Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1343
________________ धम्म 2665 - अभिधानराजेन्द्रः - भाग 4 धम्म भावार्थः / किं च-योऽयमिह तन्तुषु पट इत्यादिप्रत्ययात्सम-वायसाधनमनोरथः, स खल्वनुहरते नपुंसकादपत्यप्रसवमनोरथम्, इह तन्तुषु पट इत्यादिव्यवहारस्यालौकिकत्वात्पांशुलपादानामपि इह पटे तन्तव इत्येव प्रतीतिदर्शनात्। इह भूतले घटाभाव इत्यत्रापि समवायप्रसङ्गात्। अत एवाऽऽह-अपि च लोकबाध इति। अपि चेति दूषणाभ्युच्चये। लोकः प्रामाणिकलोक: सामान्यलोकश्व, तेन बाधो विरोधो लोकबाधस्तदप्रतीतव्यवहार-साधनात् बाधशब्दस्य'ईहाऽऽद्याः प्रत्ययभेदतः " इति पुंस्त्रीलिङ्गता / तस्माद्धर्मधर्मिणोरविष्वग्भावलक्षण एव संबन्धः प्रतिपत्तव्यो नान्वः समवायाऽऽदिः / इति काव्यार्थः // 7 // स्या०। (3) धर्मानुरूपो हि सर्वत्रापि धर्मी / यथा काठिन्य प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मिभावो भवेत् ततः काठिन्यजलयोरपि स भवेत, तन्न भवति, तस्मादचेतनाः पुदलाः। तथा चोक्तम्"वाहसभावममुत्तं, विसयपरिच्छेयगं च चेयन्न / विवरीयसहावाणि य, छूढाणि जगप्पसिद्धाणि / / 1 / / ता धम्मधम्मिभावो, कहमेएसिं अणुभवं गाहे। अणुरूवत्ताभावे, काठिन्नजलाण किं न भवे? ||2||" आ०म०१ अ०२ खण्ड / जीवपुद्गलानां गतिपर्यायण धारणाद् धर्मः / धर्मास्तिकाये, भ०२० श०२ उ०। अनु०। "एगे धम्मे।" धर्मो धर्मास्तिकायः / स०१ सम०। स्था० / धर्मो धर्मास्तिकायो गत्युपष्टम्भगुणः। स्था०२ ठा०१ उ०। (वक्तव्यता 'धम्मस्थिकाय' शब्दे द्रष्ट व्या) मर्यादायाम, धर्मः, स्थितिः, समयो, व्यवस्था, मर्यादेत्यनर्थान्तरमिति। आ०चू०२ अ०। प्रति०। आचारे, बृ०१ उ०१ प्रकला उत्तका धर्मो यतिश्राद्धाचारलक्षण इति / ध०२ अधि०ा दुर्गती पपततो जीवान् धारयति सुगतौ च तान्स्थापयतीति धर्मः / स्था० 1 ठा०। ''दुर्गति--प्रसृतान जन्तून्, यस्माद्धारयते पुनः / धत्ते चैतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः / / 1 / / " नं० आ०चूला आव०। ओघo आ०म०ाला दशा पञ्चा० पासूत्र०। इत्युक्तलक्षणे दुर्गतिगर्तनिपतजन्तुजातधरणप्रवणपरिणामपूर्वके (पञ्चा० १विव०) कुशलानुष्ठाने, पञ्चा० 4 विव०। सूत्र०। दुर्गतिगानिपतञ्जन्तुजातत्राणदानक्षमे, दर्श० 1 तत्त्व। संसारोद्धरणस्वभावे, सूत्र०१ श्रु०६ अ०! स्वर्गापवर्गमार्गभूते, आचा० 1 श्रु०३अ०१ उ०ादर्श०। ध०र०। आव०ा अभ्युदयनिः श्रेयससिद्धिसाधने, (ध०१ अधि०) पुण्यलक्षणे आत्मपरिणामे, धर्माधम्मौ पुण्यपापलक्षणौ स्वानुभवत्वादात्मपरिणामरूपाविति / आव०४ अ०। सूत्रा (पुण्यभङ्गास्तद्धक्तव्यता च पुण्ण' शब्दे द्रष्टव्या) सम्यग्दर्शनाऽऽदिके कर्मक्षयकारणे आत्मपरिणामे, सूत्र० 2 श्रु० 5 अ०। सम्यग्दर्शनमूलोत्तरगुणसंहतिस्वरूपो धर्म इति। नंगाधर्मः सम्यग्ज्ञानदर्शनचरणाऽऽत्मक इति / तं०। सम्यग्दर्शनभावज्ञानचारित्राऽऽत्मकं धर्ममिति / सूत्र० 1 श्रु० 15 अ०। श्रुतचारित्राऽऽख्याऽऽत्मके कर्मक्षयकारणे जीवस्याऽऽत्मपरिणामे, सूत्र०२ श्रु०५ अ० धर्मों भावतश्चारित्रधर्मो, धर्महेतुत्वात् श्रुतधर्मश्चेति / दश०१ अ० स०। आ०चू० / धर्मो द्विविधः-श्रुतधर्मश्चारित्रधर्मश्चेति। आव०५ अ० स० भ० प्रतिकातं०। पं०सू० औ० स्था०ाज। संथा० प्र० सूत्र०। आचाग उत्त०ा पाना धर्मः संसारोद्धरणस्वभावः, जिनप्रणीतं वा श्रुतचारित्राऽऽख्यमिति / सूत्र०१ श्रु०६ अ० उत्त। साधर्मः क्षायिकचारित्राऽऽदिरिति। स्था०३ ढा०१ उ०। सूत्रका दुर्गतिनिषेधेन शोभनगतिधारणाद्धर्म श्रुतचारित्राऽऽख्यमिति / सूत्र०१ श्रु०११ अ०। स्था०। आव०। 