________________
અષ્ટક પ્રકરણ
રરપ
૨૦-મેથુનદૂષણ અષ્ટક ॥२०॥ अथ विंशतितमं मैथुनदूषणाष्टकम् ॥ अथ यदुक्तं न च मैथुने दोषः' इति तन्निराचिकीर्षुराहरागादेव नियोगेन, मैथुनं जायते यतः । ततः कथं न दोषोऽत्र, येन शास्त्रे निषिध्यते ॥१॥
वृत्तिः- रागोऽभिष्वङ्गलक्षणः, अथवा स्नेहरागविषयरागदृष्टिरागभेदात् त्रिविधो रागः, तत्राद्यो पत्यादिषु, द्वितीयः पुंवेदादिरूपः, तृतीयो वादिनां स्वदर्शनपक्षपातरूपः तत्र 'रागात्' कामोदयरूपात्, 'एवशब्दो'ऽनाभोगमाध्यस्थ्यादिव्यवच्छेदार्थः 'नियोगेन' अवश्यम्भावेन, अनेन च मैथुने माध्यस्थ्येन प्रवृत्यसम्भवोपदर्शनेन मैथुनव्रतस्य निरपवादतामाह, आह च-"न वि किंचि अणुनायं, पडिसिद्धं वा वि जिणवरिंदेहिं । मुत्तुं मेहुणभावं, न तं विणा रागदोसेहिं ति' ॥१॥" मिथुनस्य प्रायः स्त्रीपुरुषद्वन्द्वस्य कर्म 'मैथुनम्,' 'जायते' उपपद्यते, 'यतो' यस्मात्, 'ततः' तस्मात्, 'कथं' केन प्रकारेण, 'न' नैव, 'दोषो' दूषणम्, रागलक्षणस्तज्जन्यकर्मबन्धलक्षणो वा, 'अत्र' एतस्मिन्मैथुने, 'येन' कारणेन, 'शास्त्रे' 'न च मैथुने दोषः' इत्येवंलक्षणे ग्रन्थे, 'निषिध्यते' निराक्रियते, त्वया दोष इति गम्यम्, अथवा चकारदर्शनात् येन च यतश्च शास्त्रे निषिध्यते मैथुनमतः कथं न दोषः अथवा यदि नाम रागाज्जायते मैथुनं तदा जायताम्, कुतोऽत्र दोषसद्भावः, उच्यते, येन कारणेन शास्त्रे निषिध्यते, राग इत्यनुवर्तते, आह च-"को दुक्खं पाविज्जा, कस्स व सोस्खेहि विह्मओ हुज्जा । को व न लभेज्ज मोक्खं, रागद्दोसा जइ न होज्जा ॥१॥" अतः शास्त्रनिषिद्धरागपूर्वकत्वान्मैथुने कथं न दोष इति हृदयम् । प्रयोगोऽत्र- यद्रागजन्यं तत्सदोषम्, यथा हिंसाविशेषः, रागजन्यं च मैथुनम्, अतः सदोषमिति ॥१॥
વિસમું મૈથુનદુષણ અષ્ટક (મનુસ્મૃતિગ્રંથમાં માંસભક્ષણ અને મદ્યપાનની જેમ મૈથુનસેવનને પણ નિર્દોષ કહેવામાં આવ્યું છે. આ અષ્ટકમાં મૈથુનસેવનને દોષનું કારણ જણાવીને મનુસ્મૃતિમાં કહેલ વિધિ મુજબ મૈથુનસેવન પણ નિર્દોષ નથી, અને મૈથુનને નિર્દોષ કહેનાર વચન અપ્રામાણિક છે એ સિદ્ધ કરવામાં આવ્યું છે.)
હવે “મૈથુનમાં દોષ નથી” એમ જે કહ્યું તેનું નિરાકરણ કરવા માટે કહે છે –
શ્લોકાર્થ– મૈથુન અવશ્ય રાગથી જ થાય છે. આથી મૈથુનમાં દોષ કેમ નથી ? જેથી શાસ્ત્રમાં દોષનો નિષેધ કરવામાં આવે છે.
મેથુન=મિથુનની પ્રાયઃ કરીને સ્ત્રીપુરુષ જૂની જે ક્રિયા તે મૈથુન. અવશ્ય રાગથી જ– અહીં “જકાર” અનાભોગ અને માધ્યચ્ય આદિનો વ્યવચ્છેદ કરવા માટે છે.
३. नापि किञ्चिदनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रैः । मुक्त्वा मैथुनभावं न तद्विना रागद्वेषाभ्यामिति ॥१॥ ४. को दुःखं प्राप्नुयात् कस्य वा सौख्यैर्विस्मयो भवेत् । को वा न लभेत मोक्षं रागद्वेषौ यदि न भवेताम् ॥शा