Book Title: Ashtak Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 343
________________ ૩૩૮ અષ્ટક પ્રકરણ ૩૨-મોક્ષ અષ્ટક આ પ્રમાણે- હમણાં કહેલા “મોક્ષસુખ સ્વાધીન છે” ઇત્યાદિ પ્રકારથી. આ પ્રમાણે- મોક્ષસુખ સકલકલ્યાણ રૂપ હોવાથી મોક્ષસુખ જ વાસ્તવિક સુખ છે, નહિ કે સાંસારિક સુખ. (૮) अथ केषामिदमवसेयमित्यत आहसंवेद्यं योगिनामेत-दन्येषां श्रुतिगोचरः । उपमाऽभावतो व्यक्त-मभिधातुं न शक्यते ॥९॥ वृत्तिः- 'संवेद्यं' संवेदनार्हम्, 'योगिनां' केवलिनाम्, 'एतत्' मोक्षसुखम्, अन्येषां का वार्तेत्याह- 'अन्येषां' अयोगिनाम्, 'श्रुतिगोचरः' श्रवणविषय एव, न संवेदनीयम्, श्रुतिगोचरोऽपि तदन्येषां यथावत्तया न भवति, तथात्वेन तस्य वक्तुमशक्यत्वात्, एतदेवाह- 'उपमाऽभावतो' दृष्टन्ताभावेन, 'व्यक्तं' स्फुटम्, वक्तुं 'अभिधातुं', 'न' नैव, 'शक्यते' पार्यते, मुक्तिसुखमिति प्रक्रमः, यदाह-"जह नाम कोइ मिच्छो, नगरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं, उवमाएँ तहिं असंतीए५१ ॥२॥" सामान्येन पुनरभिधीयते, तद्यथा-"जह सव्वकामगुणियं, पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुक्को, अच्छिज्ज जहा अमियतित्तो५२ ॥२॥" "इय सव्वकालतित्ता, अउलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं, चिटुंति सुही सुहं पत्त ॥३॥ ति" ॥९॥ द्वात्रिंशतोऽष्टकप्रकरणानां समाप्तिसूचकं श्लोकमाहअष्टकाख्यं प्रकरणं, कृत्वा यत्पुण्यमर्जितम् । विरहात्तेन पापस्य, भवन्तु सुखिनो जनाः ॥१०॥ वृत्तिः- मूलटीकायां नास्त्येवायं श्लोकः, इह तु स्पष्टत्वान्न व्याख्यातः, केवलं विरहशब्देन हरिभद्राचार्यकृतत्वं प्रकरणस्यावेदितम्, विरहाङ्कत्वाद्धरिभद्रसूरेरिति । ॥ द्वात्रिंशत्तमाष्टकविवरणं समाप्तम् ॥३२॥ ५१. यथा नाम कश्चिम्लेच्छो नगरगुणान् बहुविधान् विजानन् । न शक्नोति परिकथयितुमुपमायां तत्रासत्याम् ॥१॥ भावार्थः कथानकगम्यः । म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः । अन्यदा तत्र भूपालो, दुष्टाधेन प्रवेशितः ॥१॥ म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निजं देशं, सोऽपि राज्ञा निजं पुरम् ॥२॥ ममायमुपकारीति, तो राज्ञाऽतिगौरवात् । विशिष्टभोगभूतीनां, भाजनं जनपूजितः ॥३॥ ततः प्रासादशङ्गेषु रम्येषु काननेषु च । वृतो विलासिनीसाथैर्भुङ्क्ते भोगसुखान्यसौ ॥४॥ अन्यदा प्रावृषः प्राप्ती, मेघाडम्बरमण्डितम् । व्योम दृष्ट्वा ध्वनि श्रुत्वा, मेघानां स मनोहरम् ॥५॥ जातोत्कण्ठो दृढं जातोऽरण्यवासगमं प्रति । विसर्जितश्च राज्ञाऽपि, प्राप्तोऽरण्यमसौ ततः ॥६॥ पृच्छन्त्यरण्यवासास्तं, नगरं तात कीदृशम् ? । स स्वभावान् पुरः सर्वान्, जानात्येव हि केवलम् ॥७॥ न शशाकतमां तेषां, गदितुं स कृतोद्यमः । वने वनेचराणां हि नास्ति सिद्धोपमा तथा ॥८॥ ५२. यथा सर्वकामगुणितं पुरुषो भुक्त्वा भोजनं कश्चित् । तृष्णाक्षुधाविमुक्तस्तिष्ठेत् यथाऽमृततृप्तः । ५३. इति सर्वकालतृप्ता अतुलं निर्वाणमुपगता: सिद्धाः । शाश्वतमव्यावाधं तिष्ठन्ति सुखिनः सुखं प्राप्ता इति ।

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354