ततस्तेन रामो राजीवलोचनः । प्रययौ दण्डकारण्यं महर्षिकुलसंकुलम् ॥ सत्रातिभीषणं घोरं विराधं नाम राक्षसम् । हत्वाऽथ शरभङ्गस्य प्रविवेशाश्रमं शुभम् || २२० स तु दृष्ट्वाऽथ काकुत्स्थं सद्यः संक्षीणकल्मषः । प्रययौ ब्रह्मलोकं तु गन्धर्वाप्सरसान्वितम् २२१ सुतीक्ष्णस्याप्यगस्त्यस्य ह्यगस्त्यभ्रातुरेव च । क्रमेण प्रययौ रामस्तैश्च संपूजितस्तथा ॥ पञ्चवय्यां ततो रामो गोदावर्यास्तटे शुभे । उवास सुचिरं कालं सुखेन परमेण च ॥ तत्र गत्वा मुनिश्रेष्ठास्तापसा धर्मचारिणः । पूजयामासुरात्मेशं रामं राजीवलोचनम् ॥ भयं विज्ञापयामासुस्तं च रक्षोगणेरितम् । तानाश्वास्य तु काकुत्स्थो ददौ चाभयदक्षिणाम् २२५ ते तु संपूजितास्तेन स्वाश्रमान्संप्रपेदिरे । तस्मिंस्त्रयोदशाब्दानि रामस्य परिनिर्ययुः ॥ गोदावर्यास्तटे पुण्ये पञ्चयां मनोरमे । कस्यचित्त्वथ कालस्य राक्षसी घोररूपिणी ॥ रावणस्य स्वसा तत्र प्रविवेश दुरासदा । सा तु दृष्ट्वा रघुवरं कोटिकंदर्प संनिभम् ॥ इन्दीवरदलश्यामं पद्मपत्रायतेक्षणम् । प्रोन्नतांसं महाबाहुं कम्बुग्रीवं महाहनुम् ॥ संपूर्णचन्द्रसदृशं सस्मिताननपङ्कजम् । भृङ्गावलिनिभैः स्निग्धैः कुटिलैः शीर्षजैरृतम् ॥ रक्तारविन्दसदृशपद्महस्ततलाङ्कितम् । निष्कलङ्केन्दुसदृशनखपङ्किविराजितम् ॥ स्निग्धकोमलदूर्वाभं सौकुमार्यनिधिं शुभम् । पीतकौशेयवसनं सर्वानरणभूषितम् || युवा (व) समानवयसं जगन्मोहनविग्रहम् । दृष्ट्वा तं राक्षसी रामं कंदर्पशरपीडिता ॥ अब्रवीत्समुपेत्याथ रामं कमललोचनम् ॥ २२२ २२३ २२४ २२६ २२७ २२८ २२९ २३० २३१ २३२ राक्षस्युवाच कस्त्वं तापसवेषेण वर्तसे दण्डकावने । आगतोऽसि किमर्थं तु तापसानां दुरासदे ॥ शीघ्रमाचक्ष्व तत्त्वेन नानृतं वक्तुमर्हसि ॥ १ झ. फ. च दयया विभु' । २ ङ. अ. मः । पूजयामास ध । रम्ये । ५ झ. फ. वाकुमारव६ झ. ससानां । २३३ २३४ ३ झ. फ. षणं चानुलेपनम् । हिं । ४ ङ. अ.

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697