'धम्माण कासवो मुहं / ' धर्माणां श्रुतधर्माणां चारित्रधर्माणां च काश्यप आदीश्वरो मुखं वर्तते, धर्माः सर्वेऽपि तेनैव प्रकाशिता इत्यर्थः / उत्त० 25 अ०। सर्ववित्प्रणीतेऽहिंसाऽऽदिलक्षणे सम्यक्त्वे, दर्श०१ तत्त्व। सूत्र०ा दश०। क्षान्त्यादिके श्रमणधर्मे, दश०६ अ० प्रव०। 'न ते धम्मविऊ जणा।" क्षान्त्यादिको दशविधो धर्म इति / सूत्र०१ श्रु०१अ०१उ०। प्रतिका उत्त०। पा०ा स्था०। आव०। प्राणातिपातविरमणाऽऽदिके श्रावकधर्म, दश० 6 अ०। सूत्र०ा दानाऽऽदिके श्रावकधर्मे च। संथा०। धर्मास्तित्वं विशेषावश्यके यथा- "समासु तुल्यं विषमासु तुल्यं, सतीष्य - सवाप्यसतीषु सच / फलं क्रियास्वित्यथ यन्निमित्तं, तद्देहिनां सोऽस्ति नुकोऽपि धर्मः? // 1 // " विशे०। (1618 गाथाटी०) (विस्तरेणानुमानाऽऽदिना तत्सिद्धिः 'कम्म' शब्दे तृतीयभागे 252 पृष्ठे दृश्या)(एकान्तेन धर्माधर्मयोरस्तित्वनास्तित्वे नाभ्युपेये इति 'अणेगंतवाय' शब्दे प्रथमभागे 426 पृष्ठे प्रोक्तम्) (4) अथ धर्मपदवाच्यमाहवचनादविरुद्धाद्य-दनुष्ठानं यथोदितम्। मैत्र्यादिभावसंमिश्र, तद्धर्म इति कीर्त्यते / / 3 / / उच्यते इति वचनमागमः, तस्माद्भवनमनुसृत्येत्यर्थः, ल्वब्लोपे पञ्चमीय,यदनुष्ठानमिहलोकपरलोकावपेक्ष्य हेयोपादेययोरर्थयोरिदेव शाने वक्ष्यमाणलक्षणयोहानोपादानलक्षणा / प्रवृत्तिरिति तद्धर्म इति कीर्त्यत इत्युत्तरेण योगः। कीदृशाद्वचनादित्याह-अविरुद्धात् कषच्छेदताषेषु अविघटमानात्, तत्र विधिप्रतिषेधयोर्बाहुल्येनोपवर्णनं कषशुद्धिः, पदे पदे तद्योगक्षेमकारिक्रियोपदर्शनं छेदशुद्धिः, विधिप्रतिषेधतद्विषयाणां जीवाऽऽदिपदार्थानां च स्याद्वादपरीक्षया यथात्म्येन समर्थनं तापशुद्धिः / तदुक्तं धर्मविन्दौ-"विधिप्रतिषेधौ कषः। तत्संभवपालनाचेष्टोक्तिश्छेदः / उभय-निबन्धनभाववादस्ताप इति।"तचाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धेः, वचनस्य हिवक्ता निमित्तमन्तरङ्ग, तस्य च रागद्वेष-- मोहपारतन्त्रयमशुद्धिस्तेभ्यो वितथवचनप्रवृत्तेः, न चैषा शुद्धिर्जिने भगवति, जिनत्वविरोधात्, जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनितिशब्दार्थानुपपत्तेः, तपनदहनाऽऽदिशब्दवदन्वर्थतया चास्याभ्युपगगाद्, निमित्तशुद्ध्य तावान्नाजिनप्रणीतवचनविरुद्धं, यतः कारणस्वरूपानविधायि कार्य , तन्न दुष्टकारणाऽऽरब्धं कार्यमदुष्टं भवतुिमर्हति निम्बबीजादिवेक्षुयष्टिरिति। अन्यथा-कारणव्यवस्थोपरमप्रसङ्गात,यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागाऽऽदिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित्किञ्चिदविरुद्धमपि वचनमुपलभ्यते. मार्गानुसारिबुद्धौ वा प्राणिनि कचित्, तदपि जिनप्रणीतमेव, तन्मूलत्वात्तस्य / तदुक्तमुपदेशपदे- "सव्वप्पयायमूलं, दुवालसंग जओ जिणक्खायं / रयणागरतुल्ल खलु, तो सव्व सुंदर तम्मि' // 1 / / इति। कीदृशमनुष्ठान धर्म इत्याह- "यथोदितम्" यथा येन प्रकारेण कालाऽऽद्यारा धनानुसाररूपेण उदितं प्रतिपादितं, तत्रैवाविरुद्ध वचने इति गम्य--

Loading...

Page Navigation
1 ... 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456